वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 236, कुल 355 में से
संदर्भ में पढ़ें२१६ वेणीसंहारं नाटकं दुर्योधनः- हा वयस्य कर्ण ( इति मोहमुपगतः । ) गान्धारी-जाद, समस्सस समस्सस । (जात, समाश्वसिहि । समाश्वसिहि ।) संजयः- समाश्वसितु देवः । धृतराष्ट्रः- भो कष्टं कष्टम्- भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । वत्सस्य च सुहृच्छूरो राधेयः सोऽप्ययं गतः ॥ १२ ॥ वत्स, समाश्वसिहि समाश्वसिहि । ननु भो हतविधे, अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाऽहम् । अन्वयः - भीष्मे, द्रोणे, च निहते, यः, वत्सस्य, सुहृद् शूरः च, अवलम्बनम्, आसीत्, सः, राधेयः, अप्ययम् गतः ॥ १२ ॥ भीष्म इति । भीष्मे, द्रोणे, च, निहते, एतादृशवीरयोर्निपातेऽपि आसीदाशा यत् कर्णो विजेत्ता स्यात्सोऽपि नास्तीत्याह-य आसीदिति । यः, वत्सस्य = पुत्रस्य सुहृत् शूरः, च राधेयः = कर्णः, अवलम्बनम् = आश्रयः आसीत्, स. = कर्णः, अप्ययम् = विनाशम् गतः । अनुष्टुप् छन्दः ॥ १२ ॥ हतविधे = दुर्देव, 'विधिर्विधाने दैवेऽपि' इत्यमरः । अन्वयः - अनुभूतशतपुत्रविपत्तिदुखः, अन्धः, अहम्, भार्यया, सह, शोच्याम्, दशाम्, उपगतः, अशेषितसुहृद्गुरुबन्धुवर्गे, अस्मिन्, दुर्योधने, अपि, भवता, हि, निराशः, कृतः ॥ १३ ॥ अन्धोऽनुभूतेति । अनुभूतशतपुत्रविपत्तिदुःखः = अनुभूतं शतपुत्राणां विपत्ति- दुःखं विनाशजन्यशोको येन सः, भार्यया = स्त्रिया गान्धार्या, सह, अन्धः अहम्, शोच्याम् = शोचनीयाम् दशाम्, उपगतः = प्राप्तः । तथापि तव सन्तोषो न जातो दुर्योधन-हाय ! मित्र कर्ण ! (ऐसा कहकर मूर्च्छित हो जाता है) गान्धारी-बेटा ! धैर्य धारण करो, धैर्य धारण करो । संजय-महाराज ! धैर्य रखिये, धैर्य रखिये । धृतराष्ट्र-विपत्ति ! विपत्ति !! भीष्म और द्रोण के मारे जाने के पश्चात् मेरे पुत्र का परम मित्र, वीर कर्ण जो सहायक था वह भी अब समाप्त हो गया ॥ १२ ॥ पुत्र ! धैर्य धारण करो । अरे क्रूर विधाता ! तुमने मुझ अन्धे को, जो सौ पुत्रों के नाश से दुःखित है तथा धर्मपत्नी के साथ