वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 170, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४९ येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः यस्योरःस्थलशोणितासवमहं पातु प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ ४७ ॥ ( सर्वे आकर्णयन्ति ।) अश्वत्थामा - (सोत्प्रासम् ।) अङ्गराज, सेनापते, जामदग्न्यशिष्य, द्रोणो- पहासिन्, भुजबलपरिरक्षितसकललोक, ( धृतायुधः (३।४६) इति पठित्वा । ) इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं साम्प्रतं भीमाद् दुःशासनम् । पाञ्चालराजात्मजा = द्रौपदी, कृष्टां = आकृष्टा, क्वचित्स्पृष्टेति पाठः । राज्ञां = नृपाणाम्, गुरूणां = द्रोणादीनाम्, पुरः = अग्रे, अस्याः = द्रौपद्याः, परिधानं = वस्त्रम्, अपहृतम् = आकृष्टम्, श्रेष्ठानां सन्निधौ परिधानाकर्षणकथनेनातीवौद्धत्यं प्रदर्शितम्, अत एवोच्यते- अस्योरःस्थलेति । उरःस्थलशोणितासवम् = उरःस्थलं वक्षःस्थलं तस्य शोणितम् आसवो मद्यम् इव तम्, पातुं = पीतुम्, अहं = भीमः, सः = य एतादृशो धृष्टः, अयम् = दुःशासनः, मद्भुजपञ्जरे = मद्भुजावेव पञ्जरं तस्मिन्, निपतितः संरक्ष्यतां = परित्रायताम्, कौरवबलेन नायं दुःशासनः शक्यते रक्षितुमिति भावः । शार्दूलविक्री- डितं छन्दः ॥ ४७ ॥ अङ्गराजेति - अङ्गराज्यदानेन राज्ञा धर्मोऽयं यद्गोतस्य परित्राणं तच्च त्वं न कर्तुं शक्नोषीत्यभिव्यज्यते । सेनापते इत्यनेन त्वं न सेनापतिपदार्हः, तव नवाभि- षेचनं दुर्योधनेनायुक्तं कृतमित्युपहासेन व्यङ्ग्यं । जामदग्न्यशिष्येत्यनेने तादृशस्य शिष्यो भूत्वाऽपि न त्वं रक्षणसमर्थ इति महदाश्चर्यमिति सूचितम् । द्रोणोपहासि- न्नित्यनेन त्वं द्रोणं वृथोपहासः, द्रोणे सेनापतौ न भीमः पूर्णप्रतिज्ञोऽभवत् त्वयि तु भवतीति सूच्यते । भुजबलपरिरक्षितेत्यनेन किमुक्तं त्वया धृतायुध इति तदेवाह- धृतायुधेति । जिस मानवपशु ने द्रुपदात्मजा (द्रौपदी) के केशपाशों को पकड़कर खींचा तथा जिसने राजाओं और गुरुजनों के समक्ष उन्हें विवस्त्र करने की चेष्टा की थी; और जिसके वक्षःस्थल के रुधिररूपी मदिरा के छकने की मैंने प्रतिज्ञा की थी वही आज मेरी भुजा के पिंजड़े में आ फँसा है । कौरव आकर उसे बचायें अर्थात् कौरवों में सामर्थ्य हो तो उसकी रक्षा करें ॥ ४७ ॥ ( सब लोग सुनते हैं ) अश्वत्थामा- (व्यङ्ग के साथ) अङ्गदेश के स्वामिन्, सेनाध्यक्ष, अस्त्रविद्या में परशुराम के शिष्य, आचार्य द्रोण के विनिन्दक और भुजा के पराक्रम से समस्त विश्व के परित्राता ! अब वह समय समुपस्थित है । अब इस समय भीमसेन से इस दुःशासन की रक्षा करो ।