वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 315, कुल 355 में से
संदर्भ में पढ़ें२९६ वेणीसंहारं नाटकं दायादानामपि तु भवने यादवानां कुले वा कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ १५ ॥ गच्छ जयधर, अस्मच्छरीरस्पृष्टिकया शापितेन भवताऽकालहीनमिद- वश्यमावेदनीयम् । द्रौपदी—हला बुद्धिमदिए, भणाहि मंह वअणेण पियसही सुभद्दाम्- अज्ज वच्छाए उत्तराए आवण्णसत्ताएं चउत्थो मासो वट्टदि । सव्वधा- णाभिकुले तं णिक्खिवेसि । कदा विइदो परलोगगदस्स ससुरउलस्स अम्हा- णंवि सलिलविन्दुदो भविस्सदि'त्ति । ( हला बुद्धिमत्तिके, भण, मम वचनेन प्रियसखीं सुभद्राम् - अद्य वत्साया उत्तराया आपन्नसत्त्वायाश्चतुर्थो मासो वर्तते । सर्वथा नाभिकुले तां निक्षेप्स्यसि । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलविन्दुदो भविष्यति' इति । ) बान्धवानाम्, 'दायादौ सुतबान्धवौ' इत्यमरः । अपितु, भवने = गृहे; अपित्वित्य- नेनारुचिरत आह—यादवानामिति । यादवानाम् = यदुवंशजातानाम्, कुले भवने 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । 'भवने च तनौ' इति मेदिनी । वा, तत्रा- प्यकारणवैरिणो बलरामाद्भये, कान्तारे = दुर्गभूमौ, वा, कृतवसतिना = कृतनिवासेन, त्वया, शरीरम्, रक्षणीयम् = पालनीयम् । कथमपि शरीररक्षा कर्तव्येति भावः । अत्र विस्मरणम्प्रति हेतो श्रुतिविशदयेति पदार्थगतत्वेन काव्यलिङ्गम्, शरीररक्षा प्रति हेतोर्वाक्यार्थत्वेनापरं काव्यलिङ्गम्, उभयोः संसृष्टिरलङ्कारः । मन्दाक्रान्ता छन्दः ॥ १५ ॥ अस्मच्छरीरस्पृष्टिकया = मम शरीरस्पर्शेन, शापितेन = दत्तशपथेन अकालही- नम् = कालेन न हीनमित्यकालहीनम्, असूर्यम्पश्येतिवदसमर्थसमासः । समयमनति- क्रम्येत्यर्थः । किं भण इत्याह—वत्साया इति । उत्तरायाः = अभिमन्युस्त्रियः, प्रतिपन्नस्य = प्राप्तस्य, गर्भस्य = भ्रूणस्य, 'गर्भो भ्रूणोऽर्भके कुक्षी' इति मेदिनी । चतुर्थो मास इत्यन्वयः । इतो लोकात् = मर्त्यलोकात, श्वशुरकुलस्य = पाण्डुवंशस्य, सलिलविन्दुदः = जलबिन्दोर्दाता । जयन्धर ! जाओ मेरे अङ्गों का स्पर्शपूर्वक आपको शपथ है कि समय न व्यतीत होने पाये, यह अवश्य कह दीजिएगा । द्रौपदी—अरी बुद्धिमत्तिके ! मेरी ओर से प्रिय सखी सुभद्रा से कहना—'आज पुत्री उत्तरा के गर्भधारण का चौथा महीना है । किसी भी प्रकार उसे आप पितृकुल में