वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 167, कुल 355 में से
संदर्भ में पढ़ें१४६ वेणीसंहारं नाटकं कर्णः—( खड्गमुद्यम्य ।) अरे वाचाट, ब्राह्मणाधम, अयं न भवति। राजन्, मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( हन्तुमिच्छति । ) ( दुर्योधन-कृपौ निवारयतः । ) दुर्योधनः—कर्ण, गुरुपुत्र, कोऽयमद्य युवयोर्व्यामोहः । कृपः—वत्स, अन्यदेव प्रस्तुतमन्यत्रावेग इति कोयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः । अश्वत्थामा—मातुल, न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् । कृपः—वत्स, अकालः खलु स्वबलप्रधानविरोधस्य । अश्वत्थामा—मातुल, यद्येवम् । युवयोः = कर्णाश्वत्थाम्नोः, व्यामोहः = विवेकशून्यता विचित्ततेत्यर्थः । प्रस्तुतं = प्रस्तावविषयः करणीयमित्यर्थः । साम्प्रतं द्रुपदसुतो वध्य इति भावः । चेत् = यदि, स्वबलव्यसनं = स्वसेनयोः व्यसने क्रोधजन्यपरस्परविद्वेष., अस्य = धार्तराष्ट्रस्य, युष्मत्तः = भवद्गद्यः, वामः = अनिष्टः पन्थाः मार्गः, भवति, इति, अस्य राजकुलस्य विनाशकारणं भवानेव स्यादिति भावः । न लभ्यते—अस्य दर्प इत्यनेनान्वयः । स्वबलप्रधानविरोधस्य = स्वसेनाप्रमुखयोविद्वेषस्य, अकालः = असमयः । एवं—साम्प्रतं विरोधस्यायुक्तत्वे । कर्ण—( तलवार उठाकर ) अरे बकवादी, ब्राह्मणनीच ! अब यह नहीं रहेगा । राजन् छोड़ दीजिए, छोड़ दीजिए । मुझे न रोकिए । ( मारना चाहता है ) दुर्योधन—कर्ण और उपाध्यायपुत्र ! आज आपलोगों को यह क्या हो गया है ? कृप—वत्स ! क्या करना है, और क्या करने लग गए, यह कैसी मूर्खता है ? ऐसे समय में इस राजवंश पर, इनकी शक्ति पर यह वज्रप्रहार आप लोगों से हो रहा है, यह तो विपरीत मार्ग है । अश्वत्थामा—मामा ! क्रूरभाषी इस रथकार कुलङ्गार का अभिमान चूर करने को अवसर न प्राप्त होगा ? कृप—वत्स ! यह सेनानायकों के विरोध का समय नहीं । अश्वत्थामा—मामा ! यदि यह बात है तो फिर—