वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 85, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । (८५) और “तत्-त्वम्” पद लक्षण होते हैं इसीको शास्त्र- कार भागलक्षणा सम्बन्ध कहते हैं ॥ ७८ ॥ अस्मिन् वाक्ये नीलमुत्पलमिति वाक्यवद्वा- क्यार्थो न सङ्गच्छते। तत्र नीलपदार्थनीलगुणस्य उत्पलपदार्थोत्पलद्रव्यस्य च शुक्लपदादिव्या- वर्त्तकतयाऽन्योन्यविशेष्यविशेषणरूपसंसर्गस्या- न्यतरविशिष्टस्यान्यतरस्य वा तदैक्यस्य वाक्या- र्थाद्गीकरणे प्रमाणान्तरविरोधाभावाद्वाक्यार्थः सङ्गच्छते। अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचै- तन्यस्य त्वम्पदार्था परोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्त्तकतया विशेषणविशेष्यभा- वसंसर्गस्य अन्यतरविशिष्टस्यान्यतरस्य वा तदै- क्यस्य वाक्यार्थत्वाद्गीकारे प्रत्यक्षादिप्रमाणविरो- धाद्वाक्यार्थो न सङ्गच्छते ॥ ७९ ॥ (सं०टी० )ननु यथा नीलोत्पलमिति वाक्ये नीलत्वविशि- ष्टनीलगुणस्य उत्पलत्वविशिष्टोत्पलद्रव्यस्य च स्वव्यतिरिक्त- शुक्लादिगुणांतरपटादिद्रव्यांतरव्यावर्त्तकत्वेन विशेषणविशेष्य- भावनिरूपिततद्भिन्नसंसर्गस्य नीलगुणवैशिष्ट्यस्य वा वाक्या- र्थत्वं तथेहापि तत्त्वमस्यादिवाक्ये तत्पदार्थस्य परोक्षत्वादिवि- शिष्टेश्वरचैतन्यस्य त्वंपदार्थस्यापरोक्षत्वादिविशिष्टजीवचैतन्य स्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभूतसर्वज्ञत्व- किंचिज्ज्ञत्वोभयनिरूपितसंसर्गो वा सर्वज्ञत्वादिविशिष्टस्य