वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 33, कुल 355 में से
संदर्भ में पढ़ें१२ वेणीसंहारं नाटकं रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ७ ॥ ( नेपथ्ये । साक्षेपम् ) आः दुरात्मन् ! वृथामङ्गलपाठक ! शैलूषापसद ! — लाक्षागृहानलविषान्नसभाप्रवेशैः दित्यर्थः, पाण्डुतनयाः = पाण्डुपुत्राः युधिष्ठिरप्रभृतयः, माधवेन = कृष्णेन, सह=साकं, 'साकं सत्रा समं सहै'त्यमरः । नन्दन्तु = आनन्दं प्राप्नुवन्तु, रक्तप्रसाधितभुवः= रक्तेन अनुरागेण । भावे क्तः । प्रसाधिता अधीनीकृता, भूः पृथ्वी यैः ते रक्तप्रसाधि- तभुवः अत एव क्षतविग्रहाः = विनष्टकलहाः, अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । सभृत्याः = सदासाः, कुरुराजसुताः = दुर्योधनप्रभृतयः, स्वस्थाः=सुस्थिताः, भवन्तु । पक्षे, अरीणां प्रशमात् शत्रूणां विनाशात् निर्वाणवैरदहनाः, पाण्डुतनयाः माधवेन सह नन्दन्तु । रक्तप्रसाधितभुवः = रुधिरव्याप्तभूमयः, क्षतविग्रहाः = छिन्न- शरीराः. 'शरीरं वर्ष्म विग्रह' इत्यमरः कुरुराजसुताः, स्वस्थाः=मृताः, 'सुस्थिते च मृते स्वस्थ' इति विश्वः । भवन्तु = सन्तु । अत्र रक्तप्रसाधितविग्रहाद्यनेकश्लिष्टवचसः सत्त्वात् द्वितीयं पताकास्थानम् । तदुक्तं दर्पणे— वचः सातिशयं श्लिष्टं नानावन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ इति ॥ नाटके पताकास्थानकमवश्यं योज्यं तदुक्तं तत्रैव— पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥ इति ॥ केचित्तु —द्व्यर्थता यत्र वाक्यानां श्लेषेणार्थः प्रतीयते । शब्दभङ्ग्यानुपात्तोऽपि श्लेषगण्डः स उच्यते ॥ इति भरतवचनादत्र श्लेषगण्डाख्यं नाटकाङ्गममिति वदन्ति । अत्र वैरदहनेत्य- त्रोपमाऽलङ्कारः । रक्तप्रसाधितेत्यत्र वस्तुध्वनिः । वसन्ततिलका छन्दः । ज्ञेयं वसन्त- तिलकं तभजा जगो ग इति लक्षणात् ॥ ७ ॥ नेपथ्ये साक्षेपम् = रङ्गभूमौ सतिरस्कारम् । वृथामङ्गलपाठक ! = मुधामङ्गलवाचक ! शैलूषापसद !=नटाधम ! अन्वय – लाक्षागृहानलविषान्नसभाप्रवेशैः, नः प्राणेषु, वित्तनिचयेषु, च, प्रहृत्य, हो चुका है, श्रीकृष्ण भगवान् के साथ प्रसन्न रहें और विग्रह-विहीन कौरव, जिन्होंने प्रेम से समस्त भूमण्डल पर अधिकार कर लिया है, अपने कर्मचारियों के साथ स्वस्थ रहें ॥७॥ ( नेपथ्य में घबराते हुए ) अरे ! पापी दुष्ट ! व्यर्थ मङ्गलपाठकारी ! नटों में नीच