वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 289, कुल 355 में से
संदर्भ में पढ़ें२७० वेणीसंहारं नाटक कञ्चुकी—यदाज्ञापयति (इति निष्क्रान्तः ।) (ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः । राक्षसः—(आत्मगतम् ।) एषोऽपि चार्वाको नाम राक्षस, सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि । (प्रकाशम् ।) तृषितोऽस्मि । सम्भावयतु मां कश्चिज्जलच्छायाप्रदानेन । (इति राज्ञः समीपमुपसर्पति ।) (सर्वे उत्तिष्ठन्ति ।) युधिष्ठिर—मुने अभिवादये । राक्षसः—अकालोऽयं समुदाचारस्य जलप्रदानेन सम्भावयतु माम् । युधिष्ठिरः—मुने इदमासनम् । उपविश्यताम् । राक्षसः—(उपविश्य ।) ननु भवताऽपि क्रियतामासनपरिग्रहः । युधिष्ठिर—(उपविश्य ।) कः कोऽत्र भोः, सलिलमुपनय । (प्रविश्य गृहीतभृङ्गारः ।) आत्मगतम् = अश्राव्यम् । वञ्चयितुं = प्रतारयितुम्, प्रकाशं = सर्वश्राव्यम्, उपसर्पति = गच्छति । समुदाचारस्य=सत्कारव्यवहारस्य, अकालः = असमयः, तत्र हेतुगर्मवावयमाह= जलप्रदानेनेति । यतः पिपासुरस्म्यतः पिपासाशान्तिरेव कर्तव्येति भावः । आसनपरिग्रहः = आसनग्रहणम्, आसन उपविश्यतामित्यर्थः उपनय = आनय कञ्चुकी—अच्छा जो आज्ञा महाराज ! (जला जाता है) (इसके अनन्तर मुनि के स्वरूप में चार्वाक राक्षस का प्रवेश) राक्षस—(मन ही मन) वह भी मैं सुयोधन का अभिन्न हृदय [मित्र] चार्वाक नाम का राक्षस पाण्डवों को प्रतारित [ठगना] करने के लिए घूम रहा हूँ। (प्रकट रूप से) मुझे प्यास लगी है कोई जल और आश्रयस्थान देकर मुझे शान्ति दे ! (यह कहकर राजा के समीप जाता है) (सब लोग उठ खड़े होते हैं) युधिष्ठिर—तपस्विन् ! नमस्कार । राक्षस—इस प्रकार के व्यवहार का समय नहीं है । जल पिलाकर ही मुझे सन्तुष्ट कीजिए । युधिष्ठिर—महात्मन् ! यह आसन है बैठ जाइए । राक्षस—(बैठकर) अच्छा आप भी आसन पर बैठ जाइए । युधिष्ठिर—(बैठकर) कोई ? जल लाओ । (जलपात्र लेकर प्रवेश करता है)