वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 237, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१७ तस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे दुर्योधनेऽपि कृतो भवता निराशः ॥ १३ ॥ वत्स दुर्योधन, समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च । दुर्योधनः- ( लब्धसंज्ञः । ) अयि कर्ण कर्णसुखदां प्रयच्छ मे गिरमुद्गिरन्निव मुदं मयि स्थिराम् । सत्तताऽवियुक्तमकृताऽप्रियं प्रिय वृषसेनवत्सले ! विहाय यासि माम् ॥ १४ ॥ हे हतविधे इत्याह - अस्मिन्निति । अशेषितसुहृद्गुरुबन्धुवर्गे = अशेषितः अनवशिष्टः सुहृद्गुरुबन्धूनां वर्गः समुदायः यस्य तस्मिन्, सर्वेषां विनाशादिति भावः । अस्मिन्, दुर्योधनेऽपि, भवता = हतविधिना, हि = निश्चयेन निराशः = आशारहितः अनाश्रयः, कृतः अत्र काव्यलिङ्गमलङ्कारः । वसन्ततिलका छन्दः ॥ १३ ॥ लब्धसञ्ज्ञः - प्राप्तचेतन्यः विगतमूर्च्छ इत्यर्थः । अन्वयः - अयि, कर्ण, मयि, स्थिराम्, मुदम्, उद्गिरन्, इव, कर्णसुखदाम्, गिरम् मे प्रयच्छ, (हे) प्रिय, वृषसेनवत्सल, सततावियुक्तम्, अकृताप्रियम्, माम्, विहाय, यासि ॥ १४ ॥ अयि कर्ण मे = मह्यम्, गिरम् = वाणीम्, प्रयच्छ = देहि, कीदृशीं गिरमित्याह- कर्णसुखदाम् = श्रवणप्रीतिजनिकां, क इव, मयि = दुर्योधने, स्थिराम्, मुदम् = प्रीतिम्, उद्गिरन् = उद्बमन्, हे प्रिय = मित्र, सततावियुक्तम् = सततम् अवि- युक्तम्, सर्वदा, एकत्र स्थितम् । एतेन मम त्यागस्त्वानुचित इति ध्वनितम् । एकत्र स्थितावपि कृतानिष्टोऽहमित्यपि नेत्याह = अकृताप्रियमिति । अकृताप्रियम् = अस- म्पादिनानिष्टम्, तया चैतादृशमित्रस्य परित्यागे स्वयमेव सम्बोधनद्वारा बीजमाह- वृषसेनवत्सलेति । यतस्त्वं वृषसेने स्निग्धः वृषसेनस्तु स्वर्गंतोऽस्तस्त्वमपि तत्रैव दयनीय दशा को प्राप्त हुआ है, मित्र, गुरु और कुटुम्बियों के वर्ग के समाप्त हो जाने पर [ अवशिष्ट ] इस दुर्योधन के विषय में हताश कर दिया है ॥ १३ ॥ बेटा दुर्योधन ! धैर्य रखो, और तपस्विनी माता को धैर्य प्रदान करो ! दुर्योधन - ( चेतना को प्राप्त होकर ) अये कर्ण ! चिरस्थायी आनन्द की वर्षा करते हुए मुझे श्रुतिमधुर उत्तर दो । सर्वदा मुझ से भिन्न न रहने वाले तथा अहित न करने वाले ऐ वृषसेनप्रिय ! मेरा परित्याग कर क्यों जा रहे हो ? अर्थात् सर्वदा मेरे साथ रहकर मधुर भाषण करते हुए मेरे उपकार में लीन रहा करते थे अब पुत्र के स्नेह के कारण मुझे छोड़कर क्यों जा रहे हो ? ॥ १४ ॥