वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 166, कुल 355 में से
संदर्भ में पढ़ेंपसुलभमसूनामवसादनम् । अन्यच्च राजन्, स्नेहेन वा कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव ते । पश्य— पापप्रियस्तव कथं गुणिनः सखायं सूतान्वयः शशधरान्वयसम्भवस्य । हन्ता किरीटिनमहं नृप मुञ्च कुर्या क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ४४ ॥ ( इति प्रहर्तुमिच्छति । )
अयमिति शेषः । स्नेहेन = सौहार्देन, कार्येण = अर्जुनवधरूपेण, ताताधिक्षेपकारिण= पितृनिन्दकम्, एनं = कर्णम्, मत्तः = मत्, तसिल्प्रत्ययान्तोऽयम् । परिरक्षितुमिच्छसी- त्यन्वयः । उभयं=स्नेहः कार्यञ्च । अन्वयः—( हे ) नृप, गुणिनः शशधरान्वयसम्भवस्य, तव, पापप्रियः, सूतां- न्वयः अयम्, कथं, सखा, अहम्, किरीटिनम् , हन्ता, ( माम् ) मुञ्च, अद्य, क्रोधात्, लोकम्, अकर्णम्, अपृथात्मजम्, कुर्याम् ॥ ४४ ॥ कथं वृथेत्याह-पापप्रियस्तवेति । गुणिनः—ऐश्वर्यादिमतः, शशधरान्वयसम्भ- वस्य = चन्द्रवंशसमुत्पन्नस्य, तव = दुर्योधनस्य, पापप्रियः = पापी, अयं = कर्णः, कथम्, सखा = मित्रम् गुणिनोः गुणिना सह मैत्री कार्या, नतु पापवतेति । एव- मुत्तमकुलज तस्योत्तमकुलजातेन न तु नीचकुलजातेनेति भावः । यदुक्तं स्नेहः वृथेति तत्समर्थितम् अधुना कार्यवैयर्थ्यं समर्थयति—हे नृप इति । अहम् = अश्व- त्थामा, किरीटिनम् = अर्जुनम्, हन्ता = विनाशयिता, अस्मीति शेषः माम्, मुञ्च = त्यज, क्रोधात् = कोपात्, अकर्णम् = कर्णशून्यम्, हतनेनेति भावः । अपृथा- त्मजम् = पृथापुत्ररहितम्, अर्जुनरहितमित्यर्थः । कुर्या = सम्पादयेयम्, उभयमपि अद्य हनिष्यामि तथा चार्जुनवधरूपकार्यमस्माद् विनापि स्यादिति भावः । वसन्त- तिलका छन्दः ॥ ४४ ॥
होने से प्राणों के अप्रयास लभ्य कष्ट का अनुभव करने दीजिये । और भी महाराज ! प्रेम के वश होकर अथवा कार्य के कारण जो आप मुझ से इस दुष्ट की जो मेरे पिता की निन्दा कर रहा है, रक्षा करना चाहते है ये दोनों बातें आपकी व्यर्थ ही है । देखिए— यह दुष्ट, अधिरथ कुमार चन्द्रवंशमें उत्पन्न तथा, गुणशाली आपका अभीष्ट मित्र किस प्रकार होने योग्य है ? और हे राजन् ! मैं अर्जुन को मारूँगा इसे छोड़ दीजिए क्रोधावेश में आज मैं इस संसार को कर्ण और अर्जुन से विहीन बना दूँगा ॥ ४४ ॥ ( प्रहार करना चाहता है ।) १० वे०