भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 82, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 82

( ८२ ) वेदान्तसार । दा तच्छब्दार्थस्यायंशब्दवाच्यार्थनिष्ठभेदव्यावर्तकतया विशे- षणत्वं अयंशब्दार्थस्य व्यावर्त्यत्वाद्दिशेष्यत्वं यदा च स इ- ति तच्छब्दवाच्यः तत्कालतेद्देशविशिष्टो देवदत्तपिंडः स अय- मितीदंशब्दवाच्यादेतत्कार्लैतद्देशसंबंधविशिष्टादस्माद्देवदत्तपिं- डान्न भिद्यत इति यदा प्रतिपद्यते तदायंशब्दवाच्यस्य तच्छ- ब्दार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तच्छब्दार्थस्य व्याव- र्तकत्वाद्दिशेष्यत्वं तथा चायमेव सः स एवायमिति अन्योन्य- भेदव्यावर्तकतया सोऽयंशब्दार्थयोः परस्परविशेषणविशेष्य- भाव इत्यर्थः।उक्तं विशेषणविशेष्यभावं दार्ष्टांतिके योजयति। तथात्रापीति । इहापि तत्त्वमसीति वाक्येपि त्वंपदवाच्यं यदप- रोक्षत्वं किंचिज्ज्ञत्वादिविशिष्टं तत्पदवाच्यात्सर्वज्ञत्वादिवि- शिष्टचैतन्यान्न भिद्यते इति यदा प्रतीयते तदा तच्छब्दार्थस्य त्वंपदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं त्वंपदार्थस्य व्या- वृत्यत्वात् विशेष्यत्वं यदा च तत्पदवाच्ययत्तसर्वज्ञत्वादिवि- शिष्टचैतन्यं त्वंपदवाच्यात्किंचिज्ज्ञत्वादिविशिष्टचैतन्यान्न भिद्यत इति यदा प्रतीयते तदा त्वंपदार्थस्य तत्पदार्थनिष्ठभेद- व्यावर्तकत्वेन विशेषणत्वं तत्पदार्थस्य व्यावृत्यत्वात् विशे- ष्यत्वं तथा च त्वं तदसि तत्त्वमसीति तत्त्वंपदार्थयोः परस्परं भेदव्यावर्तकत्वेन परस्परं विशेषणविशेष्यभाव इत्यर्थः ॥ ७७ ॥ ( भा०टी० ) अब विशेष्यविशेषणभाव सम्बन्ध दिख- लाते हैं। जैसे-पहले कहे हुए “ सोऽयं देवदत्तः” इस वा- क्यमें “ सः” पदका अर्थ पहले देखी हुई व्यक्तिका बो-