वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 316, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९७ युधिष्ठिरः- ( साश्रम् । ) भो कष्टम् । शाखारोधस्थगितवसुधामण्डले मण्डिताशे पीनस्कन्धे सुसदृशमहामूलपर्यङ्कवन्धे । दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्म!ङ्कुरेऽस्मि- न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ २६ ॥ अन्वयः-शाखारोधस्थगितवसुधामण्डले, पीनस्कन्धे, मण्डिताशे सुसदृशमहा- मूलपर्यङ्कवन्धे, सुमहति तरौ, दैवात्, दग्धे, तस्य, अस्मिन्, सूक्ष्माङ्कुरे, छायया, अर्थी, अयम्, जनः, कमपि, आशाबन्धम्, कुरुते ॥ २६ ॥ पाण्डुवंशरूपमहावृक्षस्य विनाशे उत्तरार्गभरूपाइङ्कुर आशाबन्धम् वृथैवेत्याह- शाखारोधेति । शाखारोधस्थगितवसुधामण्डले = शाखाया द्रुमांशस्य रोधेन प्रसारेण अथवा शाखैव रोधः आवरणम्, तेन करणभूतेन स्थगितम् आच्छादितम् अवरुद्धं वा वसुधामण्डलं भूमण्डलं येन तस्मिन्, पीनस्कन्धे = स्थूलप्रकाण्डे, मण्डिताशे = भूषितदिशे, सुसदृशमहामूलपर्यङ्कवन्धे = सुसदृशं दृढं यन्महामूलम् तस्य पर्यङ्कवन्धः परितोऽङ्कवन्धनम्, आलवालः ( कियारी ) इति प्रसिद्धः, यस्मिन्, तस्मिन्, सुमहति= विशाले, तरौ = वृक्षे, एतादृशैश्वर्यशालिपाण्डुवंशरूपे, दैवात् = दुरदृष्टात् दुर्भाग्या- दित्यर्थः । दग्धे = विनष्टे, सति, तस्य = पाण्डुवंशवृक्षस्य, अस्मिन् = साम्प्रतिके न तु भाविकालेऽपि स्थायिनि, तस्यापि दुर्योधनेन विनाशसम्भवादिति भावः । सूक्ष्मा- ङ्कुरे = उत्तरार्गभरूपे, छायया=मुखप्रयोजकत्वेन, अर्थी=इच्छुः, अयम् = दुःखसन्तप्तः, जनः = द्रौपदीरूपः, कमपि=सलिलविन्दुदो भविष्यतीत्याकारकम्, आशाबन्धम् = तृष्णाश्रयम्, कुरुते, भीमादिपराक्रमिपाण्डुवंशस्य विनाशे, उत्तरार्गभे आशाबन्धनं वृथैवेति भावः । मन्दाक्रान्ता छन्दः ॥ २६ ॥ [ सुभद्रा के पितृकुल यादवों के यहाँ अथवा उत्तरा के पितृकुल विराट के यहाँ ] रख दीजिए, कदाचित् यहाँ से परलोक में गये हुए श्वशुरकुल के पुरुषों और हमलोगों के लिए जलबिन्दु देने वाला हो जाय । युधिष्ठिर- ( आँसू बहाते हुए ) हाय बड़े कष्ट की बात है । संयोगवश अतीव विशाल वृक्ष के, जिसकी शाखाओं के आवरण से भूमण्डल आच्छा- दित हो गया था जिसने दिशाओं को अलंकृत कर दिया था, जिसका स्कन्ध [ तना ] अधिक मोटा था, जिसका आलवाल [ जड़ में जल देने का स्थान जो मिट्टी ऊँचा करके पानी रुकने के लिए बनाया जाता है ] उसके मूल [ जड़ ] के अनुरूप ही विस्तृत [ बड़ा ] था, भस्म हो जाने पर उसके अणुमात्र के इस अङ्कुरप्ररोह में कोई भी छायाभिलाषी व्यक्ति जिस प्रकार आशा करता है उसी प्रकार पाण्डवों के, जिनके प्रताप से समस्त भूमण्डल व्याप्त हो