भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३७ मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाऽद्य दोःशालिना- मपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ ३४ ॥ कर्णः—(विहस्य) द्रोणायने, वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबलस्य कर्मणः शक्ताः । अश्वत्थामा—अङ्गराज, एवमिदम्, बहवः कौरवबलेऽत्र शक्ताः किंतु दुःखोपहतः शोकावेगवशाद् ब्रवीमि न पुनर्वीरजनाधिक्षेपेण । रात्रिम्, कालाध्वनोः, इति द्वितीया, समग्रनिशां व्याप्येतिभावः शेषे = स्वप्स्यसि, वर्तमानसामीप्ये लट् । स्तुतिभिः=मागधादिकृतस्तवैः, प्रयत्नपरिवोधितः = प्रयत्नेन जागरितः भविष्यसीति शेषः । मयाऽद्य निखिलरिपूणां विनाशे कृते चिन्ताऽभावात्त्वं गाढं स्वप्स्यसि तथा च गाढनिद्राभङ्गः प्रयत्नेन स्यादिति गूढाभिप्रायः । तदेवाह— अकेशवमिति । अद्य, भुवनं = जगत्, अकेशवम् = कृष्णरहितम्, मया हननादिति भावः । अपाण्डवम् = पाण्डुपुत्रशून्यम्, निःसोमकम् = सोमवंशरहितम् भविष्यतीति शेषः । अद्य, दोःशालिनाम् = बलवद्भुजवताम्, इयम्, रणकथा = सङ्ग्रामचर्चा, परिसमाप्यते = अवसीयते, मया सर्वेषां वीराणां हननादिति भावः, । अद्य भुवः = संसारस्य, नृपकाननातिगुरुः=नृपा एव काननं वनं तदेवातिगुरुः श्रेष्ठः भारः, अपैतु = दूरं भवतु । अत्र चतुर्थचरणे रूपकमलङ्कारः । पृथिवी छन्दः । लक्षणमुक्तं चतुर्थश्लोके ॥ ३४ ॥ अध्यवसितुम् = कर्तुम् । वीरजनाधिक्षेपेण = वीरजननिन्दया । आप निशाकाल में शयन करेंगे । आज मैं वसुन्धरा को वासुदेव भगवान् और पाण्डवों से शून्य बना दूँगा तथा पाञ्चालादि क्षत्रियों को निर्वंश कर डालूँगा । प्रचण्ड-दोर्दण्ड-सम्पन्न (विशाल भुजावाले) राजाओं की सांग्रामिकी वार्ता भी आज ही अवशिष्ट हो जायगी और भूमिपालरूपी जङ्गलों के बोझ से दबी हुई पृथ्वी का भार आज ही चला जायगा अर्थात् पृथ्वी का भार आज ही न्यून कर डालूँगा ॥ ३४ ॥ कर्ण—(हँस कर) द्रोणायने ! कहना तो आसान है परन्तु करना कठिन है । कौरवीय सेना में भी इस कार्य के सम्पादन करने में समर्थ बहुत वीर हैं । अश्वत्थामा—अङ्गाधिप बहुत ठीक । कौरव सेना में इस कार्य के करने में बहुत से लोग समर्थ हैं तथापि दुःख से विद्ध होकर शोकावेश के कारण कह रहा हूँ । वीरों की निन्दा नहीं कर रहा हूँ ।

१३८ वेणीसंहारं नाटकं कर्णः—मूढ, दुःखितस्याश्रुपातः कुपितस्य चायुध द्वितीयस्य सङ्ग्रामा- वतरणमुचितं नैवंविधाः प्रलापाः । अश्वत्थामा—( सक्रोधम् ) अरे रे राधागर्भभारभूत, सूतापसद, ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण । पश्य- (१) निर्वीर्यं गुरुशापभाषितवशात्किं मे तर्वायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । आयुधद्वितीयस्य=आयुधं द्वितीयं यस्य तस्य, सङ्ग्रामावतरणम्=समरागमनम् । प्रलापाः=अनर्थकवचांसि 'प्रलापोऽनर्थकं वच', इत्यमरः । राधेति=राधाया गर्भस्य उदरस्य भारभूत; सूतपामर । अन्वयः—तव, इव, मे वायुधम्, गुरुशापभाषितवशात्, किम्, निर्वीर्यम् त्वम्, यथा, ( तथा ) सम्प्रत्येव, भयात्, समरम् विहाय, प्राप्तः, अस्मि, किम् स्तुति- वंशकीर्तनविदाम्, सारथीनाम्, कुले, अहम्, किम् जातः, यत्, क्षुदारातिकृताप्रियम्, शस्त्रेण, प्रतिकरोमि, अस्त्रेण, न ( प्रतिकरोमि ) ॥ ३५ ॥ तव इव, मे=मम आयुधम्, गुरुशापभाषितवशात् = परशुरामशापोक्तिहेतोः किं निर्वीर्यम् = वीर्यशून्यम्, अयं भावः - कर्ण. स्वजाति सूतत्वं सगोप्य ब्राह्मणत्वं विख्याप्य परशुरामाच्छस्त्रविद्यां प्राप्तः पश्चाच्च ज्ञातः क्षत्रोऽयमिति ततश्च परशुरामः कर्णाय शापं ददौ तवायुधं वीर्यवन्न स्यादिति । त्वं यथा, तथेति शेषः । सम्प्रत्येव= अधुनैव, भयाद् = भीतेः, समरं = सङ्ग्रामं, विहाय = त्यक्त्वा, प्राप्तः आगतः अस्मि कर्ण—मूर्ख! व्यथितों को आँसू निकलने हैं। क्रुद्ध व्यक्तियों के लिये हाथ में शस्त्र लेकर युद्धक्षेत्र में उतर जाना उचित होता है इस प्रकार व्यर्थ बड़बड़ाना उचित नहीं । अश्वत्थामा—( क्रोधपूर्वक ) अरे ! अरे !! राधागर्भ के भार !!! सूताधम !!!! क्यों इस प्रकार की निन्दा कर रहा है। मुझ व्यथित अश्वत्थामा के लिये अश्रुपात करके बदला लेने का उपदेश दे रहा है शस्त्र के द्वारा नहीं । देखो— क्या तुम्हारी तरह मेरे भी शस्त्र गुरुशाप के कारण शक्तिहीन हो गये हैं ? क्या तुम्हारी तरह में संग्राम से पराङ्मुख होकर इस समय यहाँ उपस्थित हुआ हूँ ! और क्या (१) 'निर्वीर्य गुरुशाप भाषितवशादि'त्युत्तरं 'निर्वीर्यं वा सवीर्यं वे'ति श्लोकस्य पाठः । एतदुत्तरञ्च 'सूतो वा सूतपुत्रो वेत्यस्य पाठः समीचीनः । निर्वीर्यमिति श्लोकेन आयुधस्य सारथिकुले जन्मनश्च निन्दितत्वात्, तदुत्तरमेव 'सूतो वे'ति पाठस्य समुचितत्वात् पूर्वमेतस्यांशे तु भ्रमसङ्किकः स्यात् । दत्र च विपरीतः पाठः, तत्र प्रमादात् ।

तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३९ जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ ३५ ॥ कर्णः- ( सक्रोधम् । ) अरे रे वाचाट, वृथाशस्त्रग्रहणदुविंदग्ध बटो, निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् । यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३६ ॥ अपि च । सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । किम्, नाहमागत इत्यर्थः । स्तुतिवंशकीर्तनविदाम् = स्तुतिः वंशकीर्तनरूपा तत् विदन्ति तेषाम्, सारथीनां = सूतानां, कुले, किम् अह, - जातः = उत्पन्नः, नेति भावः । यत् क्षुद्रारातिकृताप्रियम् = क्षुद्रशत्रुकृतापकारम्, अस्रेण = अश्रुणा, प्रतिकरोमि = प्रतिक्रिया सम्पादयामि, अस्त्रेण = आयुधेन, न । आयुधेनैव प्रतिक्रिया करोमीति भावः । शार्दूलविक्रीडितं छन्दः ॥ ३५ ॥ वाचाटः = वाचाल, बहुभाषिन्नित्यर्थः । अन्वयः - निर्वीर्यम् वा, सवीर्यं वा आयुधम्, मया न उत्सृष्टम् । यथा बाहु- शालिना, पाञ्चालभीतेन, ते, पित्रा उत्सृष्टम् ॥ ३६ ॥ नाहं त्वत्पितृवद्भीतेरित्याह - निर्वीर्यमिति । निर्वीर्यं = पराक्रमरहितम्, वा सवीर्यं = सपराक्रमम्, वा, आयुधम् = शस्त्रं, मया = कर्णेन, न, उत्सृष्टम् = त्यक्तम्, मया ते = तव, बाहुशालिना = पराक्रमिणा, बाहुशालिनेति काक्वोच्यते अपराक्रमि- णित्यर्थः । अथवा सत्यपि भुजद्वये कथं पाञ्चालाद्भीत इति व्यज्यत । पाञ्चालभीतेन = धृष्टद्युम्नत्रस्तेन, आयुधम् त्यक्तमिति शेषः । अत्रोपमालङ्कारः । पथ्यावक्त्रं छन्दः ॥ अन्वयः - सूतः, वा, सूतपुत्रः, वा, यः वा, कः ( अपि ) वा अहम्, भवामि,. कुले जन्म दैवायत्तम्, तु पौरुषम् मदायत्तम् ॥ ३७ ॥ यदुक्तं त्वं सारथि कुले जातस्तत्राह - सूतो वेति । तुम्हारी भाँति लोगों के कुल की प्रशंसा करने में लीन रथकारों के वंश में मेरा भी जन्म हुआ है ? अर्थात् रात दिन बाबूजी कहकर जीविका प्राप्त करने वाले रथवानों के कुल में जन्म हुआ है जिससे कि मैं क्षुद्र शत्रुओं के द्वारा किये गये अपकार का बदला आँसू से लूँ और शस्त्र से नहीं ? ॥ ३५ ॥ कर्ण-( क्रुद्ध होकर ) अरे अरे वातूल व्यर्थ शस्त्रभारवाहक ! कुमार !! पराक्रमी हो चाहे कायर मैने तो शस्त्र का त्याग नहीं किया जिस प्रकार धृष्टद्युम्न से त्रस्त होकर भुजपराक्रमशाली तुम्हारे पिता ने किया ॥ ३६ ॥ और भी- सूत हों चाहे सूत के पुत्र हों अथवा कोई हों। सत्कुल में जन्म देना विधाता के

२४० वेणीसंहारं नाटकं दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३७ ॥ अश्वत्थामा — (सक्रोधम् ।) अरे अरे रथकारकुलकलङ्क, अरे राधागर्भ- भारभूत, आयुधानभिज्ञ, तातमप्यधिक्षिपास । अथवा । स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा । परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ ३८ ॥ सूतः = सारथिः वा, सूतपुत्रः = सारथिपुत्रः, वा, यः, वा, अथवा, कः अहम्, भवामि, कोप्यहमस्मि नात्र कापि विचारणा । कुले=उत्तमकुले नीच कुले वा, जन्म, दैवायत्तम् = कर्माधीनम्, तु = किन्तु पौरुषम् = पराक्रमः, मदायत्तम् = स्वाधीनम् । जात्यायुर्भोगाः-कर्मफलानि, पराक्रमः स्वायत्तो भवतीति भावः । पथ्यावक्त्रं छन्दः ॥ अन्वयः त्रिभुवने, प्रथितभुजसारः, सः, शूरः, भीरुः, वा प्रतिदिनम्, तेन, आजौ, यत्, कृतम् (तत्) इयम्, वसुधा वेत्ति, शस्त्रम्, कथम्, परित्यक्तम्, इति, सत्यव्रतधरः, सः, पृथासूनुः, साक्षी, हे रणभीरो, त्वम्, तदा क्व, नु असि ॥ पाञ्चालभीतो द्रोणोऽस्त्रत्यक्तवानिति यदुक्तं कर्णेन तत्राह—स भीरुरिति । त्रिभुवने = लोकत्रये, प्रथितभुजसारः—प्रथितः विख्यातः, भुजसारः बाहुबलं यस्य सः ‘सारो बले दृढांशे चेत्यमरः । सः शूरः = वीरः, वा भीरुः = भययुक्तः, वस्तु प्रतिदिनम्, तेन = द्रोणेन, आजौ = सङ्ग्रामे यत्, कृतं, तदित्यध्याहारः । इयं वसुधा = पृथ्वी, वेत्ति = जानाति, क्षत्रियाणां विनाशन पृथिव्या अल्पभारतवसम्पाद- नायेति भावः । शस्त्रं, कथं = कस्माद्धेतोः, परित्यक्तमिति, सत्यव्रतधरः = धरतीति धरः पचाद्यच्, सत्यव्रतस्य धरः सत्यव्रतधरः, सत्यवतैत्यर्थः । सः, पृथासूनुः = युधिष्ठिरः, साक्षी = प्रत्यक्षद्रष्टा, तदा = यस्मिन् समये शस्त्रं त्यक्तवान् तस्मिन् हाथों में है और पुरुषार्थ करना मेरे हाथों में है ॥ ३७ ॥ अश्वत्थामा—(क्रोध से) अरे! अरे !! रथकारकुलाङ्गार !!! अरे राधागर्भसम्भूत, शस्त्रानाभिज्ञ, ! पिता की भी निन्दा कर रहा है ? अथवा— चाहे वह [मेरे पिता द्रोण] कायर हों अथवा वीर परन्तु उनकी भुजा का बल समस्त संसार को विदित है । समरभूमि में उन्होंने प्रतिदिन जो कुछ किया है यह वसुन्धरा जानती है, उन्होंने शस्त्र का परित्याग क्यों किया ? इस बात में सत्यव्रत परायण युधिष्ठिर साक्षी हैं । ऐ समरभूमि के कायर ! उस समय तुम थे कहाँ ? ॥ ३८ ॥

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४१ कर्णः—( विहस्य । ) एवं भीरुरहम् । त्वं पुनर्विक्रमैकरसं तव पितर- मनुस्मृत्य न जाने किं करिष्यसीति महान्मे संशयो, जातः । अपि च रे मूढ ? यदि शस्त्रमुज्झितमशस्त्रपाणयो न निवारयन्ति किमरीनुदायुधान् । यदनेन मौलिदलनेऽप्युदासितं सुचिरं स्त्रियेव नृपचक्रसन्निधौ ॥ ३९ ॥ अश्वत्थामा—( सक्रोधं सकम्पं च । ) दुरात्मन्, राजवल्लभप्रगल्भ, सूतापसद, असम्बद्धप्रलापिन् । समये, हे रणभीरो, त्वम् क्व असि = आसीः नु, नुशब्द प्रश्ने, यदा त्वं तत्रैवासी- स्तथा कथमेवं ब्रवीषीति भावः । शिखरिणी छन्दः । ३८ ॥ विक्रमैकरसः = पराक्रमप्रधानः । किमिति-किं क्षत्रियविनाशं करिष्यसि, अथवा पित्रे वोदासीनो भविष्यसीति । अन्वयः—यदि, शस्त्रम्, उज्झितम्, ( ततः किम् ), अशस्त्रपाणयः, उदायु- धान्, अरीन्, किम्, न, निवारयन्ति, नृपचक्रसन्निधौ, स्त्रिया, इव, अनेन, यत्, मौलिदलने, अपि, सुचिरम्, उदासितम् ॥ ३९ ॥ वीरो निःशस्त्रोऽपि स्वरक्षां कर्तुं समर्थ इत्याह—यदीति । यदि, शस्त्रम् उज्झितं = त्यक्तम्, ततः किमिति शेषः । अशस्त्रपाणयः—अशस्त्रहस्ताः, उदायुधान्= उद्यतशस्त्रान् , अरीन् = शत्रून्, किं न, निवारयन्ति, निवारयन्त्येवेत्याशयः । नृप- चक्रसन्निधौ = राजसमूहसमीपे, अनेनं = त्वत्पित्रा, मौलिदलने = मस्तकखण्डने अपिं उदासितम् = उपेक्षितम् । अत्र शाब्दोपमाऽलङ्कारः । मञ्जुभाषिणी छन्दः—सजसा जगौ च यदि मञ्जुभाषिणीति लक्षणात् ॥ ३९ ॥ राजवल्लभ = नृपप्रिय, निन्दावाचकशब्दोऽयम् । सूतापसद = सूतपामर । कर्ण—( हँसकर ) ठीक मै कायर हूँ तू पराक्रमी है। किन्तु तेरे पिता की बात स्मरण करके मुझे बड़ा सन्देह हो रहा है पता नहीं तुम क्या करोगे ? । और भी सुन ऐ मूर्ख— यदि उन्होंने शस्त्र का त्याग किया तो क्या बिना शस्त्र के लिये हुए सशस्त्र शत्रु का प्रतिकार नहीं किया जा सकता ? वे तो केश खींचने पर इस राजन्यमण्डल के बीच अबलाओं की भाँति अधिक काल तक मौन हो गये ॥ ३९ ॥ अश्वत्थामा—( क्रोध से काँपता हुआ ) अरे दुष्ट, राजा का प्रियपात्र, चापलूस, सूताधम, बकवादी !

१४२ वेणीसंहारं नाटकं कथमाप न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाऽद्य । तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥ ४० ॥ ( इति तथा कर्तुमुत्तिष्ठति । ) कृप-दुर्योधनौ - वत्स, मर्षय मर्षय । ( इति निवारयतः ! ) ( अश्वत्थामा चरणप्रहारं नाटयति । ) कर्णः—( सक्रोधमुत्थाय, खड्गमाकृष्य ।) अरे दुरात्मन्, ब्रह्मबन्धो, आत्मश्लाघ, अन्वयः—दुःखिना, भीरुणा, वा तेन, मम, पित्रा, द्रुपदतनयपाणिः, कथमपि, न, निषिद्धः, अद्य, भुजबलदर्पाध्मायमानस्य, तव, शिरसि, एषः, वामः, चरणः, न्यस्यते, एनम्, वारय, (त्वम् ) ॥ ४० ॥ क्रुद्धोऽश्वत्थामा कर्णशिरसि चरणं न्यसितुमुत्थापयतीत्याह—कथमपि नेति । दुःखिना = शोकवता, भीरुणा = भययुक्तेन, तेन, मम, पित्रा, द्रुपदतनयपाणिः = धृष्टद्युम्नहस्तः, कथमपि, न, निषिद्धः = निवारितः, भुजबलदर्पाध्मायमानस्य = भुजबलदर्पेण आध्मायमानस्य विकत्थमानस्य, तव = कर्णस्य, शिरसि = उत्तमाङ्गे, चरणः = पादः न्यस्यते = स्थाप्यते, एनम् = चरणम्, वारय त्वमिति शेषः । मालिनी छन्दः । ननमययुतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ ४० ॥ मर्षय—क्षमस्व, मा विद्वेषं कुर्वित्यर्थः । क्रुद्ध कर्णोऽप्याह—अरे दुरात्मन्निति । ब्रह्मबन्धो इति अप्राप्तनामा बह्मबन्धु- मेरे पिता ने पुत्रशोक अथवा भय के कारण किसी भी प्रकार से धृष्टद्युम्न के हाथ को नहीं रोका परन्तु भुजाओं के अभिमान से फूले न समाये हुए तुम्हारे शिर पर आज मेरा यह बायाँ पैर रक्खा जा रहा है अब इसका प्रतिकार कर ॥ ४० ॥ ( पादप्रहार करने के लिए तैयार हो जाता है ) कृप और दुर्योधन—पुत्र ! क्षमा करो ! ( रोकते हैं ) । ( अश्वत्थामा पादप्रहार का अभिनय करता है ) कर्ण—( क्रोध से उठकर और तलवार खींच कर ) अरे दुष्टात्मन् ! बकवादी, ब्राह्मणा- धम, अपने मुँह मियाँमिट्ठू बननेवाला ।

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४३ जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् । अनेन लूनं खड्गेन पतितं द्रक्ष्यसि क्षितौ ॥ ४१ ॥ अश्वत्थामा—अरे मूढ, जात्या काममवध्योऽहम् । इयं सा जातिः परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् । ) अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ४२ ॥ रित्युच्यते । 'ब्रह्मबन्धुरधिक्षेपे निर्दोषे च द्विजन्मना' मिति विश्वः । आत्मश्लाघ = आत्मप्रशंस । अन्वयः—जात्या, कामम् (त्वम्) अवध्यः, असि, तु, उद्धृतम् इदम् चरणम्, अनेन, खड्गेन, लूनम्, ( अत एव ) क्षितौ, पतितम्, द्रक्ष्यसि, ( त्वम् ) ॥ ४१ ॥ जात्या=ब्राह्मणत्वेन, अवध्यः = अहन्तव्यः, 'ब्राह्मणो, न हन्तव्य' इति स्मृतेः । असि अतः उद्धृतम् = सप्रथावत्कृतम् उत्थापितमित्यर्थः । तु = किन्तु, अनेन = मदीयेन खड्गेन = असिना, लूनं = छिन्नम्, क्षितौ = भूमौ, द्रक्ष्यसि, साम्प्रतमिति शेषः । यच्चरणस्त्वया मम मस्तकस्योपरि प्रदानायोत्थापितः तं खण्डयामीत्यर्थः । अत्र पदार्थ- गतकाव्यलिङ्गमलङ्कारः । पथ्यावक्त्रं छन्दः ॥ ४१ ॥ जातिः = ब्राह्मणत्वं, परित्यक्ता-यज्ञोपवीतच्छेदनेनेति भावः । अन्वयः—अद्य, मया, असौ, किरीटी, मिथ्याप्रतिज्ञः, क्रियते, शस्त्रम्, गृहाण, वा, त्यक्त्वा, मौलौ, अञ्जलिम्, रचय, वा ॥ ४२ ॥ अद्य मया = अश्वत्थाम्ना, किरीटी = अर्जुनः, मिथ्याप्रतिज्ञः = मिथ्या प्रतिज्ञा यस्य सः, क्रियते, । अयमाशयः अर्जुनस्य प्रतिज्ञाऽस्ति यदहं कर्ण हनिष्यामि परन्तु मयैव कर्णो हन्यते तथा चार्जुनैन कर्णस्याहननात्किरीटी मिथ्याप्रतिज्ञः स्यादिति । शस्त्रम् = आयुधम्, गृहाण = धारय, वा त्यक्त्वा = विहाय, शस्त्रमित्यस्यात्राप्यन्वयः । मौलौ = मस्तके, अञ्जलिम् रचय, वा, किमपि कुरु त्वां हनिष्याम्येवेति भावः । पथ्यावक्त्रं छन्दः ॥ ४२ ॥ ब्राह्मण होने के कारण निस्सन्देह अवध्य हो परन्तु इस उठे हुए चरण को इस तलवार के द्वारा कटकर भूमि पर पड़ा हुआ देखो ॥ ४१ ॥ अश्वत्थामा—रे मूर्ख ! यदि मैं ब्राह्मण होने के कारण अवध्य हूँ तो इस जाति को मैंने छोड़ दिया ( यज्ञोपवीत तोड़ता है फिर क्रोधपूर्वक ) । आज मैं अर्जुन को प्रतिज्ञाभ्रष्ट करता हूँ । हाथ में शस्त्र को लो अथवा शस्त्र छोड़ कर अञ्जलिबाँध शिर से लगाओ ॥ ४२ ॥

१४४ वेणीसंहारं नाटकं ( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ। कृप-दुर्योधनौ निवारयतः ) दुर्योधनः—आचार्यपुत्र, शस्त्रग्रहणेनालम् । कृपः—वत्स, सूतपुत्र, शस्त्रग्रहणेनालम् । अश्वत्थामा—मातुल, मातुल, किं निवारयसि । अयमपि तातनिन्दा- प्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव । कर्णः—राजन्, न खल्वहं निवारयितव्यः । उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया । अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥ अश्वत्थामा—राजन्, मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पे- तातनिन्दाप्रगल्भः = पितृनिन्दायां धृष्टः, धृष्टद्युम्नपक्षपातीति = धृष्टद्युम्नतुल्यः अतोऽयं हन्तव्य इति भावः । न मां निवारयेत्यर्थः । अन्वयः—धीरसत्त्वैः अवज्ञया, उपेक्षितानाम्, क्रोधान्धैः अत्रासितानाम्, मन्दा- नाम्, एषा, विकत्थना, भवति ॥ ४३ ॥ धीरसत्त्वैः = गम्भीरभावैः, वीरैः, अवज्ञया = अनादरेण उपेक्षितानाम् = औदा- सीन्यं प्रापितानाम्, क्रोधान्धैः = कुपितैः, अत्रासितानाम् = भयमप्रापितानाम्, मन्दानां = हीनशक्तीनाम्, एषा = वीरोऽहमित्याकारिका, विकत्थना = आत्मप्रशंसा, भवति, अतो दण्डनीयोऽयमिति भावः । अनुष्टुप्छन्दः ॥ ४३ ॥ मद्भुजान्तरनिष्पेषसुलभ = मदीयो यो भुजौ तयोर्मध्ये यन्निष्पेषणं मर्दनं तेन सुलभम्, असूनां = प्राणानाम्, अवसादनं = विनाशम्, आसादयतु = प्राप्नोतु, ( दोनों तलवार खींच कर एक दूसरे पर आघात करने की चेष्टा करते हैं। कृप और दुर्योधन निषेध करते हैं ) । दुर्योधन—मित्र, आचार्यपुत्र ! शस्त्र न उठाइये । कृप—वत्स, सूतपुत्र ! शस्त्र उठाने की कोई आवश्यकता नहीं । अश्वत्थामा—मामा ! मामा ! क्यों मना करते हैं ? यह पिताजी की निन्दा में रत सूतनीच धृष्टद्युम्न का पक्षपाती है । कर्ण—महाराज ! मुझे वारण न कीजिए । धीर वीर पुरुष क्रोधोन्मत्त होकर भी दण्डित किए बिना तिरस्कार की बुद्धि से जब दुष्टों की उपेक्षा कर देते हैं तो वे इस प्रकार आत्मप्रशंसा करते ही हैं ॥ ४३ ॥ अश्वत्थामा—राजन् ! इसे छोड़िए, छोड़िए। मेरी भुजाओं के बीच पिसकर चूर्ण

पसुलभमसूनामवसादनम् । अन्यच्च राजन्, स्नेहेन वा कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव ते । पश्य— पापप्रियस्तव कथं गुणिनः सखायं सूतान्वयः शशधरान्वयसम्भवस्य । हन्ता किरीटिनमहं नृप मुञ्च कुर्या क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ४४ ॥ ( इति प्रहर्तुमिच्छति । )

अयमिति शेषः । स्नेहेन = सौहार्देन, कार्येण = अर्जुनवधरूपेण, ताताधिक्षेपकारिण= पितृनिन्दकम्, एनं = कर्णम्, मत्तः = मत्, तसिल्प्रत्ययान्तोऽयम् । परिरक्षितुमिच्छसी- त्यन्वयः । उभयं=स्नेहः कार्यञ्च । अन्वयः—( हे ) नृप, गुणिनः शशधरान्वयसम्भवस्य, तव, पापप्रियः, सूतां- न्वयः अयम्, कथं, सखा, अहम्, किरीटिनम् , हन्ता, ( माम् ) मुञ्च, अद्य, क्रोधात्, लोकम्, अकर्णम्, अपृथात्मजम्, कुर्याम् ॥ ४४ ॥ कथं वृथेत्याह-पापप्रियस्तवेति । गुणिनः—ऐश्वर्यादिमतः, शशधरान्वयसम्भ- वस्य = चन्द्रवंशसमुत्पन्नस्य, तव = दुर्योधनस्य, पापप्रियः = पापी, अयं = कर्णः, कथम्, सखा = मित्रम् गुणिनोः गुणिना सह मैत्री कार्या, नतु पापवतेति । एव- मुत्तमकुलज तस्योत्तमकुलजातेन न तु नीचकुलजातेनेति भावः । यदुक्तं स्नेहः वृथेति तत्समर्थितम् अधुना कार्यवैयर्थ्यं समर्थयति—हे नृप इति । अहम् = अश्व- त्थामा, किरीटिनम् = अर्जुनम्, हन्ता = विनाशयिता, अस्मीति शेषः माम्, मुञ्च = त्यज, क्रोधात् = कोपात्, अकर्णम् = कर्णशून्यम्, हतनेनेति भावः । अपृथा- त्मजम् = पृथापुत्ररहितम्, अर्जुनरहितमित्यर्थः । कुर्या = सम्पादयेयम्, उभयमपि अद्य हनिष्यामि तथा चार्जुनवधरूपकार्यमस्माद् विनापि स्यादिति भावः । वसन्त- तिलका छन्दः ॥ ४४ ॥

होने से प्राणों के अप्रयास लभ्य कष्ट का अनुभव करने दीजिये । और भी महाराज ! प्रेम के वश होकर अथवा कार्य के कारण जो आप मुझ से इस दुष्ट की जो मेरे पिता की निन्दा कर रहा है, रक्षा करना चाहते है ये दोनों बातें आपकी व्यर्थ ही है । देखिए— यह दुष्ट, अधिरथ कुमार चन्द्रवंशमें उत्पन्न तथा, गुणशाली आपका अभीष्ट मित्र किस प्रकार होने योग्य है ? और हे राजन् ! मैं अर्जुन को मारूँगा इसे छोड़ दीजिए क्रोधावेश में आज मैं इस संसार को कर्ण और अर्जुन से विहीन बना दूँगा ॥ ४४ ॥ ( प्रहार करना चाहता है ।) १० वे०

१४६ वेणीसंहारं नाटकं कर्णः—( खड्गमुद्यम्य ।) अरे वाचाट, ब्राह्मणाधम, अयं न भवति। राजन्, मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( हन्तुमिच्छति । ) ( दुर्योधन-कृपौ निवारयतः । ) दुर्योधनः—कर्ण, गुरुपुत्र, कोऽयमद्य युवयोर्व्यामोहः । कृपः—वत्स, अन्यदेव प्रस्तुतमन्यत्रावेग इति कोयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः । अश्वत्थामा—मातुल, न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् । कृपः—वत्स, अकालः खलु स्वबलप्रधानविरोधस्य । अश्वत्थामा—मातुल, यद्येवम् । युवयोः = कर्णाश्वत्थाम्नोः, व्यामोहः = विवेकशून्यता विचित्ततेत्यर्थः । प्रस्तुतं = प्रस्तावविषयः करणीयमित्यर्थः । साम्प्रतं द्रुपदसुतो वध्य इति भावः । चेत् = यदि, स्वबलव्यसनं = स्वसेनयोः व्यसने क्रोधजन्यपरस्परविद्वेष., अस्य = धार्तराष्ट्रस्य, युष्मत्तः = भवद्गद्यः, वामः = अनिष्टः पन्थाः मार्गः, भवति, इति, अस्य राजकुलस्य विनाशकारणं भवानेव स्यादिति भावः । न लभ्यते—अस्य दर्प इत्यनेनान्वयः । स्वबलप्रधानविरोधस्य = स्वसेनाप्रमुखयोविद्वेषस्य, अकालः = असमयः । एवं—साम्प्रतं विरोधस्यायुक्तत्वे । कर्ण—( तलवार उठाकर ) अरे बकवादी, ब्राह्मणनीच ! अब यह नहीं रहेगा । राजन् छोड़ दीजिए, छोड़ दीजिए । मुझे न रोकिए । ( मारना चाहता है ) दुर्योधन—कर्ण और उपाध्यायपुत्र ! आज आपलोगों को यह क्या हो गया है ? कृप—वत्स ! क्या करना है, और क्या करने लग गए, यह कैसी मूर्खता है ? ऐसे समय में इस राजवंश पर, इनकी शक्ति पर यह वज्रप्रहार आप लोगों से हो रहा है, यह तो विपरीत मार्ग है । अश्वत्थामा—मामा ! क्रूरभाषी इस रथकार कुलङ्गार का अभिमान चूर करने को अवसर न प्राप्त होगा ? कृप—वत्स ! यह सेनानायकों के विरोध का समय नहीं । अश्वत्थामा—मामा ! यदि यह बात है तो फिर—

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १४७ अयं पापो यावन्न निधनमुपेयादरिशरैः परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे । बलानां नाथेऽस्मिन्परिकुपितभीमार्जुनभये समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ ४५ ॥ ( इति खड्गमुत्सृजति । ) कर्णः — ( विहस्य ) कुलक्रमागतमेवैतद्द्वाहशां यदस्त्रपरित्यागो नाम । अश्वत्थामा — ननु रे अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् । कर्णः — अरे मूढ, अन्वयः — यावत्, अरिशरैः, पापः, अयम्, निधनम् न, उपेयात् तावत् मया, रणमुखे, प्रियम्, अपि, अस्त्रम् परित्यक्तं, बलानाम्, नाथे, अस्मिन्, (सति) समरे, परिकुपितभीमार्जुनभये, समुत्पन्ने, (सति) राजा, प्रियसखबलम्, वेत्तु ॥ ४५ ॥ कर्णवधपर्यन्तमस्माभिः शस्त्रं परित्यक्तमित्याह-अयमिति । यावत् अरिशरैः = शत्रुबाणैः पापः=पापवान् अयं = कर्णः, निधनं = मरणम्, न उपेयात् = प्राप्नुयात् तावत्, मया = अश्वत्थाम्ना, रणमुखे = सङ्ग्राममध्ये, प्रियम् अपि अस्त्रम्=आयुधम्, परित्यक्तम्, बलानां = सेनानाम् नाथे = अधिपतौ, अस्मिन् = कर्णे सति, समरे=संग्रामे परिकुपितभीमार्जुनभये = परिकुपितौ यौ भीमार्जुनौ ताभ्यां भये, समुत्पन्ने=जाते सति, राजा, प्रियसखबलं = प्रियमित्रौजसम्, वेत्तु = जानातु । कीदृशो मम सखा बलवानिति जानात्विति भावः । शिखरिणीच्छन्दः ॥ ४५ ॥ कुलेति — यथा ते पित्रायुधं परित्यक्तं तथैव त्वमप्यकार्षीरिति । निष्फलत्वादिति — गुरुशापादिति भावः । यह नीच जब तक विपक्षियों के बाणों का लक्ष्य नहीं बन जाता, तब तक मैं अपने प्रिय अस्त्रों को युद्ध में परित्यक्त कर दे रहा हू, इसकी सेनाध्यक्षता में भीम और अर्जुन के क्रुद्ध होने के कारण भयावह परिस्थिति होने पर संग्राम क्षेत्र में राजा (दुर्योधन) अपने प्रियमित्र के पराक्रम को जान लें ॥ ४५ ॥ ( यह कह कर शस्त्र फेंक देता है ) कर्ण — ( हँसकर ) आप जैसे लोगों का शस्त्रत्याग तो वंशपरम्परा से चला आया है। अश्वत्थामा — तुम्हारे जैसे लोग शस्त्र का परित्याग नहीं किए हैं तो भी उन्हें बहुत दिनों से ही न्यस्तशस्त्र ही समझना चाहिए क्योंकि उसकी उपयोगिता ही नहीं है । कर्ण — रे शठ !

१४८ वेणीसंहारं नाटकं धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ४६ ॥ ( नेपथ्ये ) आः दुरात्मन्, द्रौपदीकेशाम्बराकर्षणमहापातकिन्, धार्तराष्ट्रापसद, चिरस्य खलु कालस्य मत्सम्मुखीनमागतोऽसि, क्षुद्रपशो ! क्वेदानीं गम्यते। अपि च । भो भो राधेयदुर्योधनसौवलप्रभृतयः पाण्डवविद्वेषिणश्चापबाणयो मानधनाः, शृण्वन्तु भवन्तः । कृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा अन्वयः—यावत्, अहम्, धृतायुधः, तावत्, अन्यैः आयुधैः किम्, मम अस्त्रेण, यत्, न वा, सिद्धम्, तत् केन, सेत्स्यति ॥ ४६ ॥ त्वयाऽस्त्रपरित्यागे कृतेऽपि न कापि दुर्योधनस्य क्षतिरित्याह—धृतायुधो याव- दिति । धृतायुधः = गृहीतशस्त्रः, अन्यैः = अन्यधृतैः 'विनापि प्रत्यय पूर्वपदयोर्वा लोपो वाच्य' इति कात्यायनवचनेन धृतशब्दस्य लोपः । आयुधैः किम्, न किमपि प्रयोजनमित्यर्थः । तत् = कार्यम्, केन = अस्त्रेण, सेत्स्यति—सिद्धिर्भविष्यति । सर्व- कार्यसिद्धिविधायकोऽहमिति भावः । अनुष्टुप्छन्दः ॥ ४६ ॥ नेपथ्ये भीमोक्तिः—आः दुरात्मन्निति । कालस्येति - अत्र सम्बन्धविवक्षया षष्ठी, चिरकालम् व्याप्येत्यर्थः, । मानधनाः—मानः अलङ्कार एव धनानि येषाम् । अन्वयः—येन, नृपशुना, शिरोरुहे, पाञ्चालराजात्मजा, कृष्टा, राज्ञाम् गुरूणाम् ( च ) पुरः अस्याः परिधानम्, अपि, येन, आहृतम्, यस्य, उरःस्थलशोणिता- स्रवम्, पातुम्, अहं प्रतिज्ञातवान्, सः, अयम्, मद्‍भुजपञ्जरे, निपतितः (हे) कौरवा- परक्ष्यताम् ( युष्माभिः ) ॥ ४७ ॥ दुराचारिणं दुःशासनं न कौरवाः साम्प्रतं रक्षितुं समर्था इत्याह-कृष्टेति । येन= दुःशासनेन नृपशुना = पशुरूपमनुष्येण, शिरोरुहे = केशावच्छेदने, अवच्छेदे सप्तमी । जब तक मेरे हाथों में शस्त्र है तब तक दूसरे के शस्त्रों की क्या आवश्यकता ? अथवा जो कार्य मेरे शस्त्रों से सम्पन्न न हो सकेगा वह और किसके द्वारा सम्पादन हो सकेगा ? ( नेपथ्य में ) अरे नीच, पाञ्चाली के वस्त्र और केश का आकृष्ट करनेवाला, अतएव महापापी कौरवा- धम ! बहुत समय के बाद मेरे समक्ष उपस्थित हुआ ? अरे क्षुद्रपशु अब कहाँ जा रहा है ! और भी— अये अये, कर्ण, दुर्योधन तथा शकुनि प्रभृति पाण्डवद्रोही, धनुर्धर और मानी वीरो सुनो-

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४९ येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः यस्योरःस्थलशोणितासवमहं पातु प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ ४७ ॥ ( सर्वे आकर्णयन्ति ।) अश्वत्थामा - (सोत्प्रासम् ।) अङ्गराज, सेनापते, जामदग्न्यशिष्य, द्रोणो- पहासिन्, भुजबलपरिरक्षितसकललोक, ( धृतायुधः (३।४६) इति पठित्वा । ) इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं साम्प्रतं भीमाद् दुःशासनम् । पाञ्चालराजात्मजा = द्रौपदी, कृष्टां = आकृष्टा, क्वचित्स्पृष्टेति पाठः । राज्ञां = नृपाणाम्, गुरूणां = द्रोणादीनाम्, पुरः = अग्रे, अस्याः = द्रौपद्याः, परिधानं = वस्त्रम्, अपहृतम् = आकृष्टम्, श्रेष्ठानां सन्निधौ परिधानाकर्षणकथनेनातीवौद्धत्यं प्रदर्शितम्, अत एवोच्यते- अस्योरःस्थलेति । उरःस्थलशोणितासवम् = उरःस्थलं वक्षःस्थलं तस्य शोणितम् आसवो मद्यम् इव तम्, पातुं = पीतुम्, अहं = भीमः, सः = य एतादृशो धृष्टः, अयम् = दुःशासनः, मद्भुजपञ्जरे = मद्भुजावेव पञ्जरं तस्मिन्, निपतितः संरक्ष्यतां = परित्रायताम्, कौरवबलेन नायं दुःशासनः शक्यते रक्षितुमिति भावः । शार्दूलविक्री- डितं छन्दः ॥ ४७ ॥ अङ्गराजेति - अङ्गराज्यदानेन राज्ञा धर्मोऽयं यद्गोतस्य परित्राणं तच्च त्वं न कर्तुं शक्नोषीत्यभिव्यज्यते । सेनापते इत्यनेन त्वं न सेनापतिपदार्हः, तव नवाभि- षेचनं दुर्योधनेनायुक्तं कृतमित्युपहासेन व्यङ्ग्यं । जामदग्न्यशिष्येत्यनेने तादृशस्य शिष्यो भूत्वाऽपि न त्वं रक्षणसमर्थ इति महदाश्चर्यमिति सूचितम् । द्रोणोपहासि- न्नित्यनेन त्वं द्रोणं वृथोपहासः, द्रोणे सेनापतौ न भीमः पूर्णप्रतिज्ञोऽभवत् त्वयि तु भवतीति सूच्यते । भुजबलपरिरक्षितेत्यनेन किमुक्तं त्वया धृतायुध इति तदेवाह- धृतायुधेति । जिस मानवपशु ने द्रुपदात्मजा (द्रौपदी) के केशपाशों को पकड़कर खींचा तथा जिसने राजाओं और गुरुजनों के समक्ष उन्हें विवस्त्र करने की चेष्टा की थी; और जिसके वक्षःस्थल के रुधिररूपी मदिरा के छकने की मैंने प्रतिज्ञा की थी वही आज मेरी भुजा के पिंजड़े में आ फँसा है । कौरव आकर उसे बचायें अर्थात् कौरवों में सामर्थ्य हो तो उसकी रक्षा करें ॥ ४७ ॥ ( सब लोग सुनते हैं ) अश्वत्थामा- (व्यङ्ग के साथ) अङ्गदेश के स्वामिन्, सेनाध्यक्ष, अस्त्रविद्या में परशुराम के शिष्य, आचार्य द्रोण के विनिन्दक और भुजा के पराक्रम से समस्त विश्व के परित्राता ! अब वह समय समुपस्थित है । अब इस समय भीमसेन से इस दुःशासन की रक्षा करो ।

१५० वेणीसंहारं नाटकं कर्णः—आः, का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छाया- मप्याक्रमितुम् । युवराज, न भेतव्यं न भेतव्यम् । अयमहमागतोऽस्मि । ( इति निष्क्रान्तः । ) अश्वत्थामा—राजन् कौरवनाथ, अभीष्मद्रोणं सम्प्रति कौरवबलमालो- डयन्तौ भीमार्जुनौ राधेयेनैवविधेनान्येन वा न शक्यते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव । दुर्योधनः—आः, शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुम् । वत्स, न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः रथमुपनय (इति निष्क्रान्तः ।) ( नेपथ्ये कलकलः । ) अश्वत्थामा—(ससम्भ्रमं) मातुल, कष्टं कष्टम् । एष भ्रातुः प्रतिज्ञा- भङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैरभिद्रवति । सर्वथा पीतं कौरवबलं = कुरुराजसैन्यम्, आलोडयन्तौ = मर्दयन्तौ, राधेयेन = राधाऽपत्य- कर्णेन, प्रतीकारपरः = उपायतत्परः । मातुल = कृपाचार्य, प्रतिज्ञाभङ्गभीरुरिति-यद्यहं दुर्योधनकर्णौ शरैराच्छादयामि तदा ताभ्यां निवा- कर्ण—अरे ! भीम में क्या सामर्थ्य है कि मेरे जीवित रहते हुए दुःशासन की छाया तक का स्पर्श करे । युवराज ! भय न करें, मैं आ ही पहुंचा (यह कहकर चल पड़ता है)। अश्वत्थामा—राजन्, कौरवेश्वर ! इस समय भीष्म और द्रोण से शून्य कौरवीय सेना का मन्थन करते हुए भीम और अर्जुन का प्रतिकार करने में कर्ण अथवा उसी प्रकार के किसी अन्य वीर में सामर्थ्य कहाँ ? अतः आप स्वयं भाई की रक्षा के लिए तत्पर हो जाइए । दुर्योधन—अरे ! दुष्ट वायुपुत्र भीम में अथवा अन्य किसी में क्या शक्ति है कि मेरे जीवित रहते हुए और हाथ में शस्त्र होते हुए अनुज दुःशासन की छाया का भी स्पर्श करे । भ्रातः ! न डरो, न डरो । अरे यहाँ कौन है ! मेरा रथ उपस्थित कर (यह कहकर चल देता है) । (नेपथ्य में कोलाहल) अश्वत्थामा—(सामने देखकर व्याकुलाहट के साथ) मामा ! हाय बड़े दुःख की बात है कि अर्जुन अपने भीम की प्रतिज्ञाभग्न हो जाने के भय से अमोघ शर की वर्षा करते हुए दुर्योधन और कर्ण की ओर दौड़ रहा है । हाय ! दुःख !! दुःख !!! अरे यह तो

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५१

दुःशासनशोणितं भीमसेनेन । न खलु विषये दुर्योधनानुजस्यैतां विपत्तिम-
वलोकयितुम् । अनृतमनुमतं नाम । मातुल, शस्त्रं शस्त्रम् ।
सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे ।
भीमाद् दुःशासनं त्रातुं त्यक्तमप्यक्तमायुधम् ॥ ४८ ॥
( इति खड्गं ग्रहीतुमिच्छति । )
( नेपथ्ये । )
महात्मन्, भरद्वाजसूनो, न खलु सत्यवचनमुल्लङ्घयितुमर्हसि ।
कृपः-वत्स, अशरीरिणी भारती भवन्तममृतादाभिरक्षति ।
रितो भीमः कदाचिद् दुःशासनरुधिरपानेनापूर्णप्रतिज्ञः स्यादिति भावः । अनृत-
मनुमतमिति = यन्मयोक्तं कर्णे जीवति अहं शस्त्रं न ग्रहीष्यामीति तन्मिथ्या भव-
द्विति भावः ।
अन्वयः-सत्यात्, अपि, अनृतम्, श्रेयः, (भवतु) स्वर्गम्, धिक्, नरकः, अस्तु
भ मात्, दुःशासनम्, त्रातुम्, त्यक्तम्, आयुधम्, अत्यक्तम् ॥ ४८ ॥
साम्प्रतं शस्त्रं ग्राह्यमित्याह सत्यादप्यनृतमिति । अनृतं = मिथ्या, श्रेयः =
श्रेष्ठम्, शस्त्रग्रहणजन्यमिथ्यादोषान्नरकः श्रेयानेवेति भावः । दुःशासनं = दुर्योधना-
नुजम्, त्रातुं = रक्षितुम्, अत्यक्तं = अत्यक्ततुल्यम्, शस्त्रं गृह्यते मयेति भावः ।
पथ्यावक्त्रं छन्दः ॥ ४८ ॥
अशरीरिणी = देहिनाऽनुक्ता, देववाणीत्यर्थः ।
भीम ने दुःशासन का रक्तपान कर ही लिया । दुर्योधन के कनिष्ठ भ्राता की यह दुरवस्था
मुझ से देखी नहीं जा सकती । मेरी प्रतिज्ञा असत्य ही सही मामा ! शस्त्र !! शस्त्र !!!
मैं सत्य की अपेक्षा मिथ्यावादिता को कल्याण की जननी समझता हूँ । स्वर्ग को
धिक्कार है, मुझे नरक भले ही क्यों न हो; मैंने शस्त्र का परित्याग कर दिया है तथापि
भीमसेन से दुःशासन की रक्षा के लिए शस्त्र का परित्याग मैं नहीं करता अर्थात् उसे फिर
ग्रहण करता हूँ ॥ ४८ ॥
( यह कहकर खड्ग उठाना चाहता है )
( नेपथ्य में )
महानुभाव ! भारद्वाजद्रोणकुमार !! अब तक कभी सत्य से विचलित नहीं हुए हो अब
भी विचलित नहीं होना चाहिए ।
कृप-वत्स ! आकाशवाणी तुम्हें भ्रष्टप्रतिज्ञ होने से बचा रही है ।

१५२ वेणीसंहारं नाटकं अश्वत्थामा—कथमियममानुषी वाङ्नानुमनुते सङ्ग्रामावतरणं मम। सर्वथा पाण्डवपक्षपातिनो देवाः। भोः कष्ट कष्टम्। दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम्। दुर्योधनस्य कर्ताऽस्मि किमन्यत्प्रियमाहवे ॥ ४९ ॥ मातुल, राधेयक्रोधवशादनार्यमस्माभिराचरितम्। अतस्त्वमपि ताव- दस्य राज्ञः पार्श्ववर्ती भव। कृपः गच्छाम्यहमत्र प्रतिविधातुम्। भवानपि शिविरसन्निवेशमेव प्रतिष्ठताम्। (परिक्रम्य निष्क्रान्तौ।) इति तृतीयोऽङ्कः। अन्वयः— दुःशासनस्य, रुधिरे, पीयमाने, अपि, उदासितम् ( मया ) ( तदा ) आहवे, दुर्योधनस्य, प्रियम्, अन्यत्, किम्, कर्त्ता, अस्मि ॥ ४९ ॥ साम्प्रतमुदस्ततोऽग्रे कि कारिष्यामीत्याह = दुःशासनस्येति । पीयमाने, भीमनेति शेषः । उदासितम् मयेति शेषः । आहवे = सङ्ग्रामे, प्रियम् = इष्टम्, कर्ता-तृन्प्रत्य- यान्तमिदम् अतो 'न लोकाव्ययं'ति निषेधान्न कृद्योगे षष्ठी अस्मि, न किमपीत्यर्थः । यदि साम्प्रतं भीमाद् दुःशासनस्य रक्षा न कृता तदाऽग्रे दुर्योधनस्य क उपकारो विधास्यते मयेति भावः । अनुष्टुप् छन्दः ॥ ४९ ॥ अनार्य = शस्त्रपरित्यागरूपम् । इति प्रबोधिनी-व्याख्यायां तृतीयोऽङ्कः । अश्वत्थामा—क्यों दैवी वाणी को यह मेरा युद्धक्षेत्र में उतरना अभीष्ट नहीं है ? कष्ट की बात है ! हाय देवता लोग भी पाण्डवों के ही समर्थक हैं। अब भीम के द्वारा दुःशासन का रक्तपान किया गया ही समझना चाहिए। हाय ! दुःख !! दुःख !!! दुःशासन का रक्तपान होते हुए भी तटस्थ हूं, तब संग्राम की आपत्तिकाल में इससे बढकर प्रिय और दूसरा कार्य दुर्योधन का कौनसा है जिसे मैं सम्पादन करूँ ॥ ४९ ॥ मामा ! कर्ण के प्रति किये गये क्रोध के आवेश में पड़कर मैंने अच्छा नहीं किया, अच्छा, अब आप भी इस राजा की रक्षा के लिये तैयार रहिये। कृप—अच्छा मैं सहायतार्थ जा रहा हूँ तुम शिविर के लिए प्रस्थान कर दो । (दोनों घूमकर चले जाते हैं) ॥ तीसरा अङ्क समाप्त ॥

चतुर्थोऽङ्कः ( ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । ) ( सूतः ससम्भ्रमं परिक्रामति । ) ( नेपथ्ये ) भो भोः, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणी- कृतप्राणद्रविणसंचया नरपतयः ! संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासन- पीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि उमाहृदानन्दकरं शिवस्य नेत्रोत्सवं भूतलोकभूतिम् । बहिर्मुखानामपि पूजनीयं सिद्धिप्रदं विघ्नपतिं नमामः ॥ १ ॥ अपहरन् = नयन्, ससम्भ्रमम् = सोद्वेगम्, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः = बाहुबलस्य भुजपराक्रमस्य योऽवलेपः गर्वः तेन प्रवर्त्तितो यो महासमरः तस्य दोहदम् इच्छा येषामिति व्यधिकरणपद- बहुव्रीहिः । 'तत्सम्बोधने' अथ दोहदम् इच्छा काङ्क्षा' इत्यमरः । कौरवपक्षपात- पणीकृतप्राणद्रविणसञ्चयाः = कौरवपक्षपातेन दुर्योधनसाहाय्येन पणीकृताः प्राणा एव द्रविणसञ्चयः यैः, यथा द्यूते द्रविणं पणीक्रियते तथा रणे नरपतिभिः प्राणा एव पणीकृता इति भावः । संस्तभ्यन्तान् = अवरुध्यन्ताम्, इदं बलानीत्यनेनान्वेति । निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि = निहतो यो दुःशासनः तस्य पीतावशेषं यत् शोणितं तेन स्नपितः आच्छा- दितः अतएव बीभत्सः भयानकः यो वृकोदरः भीमः तस्य दर्शनाद् यद् भयं तेन परिस्खलन्ति पतन्ति प्रहरणानि अस्त्राणि येषां तानि, प्रद्रवन्ति = धावन्ति इदं (आहत अतएव चेतनारहित दुर्योधन को रथ पर बिठा कर अपहरण करता हुआ सारथि प्रवेश करता है) (सारथि व्याकुल होकर इधर-उधर घूमता है) (नेपथ्य में) अरे अरे बाहुबल के दर्प से महासंग्रामरूप महोत्सव के प्रवर्त्तकों तथा कुरुवंश के लिये अपने प्राणों तथा धनराशि को न्योछावर कर देने वाले राजाओ ! भीमसेन ने दुःशासन का वध करके रक्तपान किया है और बचे हुये रक्त का विलेप अपने अङ्गों में किया है अतएव उसकी भयावह आकृति को देखकर त्रस्त हो शस्त्रों का परित्याग करके समरविमुख

१५४ वेणीसंहारं नाटकं रणात्प्रद्रवन्ति बलानि । सूतः ( विलोक्य । ) कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिरनकलेवरसहस्रसम्मर्दविषमो- द्धातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरचक्रपराक्रम- प्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त, जातमस्मद्बलानामवलम्बनम् । ( नेपथ्ये कलकलानन्तरम् । ) शत्रुप्रत्ययास्तम्, बलानि–अवरुध्यन्तामित्यर्थः । धवलचपलचामरचुम्बितकनककमण्डलुना = स्वच्छं यच्चञ्चलचामरं तेन चुम्बितः कनकरुकमण्डलुः यत्र तेन, शिखरावबद्धवैजयन्तीसूचितेन=शिखरे अग्रभागे अवबद्धा या वैजयन्ती पताका तया सूचितेन, ज्ञातेन, हतगजवाजिरनकलेवरसहस्रसम्मर्द- कलेवराणि शरीराणि तेषां सम्मर्दनेन यो विषमोद्धातः तेन करणभूतेन कृतः कल- कलः महाध्वनिः येन किङ्किणीजालेन तन्माला यस्य तेन, इदं विशेषणत्रयं रथस्य, रथेनेत्यस्य करणत्वेन अनुसरणक्रियायामन्वयः । शरवर्षस्तम्भितपरचक्रपराक्रम- प्रसरः = बाणवर्षणेन स्तम्भितः शत्रुसमूहपराक्रमप्रसरः येन सः, प्रद्रुतं = धावितम्, आत्मबलं = स्वसैन्यम्, आश्वासयन् = सन्तोलयन्, कृपः = कृपाचार्यः, किरीटिना = अर्जुनेन अभियुक्तं = हननाथं लक्ष्यीकृतम्, अङ्गराजं = कर्णम्, अनुसरति = पश्चाद् गच्छति । हन्त इति हर्षे 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः'रित्यमरः । होकर सेनायें तितर-बितर हो रही हैं उन्हें रोक रखिये । सूत—( देखकर ) जिस रथ के ऊपर सुवर्णकलश के साथ श्वेतवर्ण के सुन्दर चमर फरफरा रहे हैं, जिसके शिखराग्र भाग पर पताकायें फहरा रही हैं तथा युद्ध में मारे गये हाथी, घोड़े और मनुष्यों के असंख्य लोथों के ढेर से ऊँची-नीची भूमि पर टक्कर खाने से जिस रथ में बँधी हुई छोटी-छोटी घंटिकायें झङ्कृत होती रहती हैं इस प्रकार के रथ पर आरूढ होकर ये कृपाचार्य बाणों की वर्षा से शत्रुसैन्य की पराक्रमपूर्ण गति को जड़तुल्य बना देते हुए तथा भागती हुई अपनी सेना को धैर्य बँधाते हुए अर्जुन के साथ युद्ध करते हुए कर्ण की सहायता के लिये जा रहे हैं । प्रसन्नता की बात है कि हम लोगों की सेना के लिए कुछ आधार हो गया । ( नेपथ्य में कलकल ध्वनि के पश्चात् ) ।

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५५ भो भोः, अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः, कौरवच- मूभटाः पाण्डवपक्षपातिनश्च योधाः, न भेतव्यं न भेतव्यम् । अयमहं निहत- दुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्ट- प्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् - राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः

अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः = अस्माकं विलोकनाद् यद् भयं तेन स्खलिताः कार्मुककृपाणतोमरशक्तयः चापखड्गशर्वलाशक्तिनामकास्त्राणि, येषां तत्सम्बोधने, कौरवचमूभटाः = दुर्योधनसैन्ययोद्धारः, 'भटा योधाश्च योद्धारः' इत्यमरः । निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतः = निहतो यो दुःशा- सनः तस्य पीवरं मांसलम् उरःस्थलं तस्य यत् क्षतजं रुधिरं तदेवासवः मद्यं तस्य पानेन मदोद्धतः, रभसगामी = त्वरितगन्ता, स्तोकावशिष्टप्रतिज्ञामहोत्सवः स्तोकम् अल्पम् अवशिष्टः प्रतिज्ञामहोत्सवः यस्य । भीमस्य प्रतिज्ञासीद् यत् दुःशासनस्य रुधिरं पास्यामि, दुर्योधनस्य च जघनं त्रोटयिष्यामि शतं भ्रातृंश्च हनिष्यामि तत्र केवलं दुर्योधनस्य जघनत्रोटनं शिष्यते अत उच्यते-स्तोकावशिष्टप्रतिज्ञेति । द्यूत- निर्जितो दास इत्यनेन दासत्वेन दुर्योधनेन यो भीम उपहसितः स एव सम्प्रति तद्वधार्थं तं गवेषत इति सूच्यते । अन्वयः - मानधनस्य कार्मुकभृतः दुर्योधनस्य, अग्रतः, कुरुबान्धवस्य, नृपतः, कर्णस्य, शल्यस्य, च प्रत्यक्षम्, पाण्डववधूकेशावमर्षापिनः, जीवतः, एव, तस्य, तं दण्डकरजक्षुण्णात, वक्षसः, कोष्णम्, असृक्, वद्य, मया, पीतम् !१ ॥ १ ॥ स दुराचारी दुःशासनो मया दण्डित इत्याह - राज्ञो मानधनस्येति । मानध- नस्य = मानिनः, कार्मुकभृतः = चापधारिणः, राजः, अनेन विशेषणेन क्षत्रियस्य

(भीम)-अरे अरे कौरवसेना के शूरवीरो तथा पाण्डवों के सहायको ! मुझे देखकर ही भय के कारण आप लोगों के हाथ से धनुष तलवार, गड़ासे तथा बर्छियाँ छूटकर गिरी जा रही हैं आप लोग भयभीत न हों, भयभीत न हों। संहार किए गए दुःशासन के विशाल वक्षःस्थल के रुधिररूपी मदिरा के छकने से मदोन्मत्त (पागल) होकर वेग से गमन करता हुआ वह जो मैं भीमसेन पाण्डवों में मंझला तथा कौरवनरेश की द्यूतक्रीड़ा से जीतकर दास बनाया हुआ तथा जिसके प्रतिज्ञामहोत्सव की पूर्ति बहुत थोड़े अंशों में अवशिष्ट है, आप सबलोगों को साक्षी बनाकर कहता हूँ। ध्यान दीजिए- अभिमानैकधन तण सशस्त्र राजा दुर्योधन के, उसी प्रकार कौरव सहायक श ० २३०

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

१५६ वेणीसंहारं नाटकं. प्रत्यक्षं कुरुबान्धवस्य नृपतेः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ १ ॥ सूतः - (श्रुत्वा । सभयम् ।) कथमासन्न एव दुरात्मा कौरवराजपुत्र- महावनोत्पातमारुतो मारुतिः । अनुपलब्धसञ्ज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिद् दुःशासन इवास्मिन्नप्यनार्योऽ- धर्मोऽयं यत् परस्त्रातव्यः तत्रापि च स्वबन्धुरवश्यं तच्च त्वया न कृतमित्यतीवा पमानं तवेति, चापधारित्वेन च रक्षणयोग्यतास्तीति, मानधनस्य च मानहानिरतीव लज्जाजनकेति च सूच्यते । अग्रतः = अग्रे, न तु परोक्षम्, कुरुबान्धवस्य = कर्णपक्षे कुरुमित्रस्य शल्यपक्षे कुरुबन्धोः मातुलस्येत्यर्थः । 'बान्धवा बन्धुमित्रयोरि'ति हेमः । नृपतः = सहिष्णोः शल्यस्य मातुलस्य च प्रत्यक्षम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रम् । पाण्डववधूकेशाम्बराकर्षिणः = द्रौपदीकेशवस्त्राकर्षकस्य, जीवतः = प्राणान् धारयतः, एतेन स्वस्मिन्नतिपराक्रमः सूचितः । तस्य = दुःशासनस्य, तीक्ष्ण- करजक्षुण्णात् = निशितनखविदारितात्, वक्षसः = हृदयात्, कोष्णं = ईषदुष्णम्, असृक् = रुधिरम्, मया = भीमेन पीतम् । अत्र प्रथमचरणे परिकरालंकारः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ आसन्नः = समीपवर्ती, कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः = धृतराष्ट्र- पुत्रा एव महावनं तस्य य उत्पातमारुतः वायुः तद्वत् मरुतः अपत्यं भीमः । अनुप- लब्धसंज्ञः = अप्राप्तचैतन्यः मूर्च्छित इत्यर्थः । महाराजः = दुर्योधनः । स्यन्दनं=रथम् । कर्ण के देखते आज मैंने पाण्डवों की धर्मपत्नी [द्रौपदी] के केश और वस्त्र के आकर्षण करने वाले दुरात्मा के जीवित रहते हुए ही उसके वक्षःस्थल से तीक्ष्ण नखप्रहार के द्वारा ताजा रक्त निकाल कर पी लिया अर्थात् मैने दुःशासन के रक्तपान की जो प्रतिज्ञा की थी वह आज पूर्ण हो गई यद्यपि वह स्वयं एक वीर, धनुर्धर तथा मानी है; उसका बड़ा भाई भी वीर है । वह भी नहीं कि उनकी अनुपस्थिति में किन्तु उनके देखते देखते । इसके अतिरिक्त उसके सहायक शल्य और कर्ण जैसे वीर भी उपस्थित थे इतना ही नहीं कि उसे मारकर उसका रक्तपान किया हो, उसके जीते रहते हुए ही उसका रक्त निकाल कर पान किया हू ॥ १ ॥ सूत - (सुनकर भय से) अरे ! कौरवनरेश के पुत्ररूपी विशाल वन को निर्मूल करने के लिए भयङ्कर आँधी की भाँति यह दुष्ट भीमसेन समीप में ही वर्तमान है। महाराज को अभी चेतना नहीं आई, अच्छा, मैं अब रथ को दूर भगाये लिये जा रहा हूँ क्योंकि कदाचित्