वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 214, कुल 355 में से
संदर्भ में पढ़ें१९४ | वेणीसंहारं नाटकं
त्वमपि मद्रचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । अलमति- साहसेन । अभिन्न एवायमावयोः संकल्पः न खलु भवानेको जीवितपरि- त्यागाकाङ्क्षी, किंतु— हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दत्त्वा मुक्त्वा वाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च । मुक्त्वाऽन्योन्यं सुचिरमपुनर्भावि गाढोपगूढं
जीवितपरित्यागाकाङ्क्षी = प्राणपरित्यागेच्छुः । अन्वयः—पार्थान्, हत्वा, अशिवम् सलिलम्, बन्धुवर्गाय, दत्त्वा कतिपयैः, मन्त्रिभिः, अरिभिः, च, सह, वाष्पम् मुक्त्वा, अपुनर्भावि, गाढापगूढम्, अन्योन्यम्, सुचिरम्, कृत्वा, दुःखितौ, निवृत्तौ, च, ( आवाम् ), इमाम् हततनुम्, संत्य- क्ष्यावः ॥ १३ ॥ पार्थान् = पाण्डवान्, हत्वा = व्यापाद्य, अशिवम् = अमङ्गलम्, सलिलं = जलं मरणोत्तरं देयं तिलाञ्जलिमित्यर्थः । बन्धुवर्गाय = समरे हताय बान्धवसमूहाय दत्त्वा, कतिपयैः = कियद्भिः, मन्त्रिभिः = अमात्यैः, मदीयदुःखेन मन्त्रिणामपि दुःखि- त्वादिति भावः । अरिभिः = शत्रुभिः, आवयोरिव तेषामपि बन्धुनाशाद् दुःखेनाश्रु- मोचनमिति भावः । च शब्दः समुच्चयद्योतकः । सह = साकम्, वाष्पम् = अश्रु मुक्त्वा = त्यक्त्वा, अपुनर्भावि = पुनर्भवितुं शीलमस्य पुनर्भावि न पुनर्भावीत्य- पुनर्भावि, गाढोपगूढं = गाढम् अतिशयं यथा स्यात्तथा उपगूढम् = आलिङ्गनम्, जन्मान्तरे उभयोरेकत्र जन्मनोऽनिश्चितत्वात् पुनरालिङ्गनं न सम्भवत्यत उक्तम्— अपुनर्भावीति । अन्योन्यं = परस्परम्, सुचिरं = बहुकालम् कृत्वा, दुःखितौ बन्धु- नाशेनेति भावः । निवृत्तौ = सन्तुष्टौ, पार्थहननेन कृतकृत्यत्वादिति भावः । हततनुं =
सुन्दरक ! तुम भी मेरी आज्ञा से शीघ्र ही जाकर मित्र कर्ण को सूचित कर दो—अधिक साहस की आवश्यकता नहीं। हम लोगों का यह सङ्कल्प एक है। आप अकेले ही जीवन के परित्याग की इच्छा नहीं करते हैं किन्तु— पृथा के पुत्रों का वध करके, अमाङ्गलिक जल कुटुम्बियों को देकर दो-चार बचे हुए मन्त्रियों और शत्रुओं के साथ आँसू बहाकर, परस्पर भविष्य में दुष्प्राप्य गाढ आलिङ्गन करके और दुःखपूर्वक अथवा कार्य की पूर्ति करते हुए इस नश्वर शरीर का परित्याग करेंगे अर्थात् पाण्डवों का संहार करके युद्ध में प्राण परित्याग किए हुए कुटुम्बियों को तिलाञ्जलि प्रदान करके जीवित शत्रु तथा मन्त्रियों के साथ खूब रो कर आपस में एक