वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 159, कुल 355 में से
संदर्भ में पढ़ें१३८ वेणीसंहारं नाटकं कर्णः—मूढ, दुःखितस्याश्रुपातः कुपितस्य चायुध द्वितीयस्य सङ्ग्रामा- वतरणमुचितं नैवंविधाः प्रलापाः । अश्वत्थामा—( सक्रोधम् ) अरे रे राधागर्भभारभूत, सूतापसद, ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण । पश्य- (१) निर्वीर्यं गुरुशापभाषितवशात्किं मे तर्वायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । आयुधद्वितीयस्य=आयुधं द्वितीयं यस्य तस्य, सङ्ग्रामावतरणम्=समरागमनम् । प्रलापाः=अनर्थकवचांसि 'प्रलापोऽनर्थकं वच', इत्यमरः । राधेति=राधाया गर्भस्य उदरस्य भारभूत; सूतपामर । अन्वयः—तव, इव, मे वायुधम्, गुरुशापभाषितवशात्, किम्, निर्वीर्यम् त्वम्, यथा, ( तथा ) सम्प्रत्येव, भयात्, समरम् विहाय, प्राप्तः, अस्मि, किम् स्तुति- वंशकीर्तनविदाम्, सारथीनाम्, कुले, अहम्, किम् जातः, यत्, क्षुदारातिकृताप्रियम्, शस्त्रेण, प्रतिकरोमि, अस्त्रेण, न ( प्रतिकरोमि ) ॥ ३५ ॥ तव इव, मे=मम आयुधम्, गुरुशापभाषितवशात् = परशुरामशापोक्तिहेतोः किं निर्वीर्यम् = वीर्यशून्यम्, अयं भावः - कर्ण. स्वजाति सूतत्वं सगोप्य ब्राह्मणत्वं विख्याप्य परशुरामाच्छस्त्रविद्यां प्राप्तः पश्चाच्च ज्ञातः क्षत्रोऽयमिति ततश्च परशुरामः कर्णाय शापं ददौ तवायुधं वीर्यवन्न स्यादिति । त्वं यथा, तथेति शेषः । सम्प्रत्येव= अधुनैव, भयाद् = भीतेः, समरं = सङ्ग्रामं, विहाय = त्यक्त्वा, प्राप्तः आगतः अस्मि कर्ण—मूर्ख! व्यथितों को आँसू निकलने हैं। क्रुद्ध व्यक्तियों के लिये हाथ में शस्त्र लेकर युद्धक्षेत्र में उतर जाना उचित होता है इस प्रकार व्यर्थ बड़बड़ाना उचित नहीं । अश्वत्थामा—( क्रोधपूर्वक ) अरे ! अरे !! राधागर्भ के भार !!! सूताधम !!!! क्यों इस प्रकार की निन्दा कर रहा है। मुझ व्यथित अश्वत्थामा के लिये अश्रुपात करके बदला लेने का उपदेश दे रहा है शस्त्र के द्वारा नहीं । देखो— क्या तुम्हारी तरह मेरे भी शस्त्र गुरुशाप के कारण शक्तिहीन हो गये हैं ? क्या तुम्हारी तरह में संग्राम से पराङ्मुख होकर इस समय यहाँ उपस्थित हुआ हूँ ! और क्या (१) 'निर्वीर्य गुरुशाप भाषितवशादि'त्युत्तरं 'निर्वीर्यं वा सवीर्यं वे'ति श्लोकस्य पाठः । एतदुत्तरञ्च 'सूतो वा सूतपुत्रो वेत्यस्य पाठः समीचीनः । निर्वीर्यमिति श्लोकेन आयुधस्य सारथिकुले जन्मनश्च निन्दितत्वात्, तदुत्तरमेव 'सूतो वे'ति पाठस्य समुचितत्वात् पूर्वमेतस्यांशे तु भ्रमसङ्किकः स्यात् । दत्र च विपरीतः पाठः, तत्र प्रमादात् ।