वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 233, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१३ किं वा तेन कृतेन तैरिह कृतं यन्न प्रकाश्यं रणे । गान्धारी—जाद, एआइ तमम् । को दे सहाअत्तणं करिस्सदि । ( जात, एकाकी त्वम् । कस्ते साहाय्यं करिष्यति । ) एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः । साम्यं केवलमेतु दैवमद्यना निष्पाण्डवा मेदिनी ॥ ९ ॥ ( नेपथ्ये । कलकलानन्तरम् । ) भो भो योधाः, निवेदयन्तु भवन्तः कौरवेश्वराय, इदं महत्कदनं मम, प्रत्यक्षम् = समक्षम्, हतबान्धवाः = हताः बान्धवा येः, ते, परे = शत्रवः, रहः=विविक्ते, हन्तुम्, योग्याः, न, प्रत्यक्षमपकारकर्तुः प्रत्यक्षमेवापकारः कर्त्तव्य इति नीतिः । इह = जगति, रणे यत्, कृतम्, ( कर्म ) तैः = शत्रुभिः, प्रकाश्यम् = ज्ञाप्यम् ख्यापनीयम् न, भवतीति शेषः । तेन, कृतेन, कर्मणा, किं वा, न किमपी- त्यर्थः । तदेव कर्म करणीयं यच्छत्रुभिरपि प्रशंसनीयं भवेदिति भावः । तत्र वचन- मध्य एव गान्धारी आह—जातेति । सहायकाभावादेवं न करणीयमिति भावः । पुनदुर्योधनस्त्वाह—एकोऽहमिति । ( हे ) मातः । अहम्, भवतीसुतक्षयकरः, पुत्र- विनाशे हेतुत्वादिति भावः । अत एव एकः = असहायः तथा च असहायोऽहं किमपि कतुं न शक्नोमि तथापि भाग्यमेव सहायकं स्यादित्युच्यते साम्यमिति । ( जगतत्रय- क्षयकर इति पाठस्तु भ्रान्तिमत्तः साम्यं केवलमित्यादेरसङ्गत्वपत्तेः, न हि लोकत्रय- क्षये समर्थः दैवमपेक्षेत स्वयमेव तस्य बलवत्त्वादिति ध्येयम् । ) अरयः = शत्रवः, कियन्तः, केवलम्, दैवम् = भाग्यम्, साम्यम् = समताम्, एतु = प्राप्नोतु, अधुना, मेदिनी = पृथ्वी, निष्पाण्डवा = पाण्डवरहिता, भविष्यतीति शेषः । मत्कर्तृकपाण्डव- हननादिति भावः । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ कदनम् = भीषणम्, भयावहमित्यर्थः 'कदनं भीषणे पापे' इति विश्वः । अप्रिय- का वध करने के लिए मेरा रथ समर्थ नहीं है । उनकी ( शत्रुओं की ) भाँति सङ्ग्राम में प्रच्छन्नता से जो कार्य नहीं किया तो उस कार्य करने से क्या प्रयोजन ? । गान्धारी—पुत्र ! तुम निस्सहाय हो कौन तुम्हारी सहायता करेगा ? दुर्योधन—माताजी ! आपके पुत्रों का विनाश कराने वाला मैं एक हूँ, विपक्षी ( शत्रु ) कितने हैं (अर्थात् अधिक हैं) इस समय केवल विधाता दोनों के समान हो जाय तो बस, वसुन्धरा को पाण्डवों से शून्य समझना चाहिए ॥ ९ ॥ ( नेपथ्य में कलकलध्वनि के पश्चात् ) अरे अरे शूरवीरो ! आप लोग कौरवनरेश से निवेदन कर दीजिए कि यह महान् अनर्थ