वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 177, कुल 355 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
१५६ वेणीसंहारं नाटकं. प्रत्यक्षं कुरुबान्धवस्य नृपतेः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ १ ॥ सूतः - (श्रुत्वा । सभयम् ।) कथमासन्न एव दुरात्मा कौरवराजपुत्र- महावनोत्पातमारुतो मारुतिः । अनुपलब्धसञ्ज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिद् दुःशासन इवास्मिन्नप्यनार्योऽ- धर्मोऽयं यत् परस्त्रातव्यः तत्रापि च स्वबन्धुरवश्यं तच्च त्वया न कृतमित्यतीवा पमानं तवेति, चापधारित्वेन च रक्षणयोग्यतास्तीति, मानधनस्य च मानहानिरतीव लज्जाजनकेति च सूच्यते । अग्रतः = अग्रे, न तु परोक्षम्, कुरुबान्धवस्य = कर्णपक्षे कुरुमित्रस्य शल्यपक्षे कुरुबन्धोः मातुलस्येत्यर्थः । 'बान्धवा बन्धुमित्रयोरि'ति हेमः । नृपतः = सहिष्णोः शल्यस्य मातुलस्य च प्रत्यक्षम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रम् । पाण्डववधूकेशाम्बराकर्षिणः = द्रौपदीकेशवस्त्राकर्षकस्य, जीवतः = प्राणान् धारयतः, एतेन स्वस्मिन्नतिपराक्रमः सूचितः । तस्य = दुःशासनस्य, तीक्ष्ण- करजक्षुण्णात् = निशितनखविदारितात्, वक्षसः = हृदयात्, कोष्णं = ईषदुष्णम्, असृक् = रुधिरम्, मया = भीमेन पीतम् । अत्र प्रथमचरणे परिकरालंकारः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ आसन्नः = समीपवर्ती, कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः = धृतराष्ट्र- पुत्रा एव महावनं तस्य य उत्पातमारुतः वायुः तद्वत् मरुतः अपत्यं भीमः । अनुप- लब्धसंज्ञः = अप्राप्तचैतन्यः मूर्च्छित इत्यर्थः । महाराजः = दुर्योधनः । स्यन्दनं=रथम् । कर्ण के देखते आज मैंने पाण्डवों की धर्मपत्नी [द्रौपदी] के केश और वस्त्र के आकर्षण करने वाले दुरात्मा के जीवित रहते हुए ही उसके वक्षःस्थल से तीक्ष्ण नखप्रहार के द्वारा ताजा रक्त निकाल कर पी लिया अर्थात् मैने दुःशासन के रक्तपान की जो प्रतिज्ञा की थी वह आज पूर्ण हो गई यद्यपि वह स्वयं एक वीर, धनुर्धर तथा मानी है; उसका बड़ा भाई भी वीर है । वह भी नहीं कि उनकी अनुपस्थिति में किन्तु उनके देखते देखते । इसके अतिरिक्त उसके सहायक शल्य और कर्ण जैसे वीर भी उपस्थित थे इतना ही नहीं कि उसे मारकर उसका रक्तपान किया हो, उसके जीते रहते हुए ही उसका रक्त निकाल कर पान किया हू ॥ १ ॥ सूत - (सुनकर भय से) अरे ! कौरवनरेश के पुत्ररूपी विशाल वन को निर्मूल करने के लिए भयङ्कर आँधी की भाँति यह दुष्ट भीमसेन समीप में ही वर्तमान है। महाराज को अभी चेतना नहीं आई, अच्छा, मैं अब रथ को दूर भगाये लिये जा रहा हूँ क्योंकि कदाचित्