भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 165, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 165

१४४ वेणीसंहारं नाटकं ( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ। कृप-दुर्योधनौ निवारयतः ) दुर्योधनः—आचार्यपुत्र, शस्त्रग्रहणेनालम् । कृपः—वत्स, सूतपुत्र, शस्त्रग्रहणेनालम् । अश्वत्थामा—मातुल, मातुल, किं निवारयसि । अयमपि तातनिन्दा- प्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव । कर्णः—राजन्, न खल्वहं निवारयितव्यः । उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया । अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥ अश्वत्थामा—राजन्, मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पे- तातनिन्दाप्रगल्भः = पितृनिन्दायां धृष्टः, धृष्टद्युम्नपक्षपातीति = धृष्टद्युम्नतुल्यः अतोऽयं हन्तव्य इति भावः । न मां निवारयेत्यर्थः । अन्वयः—धीरसत्त्वैः अवज्ञया, उपेक्षितानाम्, क्रोधान्धैः अत्रासितानाम्, मन्दा- नाम्, एषा, विकत्थना, भवति ॥ ४३ ॥ धीरसत्त्वैः = गम्भीरभावैः, वीरैः, अवज्ञया = अनादरेण उपेक्षितानाम् = औदा- सीन्यं प्रापितानाम्, क्रोधान्धैः = कुपितैः, अत्रासितानाम् = भयमप्रापितानाम्, मन्दानां = हीनशक्तीनाम्, एषा = वीरोऽहमित्याकारिका, विकत्थना = आत्मप्रशंसा, भवति, अतो दण्डनीयोऽयमिति भावः । अनुष्टुप्छन्दः ॥ ४३ ॥ मद्भुजान्तरनिष्पेषसुलभ = मदीयो यो भुजौ तयोर्मध्ये यन्निष्पेषणं मर्दनं तेन सुलभम्, असूनां = प्राणानाम्, अवसादनं = विनाशम्, आसादयतु = प्राप्नोतु, ( दोनों तलवार खींच कर एक दूसरे पर आघात करने की चेष्टा करते हैं। कृप और दुर्योधन निषेध करते हैं ) । दुर्योधन—मित्र, आचार्यपुत्र ! शस्त्र न उठाइये । कृप—वत्स, सूतपुत्र ! शस्त्र उठाने की कोई आवश्यकता नहीं । अश्वत्थामा—मामा ! मामा ! क्यों मना करते हैं ? यह पिताजी की निन्दा में रत सूतनीच धृष्टद्युम्न का पक्षपाती है । कर्ण—महाराज ! मुझे वारण न कीजिए । धीर वीर पुरुष क्रोधोन्मत्त होकर भी दण्डित किए बिना तिरस्कार की बुद्धि से जब दुष्टों की उपेक्षा कर देते हैं तो वे इस प्रकार आत्मप्रशंसा करते ही हैं ॥ ४३ ॥ अश्वत्थामा—राजन् ! इसे छोड़िए, छोड़िए। मेरी भुजाओं के बीच पिसकर चूर्ण