वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 287, कुल 355 में से
संदर्भ में पढ़ें२६८ वेणीसंहार नाटकं वानामेकस्यापि नैव क्षमः सुयोधनः शङ्के बाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये, पश्य— क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि । स्वस्त्यस्तूदधतधार्तराष्ट्रनलिनीनागाय वत्साय मे शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥१३॥ सुयोधनः, नैव, क्षमः = समर्थ इत्यन्वयः । अनेन = दुर्योधनेन, ( सह ) शङ्के = सन्देह्मि, गदायुद्धं वृकोदरो विजयी स्यान्न वेति सन्देह इति भावः । अन्वयः—रणे, क्रोधोद्गूर्णगदस्य, मारुतेः, सदृशः ( अन्यः ) न, अस्ति, सत्यम् पुनः, देवे, सीरिणि, यथा, कृतहस्ता ( तथा ) इयम्, कौरव्ये, मे, उद्धतधार्तराष्ट्र नलिनीनागाय, वत्साय, स्वस्ति, अस्तु, अहम्, तस्य, सुयोधनेन, समरम्, शङ्के इतरेषाम् न, एव, ( शङ्के ) ॥ १३ ॥ सन्देहमेवाह—क्रोधोद्गूर्णेति । रणे = सङ्ग्रामे, क्रोधोद्गूर्णगदस्य = क्रोधेन उद्गूर्णा उद्यता गदा येन तस्य, मारुतेः = भीमस्य, सदृशः = तुल्य ( अन्यः ) नास्ति ( इति ) सत्यम्, सत्यमित्यर्थस्वीकारे प्रयुज्यते : पुनः = यद्यप्येवं तथापि, देवे = भगवति, सीरिणि = सीरः हलमस्यास्ति सीरी वलभद्रः 'अत इनठनावि'तीन्प्रत्ययः । यथा, कृतहस्तता = हस्तकौशलम् ( तथा ) इयं = कृतहस्तता, कौरव्ये = दुर्योधने अस्तीति शेषः । अतएव संशय इति भावः । मे = मम, उद्धतधार्तराष्ट्रनलिनीनागाय= उद्धतः उत्कटो यो धार्तराष्ट्रः स एव नलिनी कमलिनी तस्याः नागाय हस्तिन इव, वत्साय = भीमाय, स्वस्ति = मङ्गलम्, अस्तु । नलिन्या विध्वंसकहस्तीव धार्तराष्ट्र विध्वंसको भीमो भवत्विति भावः : अहम्, तस्य = भीमस्य, सुयोधनेन, सह, समरं = सङ्ग्रामम्, शङ्के, इतरेषाम् = अस्मदादीनां समरं नैव शङ्के अन्यस्य विजये संशय एव नास्तीत्यर्थः । अत्र द्वितीये पूर्णोपमा, तृतीये रूपकम्, चतुर्थे उत्प्रेक्षाबोधकशङ्के=शब्दप्रयोगेऽपि नास्ति तस्याः सम्भवः । अत्र सम्भावनाया अभावात् वस्तुनो वास्तविकत्वात् । शार्दूलविक्रीडितं छन्दः ॥ १३ ॥ प्राप्त कर सकता मुझे आशङ्का होती है—गदायुद्ध भीम का ही इसके साथ चल रहा है। अयि क्षत्रियवंशसमुद्भवे ! देखिए— यह सत्य है कि क्रोध से गदा उठा लेने पर युद्धस्थल में वायुपुत्र भीमसेन के समान कोई नहीं है परन्तु भगवान् रेवतीरमण [बलराम] की तरह दुर्योधन भी गदायुद्ध मे सिद्ध- हस्त हैं। असंभ्य कौरवरूपी कमलिनी के लिए गजराज मेरे प्रिय अनुज का कल्याण हो ।