वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 234, कुल 355 में से
संदर्भ में पढ़ें२१४ वेणीसंहार नाटकं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्य- मिदानीम् । तथा हि— त्यक्तप्राजनरश्मिरङ्किततनुः पार्थारङ्कितैर्मार्गणै- र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः । वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां शून्येनेव रथेन याति शिविरं शल्यः कुरूञ्छल्ययन् ॥ १० ॥ श्रवणपराङ्मुखतया=कर्णवधश्रवणविमुखतया, अलम् = व्यर्थम् । अन्वयः - पार्थारङ्कितैः, मार्गणैः अङ्किततनुः त्यक्तप्राजनरश्मिः स्यन्दनवर्त्मनाम्, परिचयात्, वाहैः, शनैः आकृष्यमाणः, अङ्गपतेः वार्ताम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः आवेदयन, कुरून्, शल्ययन, शून्येनेव, एव, रथेन, शल्यः, शिविरम्, याति ॥ १० ॥ अस्पष्टोक्त्या कर्णवधमाह—त्यक्तप्राजनेति । पार्थारङ्कितैः-अर्जुननामाङ्कितैः, मार्गणैः=शरैः, 'कलम्बमार्गणशराः' इत्यमरः, अङ्किततनुः=चिह्नितशरीरः बहुभिः क्रियमाणे युद्धे कस्येमे शरा इति संशयनिवार णार्थं योद्धा स्वशरे स्वनामाङ्कनं करोतीति युद्धरीतिः । त्यक्तप्राजनरश्मिः = त्यक्तौ प्राजनरश्मी वृषभप्रेरकडण्डप्रग्रहौ येन सः, तथापि स्यन्दनवर्त्मनाम् = रथमार्गाणाम् परिचयात्, वाहैः = अश्वैः, शनैः आकृष्यमाणः=नीयमानः यद्यपि शल्योऽश्वान्न सञ्चालयति तथापि अश्वः येन मार्गेण गच्छति संस्कारवशात्तेनैव मार्गेणा प्रेर्यमाणो- प्यागच्छति । स्वभावान्नतेनैव मार्गेणागच्छतीत्याशयः । अङ्गपतेः = कर्णस्य, वार्ताम्= वृत्तान्तम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः अश्रुभिः, आवेदयन=ज्ञापयन् कर्णो मृत इत्यश्रुभिरेव कथयन्निति भावः । कुरून दुर्योधनादीन्, शल्ययन् = शङ्कुजयदुःखमिव दुःखं प्रापयन्, शून्येने-कर्णरहितेन, एव, रथेन, शल्यः=साम्प्र- तिक, कर्णसारथिः शिविरम् = सैन्यनिवासस्थानम्, याति । अत्र यमकमलङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ १० ॥ हो गया । अप्रिय संवादों के सुनने में उपेक्षा करने की आवश्यकता नहीं क्योंकि समयानुसार अब उपाय तो करना ही होगा । क्योंकि— शल्य ने ( घोड़े के ) कोड़े और रास ( लगाम ) को छोड़ दिया है । अर्जुन-नामाङ्कित शरों से उसका शरीर चिह्नित हो गया है । रथ घोड़ों के द्वारा उसके मार्गों का परिचय होने के कारण धीरे-धीरे खींचा जा रहा है । वह आँसुओं से समाचार को बतलाता हुआ तथा कौरवों के हृदय में काँटे चुभोता हुआ ओछा ही रथ पर बैठकर सेना-शिविर को जा रहा है ॥ १०॥