भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 185, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 185

१६४ वेणीसंहारं नाटकं रक्षणीयेन सतत बालेनाज्ञानुवर्तिना । दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ ७ ॥ सूतः—महाराज, मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहत- चेतनत्वान्निश्चेतनः कृतो महाराज इत्यपहृतो मया रथः । दुर्योधनः—सूत, विरूपं कृतवानसि । तस्यैव पाण्डवपशोरनुजद्विषो मे क्षोभैर्गदाशनिकृतैर्न विबोधितोऽस्मि । अन्वयः — सततम् आज्ञानुवर्तिना, बालेन, रक्षणीयेन, भ्रात्रा, दुःशासनेन, उपहारेण, अहम्, रक्षितः ( त्वया ) ॥ ७ ॥ रक्षणीयेनेति । सततं = निरन्तरम्, आज्ञानुवर्तिना = आदेशानुसारिणा, बालेन = अल्पवयस्केन, अत एव, रक्षणीयेन = रक्षायोग्येन, भ्रात्रा = दुःशासनेन उपहारेण = बलिना, अहं = दुर्योधनः, रक्षितः, त्वयेति शेषः । मद्रक्षणार्थं दुःशासनो बलिरूपेण प्रदत्तः किं त्वया । यथा देवेभ्यः स्वरक्षार्थं बलिर्दीयते तथेति भावः । अत्र पदार्थगत- काव्यलिङ्गमलङ्कारः । अनुष्टुप् छन्दः ॥ ७ ॥ मर्मभेदिभिः = अन्तःकरणभेदकैः, इषुतोमरशक्तिप्रासवर्षैः = बाणशर्वलाशक्ति- नामकास्त्रविशेषकुन्तवर्षैः, महारथानां = दशसहस्रवीरयोधितॄणाम्, अपहतचेतनत्वात् = निश्चेतनत्वात्, महाराजः = भवान्, निश्चेतनः = मूर्च्छितः, कृतः, इति = ततः, रथः = स्यन्दनः, अपहृतः, मया । विरूपं = विपरीतम् । अन्वयः—पाण्डवपशोः मे, अनुजद्विषः तस्य एव, गदाशनिकृतैः, क्षोभैः, न विबोधितः, अस्मि ( अत एव ) ताम् एव, दौःशासनीम् रुधिरांशय्याम्, अहम्, न, अधिशयितः, आशु, वृकोदरः वा, न (अधिशयितः) ॥ ८ ॥ कथं विरूपं कृतमित्याह—तस्यैवेति । पाण्डवपशोः = पाण्डवः पशुरिव तस्य, मे = मम्, अनुजद्विप = कनिष्ठभ्रातृ- सर्वदा आज्ञा पालन करने में तत्पर कनिष्ठ भ्राता दुश्शासन की, जो निरा बालक था; रक्षा करनी चाहिए थी । उसे बलि देकर [ आपने ] मेरी रक्षा की है अर्थात् बच्चे की रक्षा चाहे जैसे होती करते परन्तु रक्षा न करके प्रत्युत उसका वध कराके मुझे बचाया है आपने यह काम अच्छा नहीं किया ॥ ७ ॥ सूत — राजाधिराज ! महारथियों के मर्मच्छेदी बाण, भाले, बर्छे और गदाओं के प्रहार से महाराज मूर्च्छित कर दिये गए अतः मैंने [ वहाँ से ] रथ हटा लिया । दुर्योधन — सूत ! प्रतिकूल [ अनुचित ] कार्य कर डाले हो । मेरे कनिष्ठ भ्राता के विघाती असभ्य पाण्डुपुत्र ( भीम ) के वज्रसदृश गदा के प्रहारों से