वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 152, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३१ उभौ—विजयतां कौरवेश्वरः । दुर्योधनः—( दृष्ट्वा । ) अये, कथं कृपोऽश्वत्थामा च ( शासनादवतोर्य कृपं प्रति । ) गुरो ? अभिवादये । ( अश्वत्थामानमुद्दिश्य । ) आचार्यपुत्र ? एह्यस्मदर्थहततात परिष्वज्य क्लान्तैरिमर्मम निरन्तरमङ्गमङ्गैः । स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते शोकेऽपि नो विकृतिमेति तनूरुहेषु ॥ २९ ॥ ( आलिङ्ग्य पार्श्वं उपवेशयति । ) ( अश्वत्थामा बाष्पमुत्सृजति । ) कर्णः— द्रोणायने ? अलमत्यर्थमात्मानं शोकानले प्रक्षेप्तुम् । अभिवादये=प्रणमामि । अन्वयः—(हे) अस्मदर्थहततात !, एहि, क्लान्तैः, इमैः, अङ्गैः, मम, निरन्त- रम्, अङ्गम्, परिष्वजस्व, ते, पितुः, सदृशः, तव, एषः, भुजयोः, स्पर्शः, नः, शोकेऽपि, तनूरुहेषु, विकृतिम्, एति ॥ २९ ॥ अस्मदर्थहततात=अस्मदर्थं हतः तातः यस्य, तत्सम्बोधने, एहि = आगच्छ, क्लान्तैः = खिन्नैः, अङ्गैः= अवयवैः, मम, निरन्तरम्, अङ्गं पारिष्वजस्व = वालिङ्गय, ते=तव, पितुः= द्रोणस्य, सदृशः, तव एषः = त्वया कृतः, भुजयोः = बाह्वोः, स्पर्शः, नः=अस्माकम्, शोकेऽपि, तनूरुहेषु = लोमसु, विकृति = उद्गमम्, एति = प्राप्नोति । तव स्पर्शादतीवानन्दो जात इति भावः । अत्र तृतीयचरणे उपमा । वसन्ततिलका छन्दः ॥ २६ ॥ द्रोणायने=अश्वत्थामन्, शोकानले = शोकाग्नौ, आत्मानं=स्वम्, अत्यर्थं = दोनों—[ अश्वत्थामा और कृप ] विनय ! विजय ! कौरवाधिनाथ की । दुर्योधन—( देख कर ) अरे यह कृप और अश्वत्थामा ? (आसन से उतर कर कृपाचार्य के प्रति ) आचार्य ! प्रणाम करता हूँ । (अश्वत्थामा के प्रति ) आचार्यात्मज ! मेरे निमित्त आपके पिता का संहार हुआ है, आइए शोक से खिन्न अङ्गों ने मेरे अङ्गों का [ वक्षःस्थल का ] आलिङ्गन कीजिए ! आपकी इन भुजाओं का संश्लेष (स्पर्श) आपके पिता के अनुरूप ही है। इस शोकावस्था में भी रोमाञ्च होने में रञ्चमात्र भी विकृति नहीं आती ॥ २९ ॥ ( आलिङ्गन कर समीप में बैठाता है ) ( अश्वत्थामा रोता है ) कर्ण—द्रोणात्मज ! शोकाग्नि में अपने को अत्यन्त सन्तप्त करने से क्या लाभ ?