भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 319, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 319

३०० वेणीसंहारं नाटकं हली हेतुः सत्यं भवति मम वत्सस्य निधने तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः । अतः क्रोधः कार्यो न खलु मयि चेत्प्रेम भवतो वनं गच्छेर्मा गाः पुनरकरणां क्षात्रपदवीम् ॥ ८ ॥ कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । ) गदायुद्धमर्जुनसुयोधनयोरागत इति राक्षसेनोक्तत्वाद्युद्धस्थानवसानादर्जुनस्यापि विजयः सम्भाव्यतेऽत आह—यदि कदाचिदिति । अन्वयः—मम, वत्सस्य, निधने, हली, सत्यम्, हेतुः, भवति, तथापि, एषः, ते, सहजसुहृदः मधुरिपोः, भ्राता, अतः, क्रोधः, न, खलु, कार्यः, भवतः, प्रेम, मयि; चेत्, ( तदा ) वनम्, गच्छेः, पुनः, अकरुणाम्, क्षात्रपदवीम् मा, गाः ॥ २८ ॥ जये सति वलभद्रे भीमविनाशजन्यक्रोधो न कर्तव्य इत्याह—हलीति । मम, वत्सस्य = भीमस्य, निधने = मरणे, हली = बलरामः, यद्यपि, सत्यम् = तथ्यम्, हेतुः = कारणम्, भवति = विद्यते तथापि = एवं सत्यपि, एषः = बलरामः, ते = तवार्जुनस्य, सहजसुहृदः = स्वाभाविकमित्रस्य, कृष्णार्जुनयोर्नरनारायणरुपत्वात्तयोः सनातनमित्रत्वमित्युक्तं सहजसुहृद इति । मधुरिपोः = कृष्णस्य एतेन कृष्णेऽधिक- बलवत्त्वमीश्वरत्वं वा बोधितम् । तथा च 'अहो दुरन्ता बलवद्विरोधिता' इति न्यायेन तस्य भ्रातुर्द्वेषायोग्यत्वं वा दर्शितम् । भ्राता = सहोदरः, अस्ति, अतः, क्रोधः—कोपः, न खलु = नैव, खलुशब्दोऽत्रिनिषेधद्योतनार्थम् । 'निषेधवाक्यालङ्कारे विलासानुनये खलु' इति कोशात्खलुशब्दस्य निषेधार्थकत्वेन अभावोभावस्य प्रतियोगिरूपत्वेन भीम- वधप्रतीकारार्थं बलरामे क्रोधः कार्यं एवेति व्याख्यानन्तु न युक्तम्, तथापीत्यादिग्रन्थ- विरोधात्, 'अथात आदेशो नेति' इत्यादौ तथानवगमाच्च । भवतः, मयि = युधिष्ठिरे, प्रेम = स्नेहः, चेत्, तदा, त्वमित्यस्याध्याहारः । त्वम्, वनम् = अरण्यम्, गच्छेः = व्रजेः, पुनः = भूयः, अकरुणाम् = दयाशून्याम्, क्षात्रपदवीम् = क्षत्रियमार्गः युद्धादि- कमित्यर्थः । मा = न, गाः = प्राप्स्यसि स्वीकरिष्यसीत्यर्थः । 'माङि लुङ्' इति माङ्योगे लुङ् । अत्र क्रोधाकरणे तृतीयचरणार्थो हेतुरिति हेतोर्वाक्यार्थत्वेन काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ २८ ॥ सच ही मेरे वत्स ( भीम ) के संहार में हलधर ( बलराम ) कारण हैं। तो भी ये तुम्हारे स्वाभाविक मित्र मधुसूदन ( श्रीकृष्ण ) के भाई हैं। अतः यदि मुझ में तुम्हारा स्नेह हो तो ( इन पर ) क्रोध न करना। वन का आश्रय ले लेना, परन्तु निर्दयतापूर्ण क्षत्रियोचित मार्ग का अवलम्बन न करना ॥ १८ ॥ कंचुकी—महाराज की जो आज्ञा । ( चल पड़ता है )'