वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 134, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११३ केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ १३ ॥ तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सार- गुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किन्तु पितुः परिभवमसद्दशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा— एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । केशग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥ १४ ॥ शस्त्रभृत तान्, शस्त्रे वैफल्यं चानुचितकार्यनिवारणात् । भूपतीन् = राज्ञः धिक्, अस्मान् = माम् धिक्, एते सर्वे निन्दनीया इत्यर्थः । खलु धिक्कारे हेतुमाह— तदेति । यैः = एतैः, पूर्वोक्तैः, तदा, द्रुपदात्मजायाः = द्रौपद्याः, केशग्रहः = कचाकर्षणम् अद्य, द्रोणस्य च केशग्रहः, लिखितैः = चित्रस्थैः, इव, वीक्षितः = दृष्टः । द्रौपदीकेशा- कर्षणे प्रधानहेतोरतिनिन्दनीयत्वात् कुरुपतेः प्राथम्येन निर्देशः । द्रोणस्य केशग्रहे अजातशत्रोः हेतुत्वात् ततः परोऽजातशत्रोनिर्देशः । दृष्ट्वापि भूपतिभिरनिवारणात् तेषामपि निन्दनीयत्वात् ततः परो निर्देशः । अत्र काव्यलिङ्गमलङ्कारः । वसन्त- तिलका छन्दः ॥ १३ ॥ हिमवत्सारगुरुचेतसि = हिमवतः सारमिव गुरु महत् दृढम् चेतः यस्य तस्मिन्, ज्ञातलोकस्थितौ = विदितजगन्मर्यादे, तस्मिन् = अश्वत्थाम्नि, शोकावेगम् = अधिक- शोकोद्वेगम्, अहम् न खलु, आशङ्के = सन्देह्नि । किन्तु, पितुः, असद्दशम् = अनुचितम्, परिभवम् = मृत्युम्, उपश्रुत्य = ज्ञात्वा किं, व्यवस्यतीति न जात इत्यन्वयः । अन्वयः—एकस्य, अयम् दारुणः, पाकः, तावद्, भुवि, वर्तते, द्वितीये, अस्मिन्, केशग्रहे ( सति ), प्रजाः, नूनम्, निःशेषिताः ॥ १४ ॥ द्रोणस्य पराभवे सति किं स्यादित्याह—एकस्य तावदिति । एकस्य = द्रौपद्याः केशग्रहस्य, अयं = युद्धरूपः, दारुणः = उत्कटः, पाकः = फलम् तावत्, भुवि = को धिक्कार है । जिन्होंने चित्र बनकर उस समय पाञ्चाली के केशकर्षण को देखा और आज द्रोणाचार्य के भी केशकर्षण को देखा ॥ १३ ॥ तो फिर पुत्र अश्वत्थामा को कैसे देख सकूँगा अथवा हिमालय के सदृश सारगर्भित उसका अन्तःकरण है तथा संसार की परिस्थिति से वह भली भाँति परिचित है अतः उसमें मुझे सन्ताप के वेग की शङ्का नहीं होती परन्तु अन्यायपूर्वक पिता के मरण को सुनकर न मालूम क्या कर डाले ? अथवा— एक केशग्रह का यह भीषण फल इस वसुन्धरा पर दृष्टिगोचर हो रहा है, अब उस = द्वे०