वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 117, कुल 355 में से
संदर्भ में पढ़ें९६ वेणीसंहारं नाटकं राक्षसः—( तथा कृत्वा ) वशागन्धे, अह किअप्पहूदं दुए शञ्चिअं लुहिलं अग्गमंशं अ । ( वसागन्धे, अथ कियत्प्रभूतं त्वया सञ्चितं रुधिरमग्रमांसं च । ) राक्षसी—अले लुहिलप्पिआ, पुव्वशञ्चिअं तुमं वि जाणाशि जेव्व । णवशञ्चिअं शिणु दाव । भअदत्तशोणिअहिं कुम्भे शिन्धुलाअवशाहिं कुम्भे दुवे दुवदमच्छाहिवभूलिशवशोमदत्तबल्हिप्पमुहाणं णलिन्दाण अण्णाणं वि पाकिदपुलिशाणं लुहितमंशेहिं पुलिदाई घडशदाई अशङ्खाई शन्ति मे गेहे । ( अरे रुधिरप्रिय, पूर्वसञ्चितं त्वमपि जानास्येव । नवसञ्चितं शृणु तावत् । भगदत्तशोणितैः कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्त- बाह्लीकप्रमुखानां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरमांसैः पूरितानि घटशता- न्यसंख्यानि सन्ति मे गेहे । ) राक्षसः—(सपरितोषमालिङ्ग्य ।) शाहु शुग्घलिणीए, शाहु । इमिणा दे शुग्घलिनीत्तणेण अज्ज उण शामिणीए हिडिम्वादेवीए शम्बिदाणेण प्पणट्ठं ने जम्मदालिद्दम् । ( साधु सुगृहिणी, साधु । अनेन ते सुगृहिणीत्वेनाद्य स्वामिन्या अग्रमांसम् = उत्तममासम् 'प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवर्हानवरा- र्ध्यवत् । पराग्र्यग्रिप्राग्रहरे'त्यमरः । रुधिरञ्च प्रभूतम् = प्रचुरम् सञ्चितमित्यन्वयः । भगदत्तशोणितैः = भगदत्तनामा नृपः समरे हतः तस्य रुधिरैः कुम्भः=एकघटः, सिन्धुराजवसाभिः = जयद्रथमेदोभिः । ये ये प्रमुखा नरेन्द्रा हतास्तेषां नामान्युल्लिख- तिद्रुपदेत्यादि । एतेषां मांसशोणितैः पूरिता असङ्ख्या घटाः सन्ति मम गृह इत्यर्थः । ते = तव, अनेन=त्वयि स्थितेन, सुगृहिणीत्वेन = उत्तमगृहकार्यकारिणीत्वेन, स्वामिन्याः, हिडिम्बादेव्याः = भीमसेनपत्न्याः, संविधानेन = त्वया भीमस्यातु- राक्षस—( खा-पीकर ) अरी वसागन्धे, कितने प्रचुर परिमाण में रक्त और हृदयमांस तू सञ्चित कर रखी हो ? राक्षसी—अयि रक्तप्रिय, पहिले, का सञ्चय तो तुम जानते ही हो ('नई-नई सञ्चित सामग्रियों को सुनिये—वीर भगदत्त के रुधिर से एक घड़ा, जयद्रथ की चर्बियों से दो घड़े और द्रुपद, मत्स्यनरेश, भूरिश्रवा, सोमदत्त तथा बाह्लीक प्रभृति प्रधान-प्रधान के तथा और भी साधारण शूरों के रुधिर-मांसादि से भरे हुए हजारों घड़े मुखबन्द करके मेरे घर पर रक्खे पड़े हुए हैं । राक्षस—( तुष्टि के साथ आलिङ्गन करके ) शाबास, मेरी योग्य पत्नी शाबास, इस तुम्हारे योग्य पत्नी रहने के कारण तथा भर्तृणी हिडिम्बा देवी के उपाय से आज मेरे