भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 234, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 234

२१४ वेणीसंहार नाटकं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्य- मिदानीम् । तथा हि— त्यक्तप्राजनरश्मिरङ्किततनुः पार्थारङ्कितैर्मार्गणै- र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः । वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां शून्येनेव रथेन याति शिविरं शल्यः कुरूञ्छल्ययन् ॥ १० ॥ श्रवणपराङ्मुखतया=कर्णवधश्रवणविमुखतया, अलम् = व्यर्थम् । अन्वयः - पार्थारङ्कितैः, मार्गणैः अङ्किततनुः त्यक्तप्राजनरश्मिः स्यन्दनवर्त्मनाम्, परिचयात्, वाहैः, शनैः आकृष्यमाणः, अङ्गपतेः वार्ताम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः आवेदयन, कुरून्, शल्ययन, शून्येनेव, एव, रथेन, शल्यः, शिविरम्, याति ॥ १० ॥ अस्पष्टोक्त्या कर्णवधमाह—त्यक्तप्राजनेति । पार्थारङ्कितैः-अर्जुननामाङ्कितैः, मार्गणैः=शरैः, 'कलम्बमार्गणशराः' इत्यमरः, अङ्किततनुः=चिह्नितशरीरः बहुभिः क्रियमाणे युद्धे कस्येमे शरा इति संशयनिवार णार्थं योद्धा स्वशरे स्वनामाङ्कनं करोतीति युद्धरीतिः । त्यक्तप्राजनरश्मिः = त्यक्तौ प्राजनरश्मी वृषभप्रेरकडण्डप्रग्रहौ येन सः, तथापि स्यन्दनवर्त्मनाम् = रथमार्गाणाम् परिचयात्, वाहैः = अश्वैः, शनैः आकृष्यमाणः=नीयमानः यद्यपि शल्योऽश्वान्न सञ्चालयति तथापि अश्वः येन मार्गेण गच्छति संस्कारवशात्तेनैव मार्गेणा प्रेर्यमाणो- प्यागच्छति । स्वभावान्नतेनैव मार्गेणागच्छतीत्याशयः । अङ्गपतेः = कर्णस्य, वार्ताम्= वृत्तान्तम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः अश्रुभिः, आवेदयन=ज्ञापयन् कर्णो मृत इत्यश्रुभिरेव कथयन्निति भावः । कुरून दुर्योधनादीन्, शल्ययन् = शङ्कुजयदुःखमिव दुःखं प्रापयन्, शून्येने-कर्णरहितेन, एव, रथेन, शल्यः=साम्प्र- तिक, कर्णसारथिः शिविरम् = सैन्यनिवासस्थानम्, याति । अत्र यमकमलङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ १० ॥ हो गया । अप्रिय संवादों के सुनने में उपेक्षा करने की आवश्यकता नहीं क्योंकि समयानुसार अब उपाय तो करना ही होगा । क्योंकि— शल्य ने ( घोड़े के ) कोड़े और रास ( लगाम ) को छोड़ दिया है । अर्जुन-नामाङ्कित शरों से उसका शरीर चिह्नित हो गया है । रथ घोड़ों के द्वारा उसके मार्गों का परिचय होने के कारण धीरे-धीरे खींचा जा रहा है । वह आँसुओं से समाचार को बतलाता हुआ तथा कौरवों के हृदय में काँटे चुभोता हुआ ओछा ही रथ पर बैठकर सेना-शिविर को जा रहा है ॥ १०॥