वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 291, कुल 355 में से
संदर्भ में पढ़ें२७२ वेणीसंहारं नाटकं द्रौपदी - बुद्धिमदिए, वीएहि महेसि इमिणा तालविन्तेण ( बुद्धिमत्तिके, वीजय महर्षिमेतेन तालवृन्तेन । ) (चेटी तथा करोति ) राक्षसः - भवति, अनुचितोऽयमस्मासु समुदाचारः । युधिष्ठिरः - मुने, कथय कथमयं भवान्परिश्रान्तः । राक्षसः - मुनिजनसुलभेन कौतूहलेन तत्रभवता महाक्षत्रियाणां द्वन्द्व- युद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातप- स्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि । स्पृशतीति सरस्वती शिशिरतरङ्गस्पृक् 'स्पृशोऽनुदके क्विन्नि'ति क्विन्प्रत्ययः । 'शिशिरः स्यादृतोर्भेदे तुपारे शीतलेऽन्यवदि'ति विश्वः । मरुता = वायुना विगत- क्लमः = त्यक्तश्रमः । तालवृन्तेन = तालस्येव वृन्तमस्येति तालवृन्तम्, तेन, व्यजनेनेत्यर्थः । महर्षिम् = तपस्विनम्, वीजय = वायुमन्तं कुरु । तथा करोति = वीजयति । भवति = चेदि !, अस्मासु = मुनिजनेषु, समुदाचारः = व्यजनचालनादिव्यापारः । परिश्रान्तः = सवलमः । मुनिजनसुलभेन = ऋषिजनसाधारणेन, कौतूहलेन = कौतुकेन, कौतूहलं कौतु- कन्चे'त्यमरः । तत्रभवतां = वीरश्रेष्ठनाम्, द्वन्द्वयुद्धं = युग्मसंग्रामम्, 'द्वन्द्वं कलह- युग्मयो'रित्यमरः । पर्यटामि = भ्रमामि, समन्तपञ्चकम् = देशविशेषम्, शरदातपस्य = शरदि अश्विनकार्तिकाभ्यामृतौ स आतपः रौद्रः ( धूप ) इति प्रसिद्धः । तस्य, बल- वत्तया = तीक्ष्णतया, अपर्याप्तम् = अपूर्णम्, गदायुद्धम् = गदया संग्रामम्, अर्जुनसुयो- धनयोः = किरीटिदुर्योधनयोः । जल ग्राह्य नहीं । अच्छा, छाया से और सरस्वती की शीतल लहरों का स्पर्श किए हुए इस वायु से ही थकावट दूर करूँगा । द्रौपदी- बुद्धिमत्तिके ! इस पंखे से महात्माजी को हवा कर दो । (चेटी वैसा ही करती हैं) राक्षस- हम लोगों का इस तरह का स्वागत (स्त्रियों के द्वारा तपस्वियों की सेवा सुश्रूषा ) उचित नहीं । युधिष्ठिर - महर्षे ! कहिए, क्यों आप इतना थक गए हैं ? राक्षस- तपस्वियों के लिए कौतूहल का होना स्वाभाविक है अतएव मैं शूरवीर क्षत्रियों का मलयुद्ध देखने के लिए समन्तपञ्चक के चारों ओर घूम रहा हूँ । आज शरदऋतु के