वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 164, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४३ जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् । अनेन लूनं खड्गेन पतितं द्रक्ष्यसि क्षितौ ॥ ४१ ॥ अश्वत्थामा—अरे मूढ, जात्या काममवध्योऽहम् । इयं सा जातिः परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् । ) अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ४२ ॥ रित्युच्यते । 'ब्रह्मबन्धुरधिक्षेपे निर्दोषे च द्विजन्मना' मिति विश्वः । आत्मश्लाघ = आत्मप्रशंस । अन्वयः—जात्या, कामम् (त्वम्) अवध्यः, असि, तु, उद्धृतम् इदम् चरणम्, अनेन, खड्गेन, लूनम्, ( अत एव ) क्षितौ, पतितम्, द्रक्ष्यसि, ( त्वम् ) ॥ ४१ ॥ जात्या=ब्राह्मणत्वेन, अवध्यः = अहन्तव्यः, 'ब्राह्मणो, न हन्तव्य' इति स्मृतेः । असि अतः उद्धृतम् = सप्रथावत्कृतम् उत्थापितमित्यर्थः । तु = किन्तु, अनेन = मदीयेन खड्गेन = असिना, लूनं = छिन्नम्, क्षितौ = भूमौ, द्रक्ष्यसि, साम्प्रतमिति शेषः । यच्चरणस्त्वया मम मस्तकस्योपरि प्रदानायोत्थापितः तं खण्डयामीत्यर्थः । अत्र पदार्थ- गतकाव्यलिङ्गमलङ्कारः । पथ्यावक्त्रं छन्दः ॥ ४१ ॥ जातिः = ब्राह्मणत्वं, परित्यक्ता-यज्ञोपवीतच्छेदनेनेति भावः । अन्वयः—अद्य, मया, असौ, किरीटी, मिथ्याप्रतिज्ञः, क्रियते, शस्त्रम्, गृहाण, वा, त्यक्त्वा, मौलौ, अञ्जलिम्, रचय, वा ॥ ४२ ॥ अद्य मया = अश्वत्थाम्ना, किरीटी = अर्जुनः, मिथ्याप्रतिज्ञः = मिथ्या प्रतिज्ञा यस्य सः, क्रियते, । अयमाशयः अर्जुनस्य प्रतिज्ञाऽस्ति यदहं कर्ण हनिष्यामि परन्तु मयैव कर्णो हन्यते तथा चार्जुनैन कर्णस्याहननात्किरीटी मिथ्याप्रतिज्ञः स्यादिति । शस्त्रम् = आयुधम्, गृहाण = धारय, वा त्यक्त्वा = विहाय, शस्त्रमित्यस्यात्राप्यन्वयः । मौलौ = मस्तके, अञ्जलिम् रचय, वा, किमपि कुरु त्वां हनिष्याम्येवेति भावः । पथ्यावक्त्रं छन्दः ॥ ४२ ॥ ब्राह्मण होने के कारण निस्सन्देह अवध्य हो परन्तु इस उठे हुए चरण को इस तलवार के द्वारा कटकर भूमि पर पड़ा हुआ देखो ॥ ४१ ॥ अश्वत्थामा—रे मूर्ख ! यदि मैं ब्राह्मण होने के कारण अवध्य हूँ तो इस जाति को मैंने छोड़ दिया ( यज्ञोपवीत तोड़ता है फिर क्रोधपूर्वक ) । आज मैं अर्जुन को प्रतिज्ञाभ्रष्ट करता हूँ । हाथ में शस्त्र को लो अथवा शस्त्र छोड़ कर अञ्जलिबाँध शिर से लगाओ ॥ ४२ ॥