वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 158, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३७ मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाऽद्य दोःशालिना- मपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ ३४ ॥ कर्णः—(विहस्य) द्रोणायने, वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबलस्य कर्मणः शक्ताः । अश्वत्थामा—अङ्गराज, एवमिदम्, बहवः कौरवबलेऽत्र शक्ताः किंतु दुःखोपहतः शोकावेगवशाद् ब्रवीमि न पुनर्वीरजनाधिक्षेपेण । रात्रिम्, कालाध्वनोः, इति द्वितीया, समग्रनिशां व्याप्येतिभावः शेषे = स्वप्स्यसि, वर्तमानसामीप्ये लट् । स्तुतिभिः=मागधादिकृतस्तवैः, प्रयत्नपरिवोधितः = प्रयत्नेन जागरितः भविष्यसीति शेषः । मयाऽद्य निखिलरिपूणां विनाशे कृते चिन्ताऽभावात्त्वं गाढं स्वप्स्यसि तथा च गाढनिद्राभङ्गः प्रयत्नेन स्यादिति गूढाभिप्रायः । तदेवाह— अकेशवमिति । अद्य, भुवनं = जगत्, अकेशवम् = कृष्णरहितम्, मया हननादिति भावः । अपाण्डवम् = पाण्डुपुत्रशून्यम्, निःसोमकम् = सोमवंशरहितम् भविष्यतीति शेषः । अद्य, दोःशालिनाम् = बलवद्भुजवताम्, इयम्, रणकथा = सङ्ग्रामचर्चा, परिसमाप्यते = अवसीयते, मया सर्वेषां वीराणां हननादिति भावः, । अद्य भुवः = संसारस्य, नृपकाननातिगुरुः=नृपा एव काननं वनं तदेवातिगुरुः श्रेष्ठः भारः, अपैतु = दूरं भवतु । अत्र चतुर्थचरणे रूपकमलङ्कारः । पृथिवी छन्दः । लक्षणमुक्तं चतुर्थश्लोके ॥ ३४ ॥ अध्यवसितुम् = कर्तुम् । वीरजनाधिक्षेपेण = वीरजननिन्दया । आप निशाकाल में शयन करेंगे । आज मैं वसुन्धरा को वासुदेव भगवान् और पाण्डवों से शून्य बना दूँगा तथा पाञ्चालादि क्षत्रियों को निर्वंश कर डालूँगा । प्रचण्ड-दोर्दण्ड-सम्पन्न (विशाल भुजावाले) राजाओं की सांग्रामिकी वार्ता भी आज ही अवशिष्ट हो जायगी और भूमिपालरूपी जङ्गलों के बोझ से दबी हुई पृथ्वी का भार आज ही चला जायगा अर्थात् पृथ्वी का भार आज ही न्यून कर डालूँगा ॥ ३४ ॥ कर्ण—(हँस कर) द्रोणायने ! कहना तो आसान है परन्तु करना कठिन है । कौरवीय सेना में भी इस कार्य के सम्पादन करने में समर्थ बहुत वीर हैं । अश्वत्थामा—अङ्गाधिप बहुत ठीक । कौरव सेना में इस कार्य के करने में बहुत से लोग समर्थ हैं तथापि दुःख से विद्ध होकर शोकावेश के कारण कह रहा हूँ । वीरों की निन्दा नहीं कर रहा हूँ ।