वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 324, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०५ वितानेष्वप्येवं तव मम च सोमे विधिरभू- न्निवापाम्भः पूर्वं पिवसि कथमेवं त्वमधुना ॥ ३१ ॥ कृष्णे, त्वमपि देहि सलिलाञ्जलिम् । द्रौपदी -हञ्जे बुद्धिमदिए, उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमत्तिके, उपनय मे सलिलम् । ) ( चेटी तथा करोति ) द्रौपदी - ( उपसृत्य जलाञ्जलि पूरयित्वा । ) महाराज, कस्स सलिलं देम्हि । ( महाराज, कस्य सलिलं ददामि । ) युधिष्ठिरः- तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् । वर्तमानसामीप्ये लट् । वितानेषु = 'ऋतुविस्तारयोःस्त्री' इत्यमरः । सोमे = सोमयागे, सोमरसपाने वा, एवम् = मम पश्चात् विधिः=क्रिया, अभूत्, सर्वं कार्यं त्वया मत्प- श्चादेव सम्पादितमिति भावः । अधुना, कथम् एवम् = वैपरीत्येन, निवापाम्भः= मृताय देयं जलम्, पूर्वम्=मत्तः प्राक्, त्वम्, पिवसि । साम्प्रतं कथं विपरीतमाचरित- मिति भावः। मन्मरणानन्तरं तव मरणं समुचितमिति गूढाभिप्रायः । अत्र काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ ३१ ॥ सलिलाञ्जलिम् = जलाञ्जलिम् । कस्येति-सम्बन्धविवक्षया षष्ठी । अथवा व्याकुलीभूता द्रौपदी कस्मै इत्यस्य स्थाने कस्येति प्रयुक्तम् । अन्वयः-दिवम्, सहसा, गच्छते, तस्मै, पूर्वम्, जलम्, देहि, येन, रुदितेन, अपि, गान्धार्या, समीकृत । यदर्थं साम्प्रतं जलदानस्यावश्यकता पूर्वं तस्मै देहीत्याह-तस्मा इति । दिवम् = स्वर्गम्, सहसा=सपदि, गच्छते, शतृप्रत्ययान्तस्य ङयि रूपमिदम् । तस्मै = भीमाय, अब इस तिलजल को इस प्रकार मुझ से प्रथम क्यों पान कर रहे हो ? ॥ ३१ ॥ कृष्णे [ द्रौपदि ] ? तुम भी सलिलाञ्जलि प्रदान करो । द्रौपदी -अरी बुद्धिमत्तिके, मुझे जल ला दे । ( चेटी जल लाकर देती है ) द्रौपदी - ( समीप आकर जल से अञ्जलि भरकर ) महाराज, किसे जलप्रदान करूँ ? युधिष्ठिर - ऐ कृष्णे, अकस्मात् स्वर्ग में जाने वाले उसे (भीम को) जल दो जिसने माताजी को रुदन २० वे०