वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 186, कुल 355 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६५ तामेव नाधिशयितो रुधिरार्द्रशय्यां दौःशासनीं यदहमाशु वृकोदरो वा ॥ ८ ॥ (निःश्वस्य नभो विलोक्य ।) ननु भो हतविधे, कृपाविरहित, भरत- कुलविमुख, अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः । सूतः — शान्तं पापं शान्तं पापम् । महाराज, किमिदम् । शत्रोः, तस्य = भीमस्य, एव, गदाशनिकृतैः गदा अशनिः वज्र इव तत्कृतैः, क्षोभैः= प्रहारैः, विबोधितः = प्राप्तचैतन्यः, अस्मि भवामीत्यर्थः । यदि तस्य गदाभिघातैः विगतमूर्च्छः स्याम् तदेति भावः । अत एव ताम् एव, दौःशासनी = दुःशासन- सम्बन्धिनीम्, रुधिरार्द्रशय्यां = शोणितक्लिन्नशयनीयम्, अहम्, न अधिशयितः, न सुतः, आशु = शीघ्रम्, वृकोदरः = भीमः, वा नाधिशयितः । यदि तस्य गदयोत्थितः तदा द्वन्द्वयुद्धे सति वृकोदरस्य घातमहं कुर्याम् अथवा मां भीमो हन्यादिति भावः । वसन्ततिलका छन्दः ॥ ८ ॥ अन्वयः—मृत्युः, अपि, भवेत्, वृकोदरः, न च, हन्ता, (भवेत्) घाति- ताशेषबन्धोः, ये राज्येन, किम्, वा जयेन, किम् ॥ ९ ॥ स्वयमेव मृत्युर्भवतु भीमो न हन्यादित्याह—अपि नामेति । अपि, नामेति सम्भावनायाम् । वृकोदरः च न हन्ता = हिंसकः । मृत्युर्भवतु न च वृकोदरो हन्ता भवतु इति भावः । अनिष्टश्रवणात् सूतः वचनसमाप्तिमन्य एवाह—शान्तं पापमिति । इत्थं न वाच्यमित्यर्थः । मेरी मूर्च्छा दूर न की गई क्योंकि दुःशासन के रक्त से पङ्किल [ कीचह से युक्त ] शय्या पर न तो मैंने शयन किया और न भीम को शीघ्र ही शयन कराया अर्थात् मुझे वहीं पर चेतनाविहीन होकर पड़े रहने देते, मुझपर भीम के गदाप्रहार पड़ने देते जिससे मुझ में चेतना का सञ्चार होता और मैं फिर युद्ध करके या तो जहाँ दुःशासन का शव है वहाँ मैं भी सर्वदा के लिए सो जाता अथवा भीम को ही शयन करा देता । मुझे रणक्षेत्र से दूर हटाकर महान् अनुचित तू ने किया ॥ ८ ॥ ( लम्बी श्वास लेकर और ऊपर देखकर ) अरे निर्दयी भरतवंश से रुष्ट विधाता ! यदि मेरी मृत्यु भी हो तो भीम घातक न हो [ यही प्रार्थना है ] सूत — अमङ्गल का नाश हो । महाराज ! यह क्या !