वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 133, कुल 355 में से
संदर्भ में पढ़ें११२ वेणीसंहारं नाटकं जीवाम्यहं पुनरीह भवता विनाऽपि- क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥ १२ ॥ ( इति मोहमुपगतः ) सूतः—समाश्वसितु समाश्वसितु कुमारः । ( ततः प्रविशति कृपः ) कृपः—( सोद्वेगं निःश्वस्य ) धिक्सानुजं कुरुपतिं धिगजातशत्रुं धिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् । असवः = प्राणाः, विमुक्ताः = त्यक्ताः, अहो इति खेदे अहम् पुनः, भवता, विनापि= अन्तरेणाऽपि, जीवामि, तत्=तस्मात्, क्रूरेऽपि = निर्दयेऽपि, तव सत्यमृत्युश्रवणादप्यहं न मृत इति निर्दयोऽहमिति भावः । मयि = अश्वत्थाम्नि, तव, मुधा = व्यर्थम्, पक्षपातः । अहं क्रूरः त्वं सदय इति भावः । अत्र द्वितीयचरणे सहोक्तिरलङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ निःश्वस्येति—अधिकदुःखसूचको निःश्वासः । अन्वयः—सानुजम्, कुरुपतिम्, धिक् , अजातशत्रुम्, धिक् , विफलशस्त्रभृतः, भूपतीन्, धिक् , अस्मान्, धिक् , खलु, येः, तदा द्रुपदात्मजायाः, अद्य, द्रोणस्य, च, केशग्रहः, लिखितैः, इव वीक्षितः ॥ १३ ॥ तत्रत्याः सर्वे धिक्कारयोग्या इत्याह—धिगिति । सानुजम् = अवरजसहितम् , कुरुपति=दुर्योधनम् , धिक् = धिक्कारः, 'उभसर्व तसो कार्या धिगुपर्यादिषु त्रिष्वि'ति धिद्योगे द्वितीया । अजातशत्रु = युधिष्ठिरम्, धिक्, विफलशस्त्रभृतः = विफलञ्च तत् शस्त्रमिति विफलशस्त्रं तद् विगर्ति, विफल• अर्थात् वस्तुतः मेरा वध नहीं हुआ था उसे सुनकर आपने प्राण विसर्जित कर दिया और मैं सत्य ही आपका मरण सुन रहा हूँ और फिर भी जीवित हूँ मुझसे बढ़कर दूसरा कौन दुष्ट हृदय का व्यक्ति होगा ॥ १२ ॥ ( यह कहकर चेतनाहीन हो जाता है ) सूत—कुमार धैर्य धारण करें, धैर्य धारण करें । ( इसके अन्तर कृपाचार्य का प्रवेश कृप—( उद्विग्नतापूर्वक दीर्घश्वास लेकर ) समस्त भ्राताओं के साथ कौरवनरेश को धिक्कार है, जिसका आज तक कोई शत्रु नहीं उस युधिष्ठिर को धिक्कार है, निष्प्रयोजन शस्त्रधारण करनेवाले राजाओं को तथा हम लोगों