वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 198, कुल 355 में से
संदर्भ में पढ़ेंकुमारवृषसेनेन मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः । ) दुर्योधनः — साधु वृषसेन, साधु ! सुन्दरक, ततस्ततः । सुन्दरकः — तदो देव, णिसिदसराभिघादवेअणोपजादमण्णुणा किरी- टिणा चण्डगण्डीवजीआसद्दिणिज्जिदवज्जणिघादघोसेण बाणणिपडणपडि- सिद्धदंसणप्पसरेण पत्थुद सिक्खावलावणुरुवं किं वि अच्चरिअम् । (ततो देव निशितशराभिघातवेदनोपजातमन्युनाकिरीटिना चण्डगाण्डीवजीवाशब्दर्निर्जितवज्रनि- घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् । ) भङ्गोभीषणेन = उद्दीपितो यः कोपः तेनोपरक्तं यन्मुखमण्डलं यश्च विजृम्भितः सम्पादितः भृकुटीभङ्गः ताभ्यां भीषणेन भयावहेन, चापधारिणा = धनुर्धरेण, कुमार- वृषसेनेन = कर्णपुत्रेण, मर्मभेदकैः = अन्तःकरणविदारकैः, परुषविषमैः = परुषैः कठो- रैरत एव विषमैः, श्रुतिपथकृतप्रणयैः = कर्णमार्गपर्यन्ताकृष्टैः, बाणै = शरैः, गाण्डीवी = अर्जुनः, निर्भर्त्सितः = सन्तर्जितः, दुष्टवचनैः = दुःखकरवाक्यैः, न, पुनः, भर्त्सिसत इत्यस्यात्राप्यन्वयः । यथाऽर्जुनेन अरे रे पितुरित्यादिना दुष्टवचनेन वृषसेनो भर्त्सित- स्तथा वृषसेनेन दुष्टवचनै. न भर्त्सितः किन्तु बाणैरेवेति समुदितार्थः । निशितशराभिघातवेदनोपनीतमन्युना = तीक्ष्णबाणप्रहारदुःखजातक्रोधेन, 'मन्यु- र्दैन्ये क्रतौ क्रुधीति विश्वः । किरीटिना, चण्डगाण्डीवजीवाशब्दर्निर्जितवज्रनिर्घात- घोषेण = चण्डः प्रचण्डो यो गाण्डीव जीवाशब्दः अर्जुनचापमौर्वीजन्यशब्दः तेन निर्जितः वज्रनिर्घातघोषः येन, बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण = शरवर्षणेन प्रतिषिद्धः दर्शनप्रसरः दृष्टिश्चाञ्चल्यं येन तेन, शिक्षाबलानुरूपं = शस्त्राभ्यासयोग्यम्, किमपि, आश्चर्यम् = अद्भुतम्, प्रस्तुतम् = आरब्धम् । हुए मुखमण्डल से जंभाई लेने के कारण तनी हुई भौंह से भयङ्कर कुमार वृषसेन ने धनुष धारण करके मर्मच्छेदी विकराल तथा कान तक आकृष्ट बाणों से न कि कटुवचनोंसे अर्जुन का उत्तर दिया। दुर्योधन — साधु वृषसेन, साधु ! सुन्दरक ! फिर क्या हुआ ? सुन्दरक — इसके अनन्तर महाराज ! तीक्ष्ण बाणों के प्रहार से क्रोधावेश में आकर अर्जुन के कर्कश गाण्डीव धनुष की प्रत्यञ्चा के टङ्कार से वज्रपात की गर्जन को लज्जित करते हुए, तथा बाणों की वर्षा से दृष्टि की गति का अवरोध करते हुए अपनी शिक्षा और पराक्रम के अनुरूप आश्चर्यजनक कुछ कार्य करने लगे ।