भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 8, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 8

( ८ ) वेदान्तसार । नपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपा- सनाऽनुष्ठानेन निर्गतनिखिलकल्मष- तया नितान्तनिर्मलस्वान्तः साधनच- तुष्टयसम्पन्नः प्रमाताधिकारी ॥ ६ ॥ ( सं० टी० ) अनुबन्धचतुष्टयमेवाह। यथोद्देशमधिकारिणं लक्षयति। अधिकारी त्विति । “स्वाध्यायोऽध्येतव्यः” इति व- चनात्त्रैवर्णिकानामुपनीतानामध्ययनं नियमेन विधीयते। अध्य- यनविधिप्रयुक्तमेवाध्ययनं नाध्यापनविधिप्रयुक्तम्। तथा चाधी- तोवेदो वेदांगानि च शिक्षाकल्पव्याकरणछंदोज्योतिषनिरुक्ता ख्यानि यतस्तेनापाततोधिगताखिलवेदार्थः । अत्र सर्ववेदार्थ- रहस्ये ज्ञाते सति उत्तरग्रन्थवैय्यर्थ्यपरिहारायापातत इत्युक्तम् । नन्वनधीतवेदानामपि विदुरादीनांतत्वज्ञानोत्पत्तिदर्शनादेवाध्य- यनतत्प्रयुक्तकर्मानुष्ठानवैय्यर्थ्यमाशंक्योत्तरमाह । जन्मांतर इ- ति। तेषामाधुनिकाध्ययनायभावेपि जन्मांतरीयाध्ययनादिनि- मित्तपरिपाकवतामस्मिञ्जन्मनि विनाप्यध्ययनादिना ज्ञानो- त्पत्तौ बाधकाभावान्नाध्ययनादिवैय्यर्थ्यमिति भावः। काम्येति । काम्यस्यापि कर्मणो धर्म्मसाधनत्वेपि यातायांतसंपादकत्वेन बन्धकत्वात् निषिद्धवत्तद्वर्ज्जनपुरःसरमित्युक्तम् । तथाच नि- त्यादिकर्म्मानुष्ठानेन्निर्गतनिखिलकल्मषतयानिःशेषनिरस्तसक- लकल्मषत्वेन। अत्र निखिलपदं काम्यनिषिद्धजनितसुकृतदु- ष्कृतपरम्। तेन नितांतनिर्मलस्वान्तः नितांतमत्यंतं निर्मलं स्व-