वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 108, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ८७ द्विगुणीकृतनिरावरणविक्रमस्य नामाऽपि ग्रहीतुं ते तनयस्य । अयि सुत- पराक्रमानभिज्ञे ! धर्मात्मजं प्रति यमौ च कथैव नास्ति मध्ये वृकोदरकिरीटभृतोर्बलेन । एकोऽपि विस्फुरितमण्डलचापचक्रं कः सिन्धुराजमभिषेणयितुं समर्थः ॥ २६ ॥ भानुमती-अज्ज उत्त, जह्वि एव्वं तहवि गुरुकिदपडिण्णाभारोद्वाणं वखु सङ्घाए (आर्यपुत्र, यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभारः स्थानं खलु शङ्कायाः) रोऽपि जीवितुं न शक्नोति तथा च भीमादयाऽपीति भावः । निरावरणः = निर्गतमा- वरणं यम्मात्सः, अप्रतिहत इत्यर्थः । अन्वयः—धर्मात्मजम्, यमौ, च, प्रति, कथा, एव, न अस्ति, वृकोदरकिरीट- भृतोः, मध्ये एकः, अपि, कः, बलेन, विस्फुरितमण्डलचापचक्रम्, सिन्धुराजम् , अभिषेणयितुम्, समर्थः ॥ २६ ॥ सुतपराक्रममेवाह—धर्मात्मजमिति । धर्मात्मज=युधिष्ठिरम् , यमौ=यमलजातौ, नकुलसहदेवावित्यर्थः, च प्रति, कथा=कथनम् एव, नास्ति, एते जयद्रथस्य न किमपि कर्तुं शक्नुवन्तीति भावः । वृकोदरकिरीटभृतोः=भीमार्जुनयोः, मध्ये, एकोऽपि कः, बलेन=ऊर्जितेन, विस्फुरितमण्डलचापचक्रम् = विस्फुरितं कृतं मण्डल मण्डलाकारं चापचक्रं धनुश्चक्रं येन तम्, सिन्धुराजम् = जयद्रथम्, अभिषेणयितु = सेनयाऽभियातुम् अभिमुखं योधयितुमित्यर्थः । समर्थः, न कोऽपीत्यर्थः । एतेन जयद्रथस्य पाण्डवेभ्यो बलवत्त्वं सूचितमिति भावः । वसन्ततिलका छन्दः ॥ २६ ॥ यद्यपि एवम् = पाण्डवेभ्यः जयद्रथो बलवान् , तथापि गुरुकृतप्रतिज्ञाभारः = और अधिक पराक्रमी जयद्रथ का नाम तक कोई नहीं उच्चारण कर सकता उससे संग्राम करना तो दूर रहा । अयि तू अपने पुत्र के बल-पौरुष से अपरिचित !— युधिष्ठिर तथा माद्रीपुत्र [ नकुल और सहदेव ] के विषय में कोई बात ही नहीं अर्थात् वे लोग युद्ध कला जानते ही नहीं । भीम और किरीटी [ अर्जुन ] के बीच में कौन ऐसा है जो अत्यन्त शीघ्र गति से सञ्चालन करने हुए धनुष को चक्राकार बनाने वाले सिन्धुराज जयद्रथ के साथ संग्राम में ठहर सकता है और पाण्डवों में कोई भी ऐसा वीर नहीं है जो जयद्रथ के सम्मुख युद्ध करे ॥ २६ ॥ भानुमती - आर्यपुत्र, यह सत्य है तथापि अर्जुन ने भीषण प्रतिज्ञा की है—यही शंका का कारण है । ।'