वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 174, कुल 355 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः ( ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । ) ( सूतः ससम्भ्रमं परिक्रामति । ) ( नेपथ्ये ) भो भोः, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणी- कृतप्राणद्रविणसंचया नरपतयः ! संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासन- पीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि उमाहृदानन्दकरं शिवस्य नेत्रोत्सवं भूतलोकभूतिम् । बहिर्मुखानामपि पूजनीयं सिद्धिप्रदं विघ्नपतिं नमामः ॥ १ ॥ अपहरन् = नयन्, ससम्भ्रमम् = सोद्वेगम्, बाहुबलावलेपप्रवर्तितमहासमरदोहदाः = बाहुबलस्य भुजपराक्रमस्य योऽवलेपः गर्वः तेन प्रवर्त्तितो यो महासमरः तस्य दोहदम् इच्छा येषामिति व्यधिकरणपद- बहुव्रीहिः । 'तत्सम्बोधने' अथ दोहदम् इच्छा काङ्क्षा' इत्यमरः । कौरवपक्षपात- पणीकृतप्राणद्रविणसञ्चयाः = कौरवपक्षपातेन दुर्योधनसाहाय्येन पणीकृताः प्राणा एव द्रविणसञ्चयः यैः, यथा द्यूते द्रविणं पणीक्रियते तथा रणे नरपतिभिः प्राणा एव पणीकृता इति भावः । संस्तभ्यन्तान् = अवरुध्यन्ताम्, इदं बलानीत्यनेनान्वेति । निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि = निहतो यो दुःशासनः तस्य पीतावशेषं यत् शोणितं तेन स्नपितः आच्छा- दितः अतएव बीभत्सः भयानकः यो वृकोदरः भीमः तस्य दर्शनाद् यद् भयं तेन परिस्खलन्ति पतन्ति प्रहरणानि अस्त्राणि येषां तानि, प्रद्रवन्ति = धावन्ति इदं (आहत अतएव चेतनारहित दुर्योधन को रथ पर बिठा कर अपहरण करता हुआ सारथि प्रवेश करता है) (सारथि व्याकुल होकर इधर-उधर घूमता है) (नेपथ्य में) अरे अरे बाहुबल के दर्प से महासंग्रामरूप महोत्सव के प्रवर्त्तकों तथा कुरुवंश के लिये अपने प्राणों तथा धनराशि को न्योछावर कर देने वाले राजाओ ! भीमसेन ने दुःशासन का वध करके रक्तपान किया है और बचे हुये रक्त का विलेप अपने अङ्गों में किया है अतएव उसकी भयावह आकृति को देखकर त्रस्त हो शस्त्रों का परित्याग करके समरविमुख