भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 296, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 296

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७७ द्रौपदी—( स्वगतम् ।) तदो तदो । (ततस्ततः ।) राक्षसः—(स्वगतम् ।) कथं पुनरनयोर्लब्धसंज्ञतामपनयामि । (प्रकाशम् ।) सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः सङ्गरः । आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता यामासाद्य कुरुत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ १५ ॥ युधिष्ठिरः—हा वत्स, वृकोदर ! ( इति मोहमुपगतः ।) द्रौपदी—हा णाह भीमसेण, हा महं परिभवपडोआरपरिच्चत्तजीव्विज, सत्वरम्, आगतः, तस्य, अग्रतः, सङ्गरः चिरम्, अभूत्, तु, हलिना, प्रियशिष्यताम्, आलम्ब्य, रहसि, संज्ञा, आहिता, कुरुत्तमः, याम्, आसाद्य, दुःशासनारौ प्रतिकृतिम्, गतः ॥ १५ ॥ बलरामसाहाय्येन दुर्योधनो विजयमृदित्याह—तस्मिन्निति । तस्मिन्—अति विकटे, कौरवभीमयोः, गुरुगदाघोरध्वनौ = गुर्वी महती चासौ गदा तस्य घोरध्वनिः विकटशब्दो यत्र तस्मिन्, संयुगे = संग्रामे, सति, श्लोकस्य मध्य एव द्रौपदीवचनं ततस्ततः राक्षसचनं कथमिति । सीरी = बलभद्रः, सत्वरम् = शीघ्रम्, आगतः । युद्धात्पूर्वमेव तीर्थयात्रार्थं गतो बलभद्रस्तस्मिन्नेव काले दैवात्कुरुक्षेत्र आगत इति भावः । तस्य = बलभद्रस्य अग्रतः = पुरस्तात्, चिरम्, सङ्गरः = युद्धम् 'सङ्गरो युधि चापदि इति मेदिनी । अभूत्, तु = किन्तु, हलिना = बलभद्रेण, प्रियशिष्य- ताम् = प्रियः शिष्यो यस्य, अथवा प्रियश्चासौ शिष्यः, तस्य भावः, ताम्, दुर्योधनो बलरामस्य प्रधानशिष्य आसीदित्याधिकः स्नेहस्तत्रेति भावः । आलम्ब्य= संगृह्य, रहसि=विविक्ते, संज्ञा=सङ्केतः, आहिता=दत्ता, कुरुत्तमः=कुरुषु श्रेष्ठः, याम्=संज्ञां, सङ्केतम्, आसाद्य=प्राप्य, दुःशासनारौ = दुःशासनशत्रौ, भीम इत्यर्थः । प्रतिकृतिम् प्रतिक्रियां, दुःशासनहननस्येत्यादिः गतः = प्राप्तः । दुःशासनाव्रजेन भीमो हत इति भावः शार्दूलविक्रीडितं छन्दः ॥ १५ ॥ द्रौपदी— शीघ्र ही उठकर) कहो फिर क्या हुआ ! राक्षस—( मन ही मन ) किस प्रकार इन दोनों को मूर्च्छित करूँगा (प्रकटरूप से) शीघ्र ही बलराम पहुँच गये । उनके समक्ष प्रभूतकाल तक संग्राम होता रहा । हलधर ने शिष्य का पक्षपात करके एकान्त में संकेत किया । जिसे प्राप्त करके कौरवेश्वर (दुर्योधन) दुःशासन के शत्रु का प्रतीकार (बदला लेना ] करने के लिए कटिबद्ध हो गए ॥ १५ ॥ युधिष्ठिर—हा ! वत्स भीम !! ( कह कर मूर्च्छित हो जाते हैं ) द्रौपदी—हा ! नाथ !! भीमसेन !!! हाय, मेरे अरमान का बदला लेने में अपने प्राण के

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 296, कुल 355 में से · BharatKosha