भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 101, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 101

लोलांशुकस्य पवनाकुलितांशुकांतं त्वद्दृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ २३ ॥ ( प्रविश्य पटाक्षेपेण सम्भ्रान्तः । ) कञ्चुकी—देव, भग्नं भग्नम् । ( सर्वे साकूतं पश्यन्ति । ) राजा—केन ? अन्वयः—( हे ) करभोरु, तव लीलांशुकस्य, मम, लोचनबान्धवस्य, जघन- स्थलस्य, अध्यासितुम्, ( मम.), पवनाकुलितांशुकांतम्, त्वद्दृष्टिहारि, ऊरुयुग्मम्, चिरम्, पर्याप्तम्, एव ॥ २३ ॥ ममोरुयुगलमेव तवासनमित्याह—लोलांशुकस्येति । करभोरु = करभ इव ऊरू यस्याः सा, तत्सम्बोधने ‘करभो मणिबन्धादिकनिष्ठान्तोष्टृतत्सुते’ इति, मेदिनी । तव, लोलांशुकस्य = चञ्चलवस्त्रस्य, मम = दुर्योधनस्य, लोचनबान्धवस्य = नेत्रबन्धोः, ममेयस्य लोचनेऽन्वयः, अत्रैकदेशान्वयोऽपि साधुरेव अभेदान्वयस्थल एवासाधुत्वस्य प्रतिपादनात् । जघनस्थलस्य अध्यासितुम् = आश्रयितुम् मम, पवनाकुलितांशुकांतं = पवनेन वायुना आकुलितम् अंशुकांतम् वस्त्रान्तम् यस्मिन् तव, त्वद्दृष्टिहारि = तव नेत्रहरणशीलम्, ऊरुयुग्मम् चिरम् = चिराय, पर्याप्तं = समर्थम्, एवेत्यवधारणे । अत्र योग्ययोः संघटनावशात् समालङ्कारः । वसन्ततिलकाछन्दः ॥ सम्भ्रान्तः = उद्विग्नः । भग्नं भग्नमिति—यद्यपीदं रथकेतनान्ययित्वेन विवक्षितं तथापि पूर्वप्रकृतस्य जघनस्यान्वयसम्भवात् भाविनो भीमकृतदुर्योधनभङ्गस्य छलेन सूचनम् । हे करभोरु, हवा के झकोरे से आपके जघनस्थलों पर से वस्त्र उड़ रहा है । यह मेरे नेत्रों के लिए परम आनन्दप्रद है इनके चिरकाल तक विश्राम पाने के लिए मेरे जघनस्थल, जो तुम्हारे नेत्रों के लिए आकर्षक तथा वायु के झोकों से वस्त्ररहित हो रहे हैं, पर्याप्त हैं ॥ २३ ॥ ( व्याकुल कञ्चुकी का परदा हटाकर प्रवेश ) कञ्चुकी—महाराज, टूट गया ! टूट गया !! ( सब आश्चर्यचकित होकर देख रहे हैं ) राजा—किसके द्वारा ?