वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 169, कुल 355 में से
संदर्भ में पढ़ें१४८ वेणीसंहारं नाटकं धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ४६ ॥ ( नेपथ्ये ) आः दुरात्मन्, द्रौपदीकेशाम्बराकर्षणमहापातकिन्, धार्तराष्ट्रापसद, चिरस्य खलु कालस्य मत्सम्मुखीनमागतोऽसि, क्षुद्रपशो ! क्वेदानीं गम्यते। अपि च । भो भो राधेयदुर्योधनसौवलप्रभृतयः पाण्डवविद्वेषिणश्चापबाणयो मानधनाः, शृण्वन्तु भवन्तः । कृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा अन्वयः—यावत्, अहम्, धृतायुधः, तावत्, अन्यैः आयुधैः किम्, मम अस्त्रेण, यत्, न वा, सिद्धम्, तत् केन, सेत्स्यति ॥ ४६ ॥ त्वयाऽस्त्रपरित्यागे कृतेऽपि न कापि दुर्योधनस्य क्षतिरित्याह—धृतायुधो याव- दिति । धृतायुधः = गृहीतशस्त्रः, अन्यैः = अन्यधृतैः 'विनापि प्रत्यय पूर्वपदयोर्वा लोपो वाच्य' इति कात्यायनवचनेन धृतशब्दस्य लोपः । आयुधैः किम्, न किमपि प्रयोजनमित्यर्थः । तत् = कार्यम्, केन = अस्त्रेण, सेत्स्यति—सिद्धिर्भविष्यति । सर्व- कार्यसिद्धिविधायकोऽहमिति भावः । अनुष्टुप्छन्दः ॥ ४६ ॥ नेपथ्ये भीमोक्तिः—आः दुरात्मन्निति । कालस्येति - अत्र सम्बन्धविवक्षया षष्ठी, चिरकालम् व्याप्येत्यर्थः, । मानधनाः—मानः अलङ्कार एव धनानि येषाम् । अन्वयः—येन, नृपशुना, शिरोरुहे, पाञ्चालराजात्मजा, कृष्टा, राज्ञाम् गुरूणाम् ( च ) पुरः अस्याः परिधानम्, अपि, येन, आहृतम्, यस्य, उरःस्थलशोणिता- स्रवम्, पातुम्, अहं प्रतिज्ञातवान्, सः, अयम्, मद्भुजपञ्जरे, निपतितः (हे) कौरवा- परक्ष्यताम् ( युष्माभिः ) ॥ ४७ ॥ दुराचारिणं दुःशासनं न कौरवाः साम्प्रतं रक्षितुं समर्था इत्याह-कृष्टेति । येन= दुःशासनेन नृपशुना = पशुरूपमनुष्येण, शिरोरुहे = केशावच्छेदने, अवच्छेदे सप्तमी । जब तक मेरे हाथों में शस्त्र है तब तक दूसरे के शस्त्रों की क्या आवश्यकता ? अथवा जो कार्य मेरे शस्त्रों से सम्पन्न न हो सकेगा वह और किसके द्वारा सम्पादन हो सकेगा ? ( नेपथ्य में ) अरे नीच, पाञ्चाली के वस्त्र और केश का आकृष्ट करनेवाला, अतएव महापापी कौरवा- धम ! बहुत समय के बाद मेरे समक्ष उपस्थित हुआ ? अरे क्षुद्रपशु अब कहाँ जा रहा है ! और भी— अये अये, कर्ण, दुर्योधन तथा शकुनि प्रभृति पाण्डवद्रोही, धनुर्धर और मानी वीरो सुनो-