वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 232, कुल 355 में से
संदर्भ में पढ़ें२१२ वेणीसंहारं नाटकं धृतराष्ट्रः-वत्स सञ्जय, ज्ञायतामति भैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् । दुर्योधनः-तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किञ्चिदत्याहितं न श्रावयति तावदेवाज्ञापय मां सङ्ग्रामावतरणाय । गान्धारी-जाद, मुहुत्तं दाव मं मन्दभाइणीं समस्ससिहि । (जात, मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।) धृतराष्ट्रः-वत्स, यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रती- घातोपायश्चिन्त्यताम् । दुर्योधनः - प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः जननी = भीतजनोद्वेगोत्पादिका, इयम्, भूमिरित्यन्वयः । क्वचित्तु अभूमिरियमेवं- विधानां भीरुजनानामिति पाठः । तत्र अभूमिः = अस्थानम् । कारणेनेति-महत्कारणमस्य भवेदित्यर्थः । भवितव्यमिति भावे तव्यप्रत्ययः । पराङ्मुखम् = विपरीतम् अनिष्टकारकमित्यर्थः । अत्याहितम् = महाभीतिः अनर्थमित्यर्थः । 'अत्याहितं महाभीति'रित्यमरः । रहः प्रतिघातोपायः = 'एकान्ते विनाशोपायः छद्मना हन्यतामित्यर्थः । अन्वयः - मम, प्रत्यक्षम्, हतबान्धवाः, परे, रहः, हन्तुम्, योग्याः, न, इह, रणे, यत्, कृतम्, (कर्म] तैः, प्रकाश्यम्, न (भवति) तेन, कृतेन, किं वा, (हे) मात:, अहम् , भवतीसुतक्षयकरः, एकः, अरयः, कियन्तः केवलम्, दैवम्, साम्यम् एतु, अधुना मेदिनी, निष्पाण्डवा, (भविष्यति) ॥ ९ ॥ वीरजनयोग्योऽयं विचारो नेत्याह-प्रत्यक्षमिति । धृतराष्ट्र-बेटा संजय ! अत्यन्त प्रचण्ड तथा शीघ्रता से बढ़ते चले आते हुए हाहाकार का पता लगाओ । इसमें कोई प्रधान कारण अवश्य होगा । दुर्योधन-पिताजी; क्षमा कीजिए विधाता हम लोगों के विपरीत अवश्य है । जब तक और कोई दूसरी विपत्ति नहीं श्रुतिगोचर होती तब तक ही मुझे युद्ध में उतरने के लिए आज्ञा प्रदान कीजिए । गान्धारी-क्षण मात्र तो मुझ अभागिनी को आश्वासित करो ? धृतराष्ट्र-पुत्र ! यद्यपि तुमने, युद्ध का विचार दृढ़ कर लिया है तथापि गुप्त रूप से शत्रुविनाश का उपाय सोचते रहो । दुर्योधन-मेरे कुटुम्ब का वध प्रत्यक्ष रूप से किया गया है अतः अप्रत्यक्ष रूप से शत्रुओं