वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 288, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] - प्रबोधिनी-प्रकाश-द्वयोपेतम् २६६ ( नेपथ्ये ) तृषितोऽस्मि भोस्तृषितोऽस्मि सम्भावयतु कश्चित्सलिलच्छायासम्प्र- दानेन माम् । युधिष्ठिरः-- ( आकर्ण्य ।) कः कोऽत्र भोः । ( प्रविश्य ।) कञ्चुकी - आज्ञापयतु देवः युधिष्ठिरः- ज्ञायतां किमेतत् । कञ्चुकी - यदाज्ञापयति देवः । ( इति निष्क्रम्य, पुनः प्रविश्य ।) देव, क्षुण्मानांतथिरुपस्थितः । युधिष्ठिरः- शीघ्रं प्रवेशय । नेपथ्ये - जवनिकान्तर्भूमी । तृषितः = पिपासितः, सलिलच्छायाप्रदानेन = सलिलञ्च छाया चेत्यनयोर्द्वन्द्वः इति सलिलच्छाये तयोः प्रदानेन, अत्र 'जातिरप्राणिनामि'त्येकवद्भावस्तु न, तस्य द्रव्यजातीयानामेव द्वन्द्वे प्रवृत्तेः, अत्र च्छायाया अद्रव्यत्वाद् । माम् = मुनिम्, सम्भा- वयतु = सान्त्वयतु । अत्र = द्वारे, कः कः, अस्तीति शेषः । एतत् = भोः तृषितोऽस्मीत्यादिवचनम्, क्षुण्मान् = बुभुक्षितः, अतिथिः = प्राघुणः, ( पाहुन ) इति प्रसिद्धः 'प्राघुणस्त्व- तिथिर्रद्वयो'रिति त्रिकाण्डशेषः । मेरा अनुमान है—'सुयोधन के साथ उसी का संग्राम हो रहा है किसी दूसरे व्यक्ति का नहीं' ॥ १३ ॥ [ नेपथ्य में ] प्यासा हूँ । अरे भाई मैं प्यासा हूँ । कोई जल और छाया ( आश्रय ) प्रदान करके मुझे सन्तुष्ट करे । युधिष्ठिर -- ( सुनकर ) कौन, कोई यहाँ है ! ( प्रवेशकर ) कञ्चुकी - आज्ञा दीजिए, महाराज ! युधिष्ठिर - देखो, यह क्या बात है ? कञ्चुकी - महाराज की आज्ञा शिरोधार्य । (चला जाता है और फिर लौट आता है) महाराज, बुभुक्षित [ भूखा हुआ ] अभ्यागत आया है । युधिष्ठिर - शीघ्र ही बुला लाओ ।