भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 176, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 176

चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५५ भो भोः, अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः, कौरवच- मूभटाः पाण्डवपक्षपातिनश्च योधाः, न भेतव्यं न भेतव्यम् । अयमहं निहत- दुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्ट- प्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् - राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः

अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः = अस्माकं विलोकनाद् यद् भयं तेन स्खलिताः कार्मुककृपाणतोमरशक्तयः चापखड्गशर्वलाशक्तिनामकास्त्राणि, येषां तत्सम्बोधने, कौरवचमूभटाः = दुर्योधनसैन्ययोद्धारः, 'भटा योधाश्च योद्धारः' इत्यमरः । निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतः = निहतो यो दुःशा- सनः तस्य पीवरं मांसलम् उरःस्थलं तस्य यत् क्षतजं रुधिरं तदेवासवः मद्यं तस्य पानेन मदोद्धतः, रभसगामी = त्वरितगन्ता, स्तोकावशिष्टप्रतिज्ञामहोत्सवः स्तोकम् अल्पम् अवशिष्टः प्रतिज्ञामहोत्सवः यस्य । भीमस्य प्रतिज्ञासीद् यत् दुःशासनस्य रुधिरं पास्यामि, दुर्योधनस्य च जघनं त्रोटयिष्यामि शतं भ्रातृंश्च हनिष्यामि तत्र केवलं दुर्योधनस्य जघनत्रोटनं शिष्यते अत उच्यते-स्तोकावशिष्टप्रतिज्ञेति । द्यूत- निर्जितो दास इत्यनेन दासत्वेन दुर्योधनेन यो भीम उपहसितः स एव सम्प्रति तद्वधार्थं तं गवेषत इति सूच्यते । अन्वयः - मानधनस्य कार्मुकभृतः दुर्योधनस्य, अग्रतः, कुरुबान्धवस्य, नृपतः, कर्णस्य, शल्यस्य, च प्रत्यक्षम्, पाण्डववधूकेशावमर्षापिनः, जीवतः, एव, तस्य, तं दण्डकरजक्षुण्णात, वक्षसः, कोष्णम्, असृक्, वद्य, मया, पीतम् !१ ॥ १ ॥ स दुराचारी दुःशासनो मया दण्डित इत्याह - राज्ञो मानधनस्येति । मानध- नस्य = मानिनः, कार्मुकभृतः = चापधारिणः, राजः, अनेन विशेषणेन क्षत्रियस्य

(भीम)-अरे अरे कौरवसेना के शूरवीरो तथा पाण्डवों के सहायको ! मुझे देखकर ही भय के कारण आप लोगों के हाथ से धनुष तलवार, गड़ासे तथा बर्छियाँ छूटकर गिरी जा रही हैं आप लोग भयभीत न हों, भयभीत न हों। संहार किए गए दुःशासन के विशाल वक्षःस्थल के रुधिररूपी मदिरा के छकने से मदोन्मत्त (पागल) होकर वेग से गमन करता हुआ वह जो मैं भीमसेन पाण्डवों में मंझला तथा कौरवनरेश की द्यूतक्रीड़ा से जीतकर दास बनाया हुआ तथा जिसके प्रतिज्ञामहोत्सव की पूर्ति बहुत थोड़े अंशों में अवशिष्ट है, आप सबलोगों को साक्षी बनाकर कहता हूँ। ध्यान दीजिए- अभिमानैकधन तण सशस्त्र राजा दुर्योधन के, उसी प्रकार कौरव सहायक श ० २३०

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 176, कुल 355 में से · BharatKosha