वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 32, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११ सूत्रधारः—( सवैलक्ष्यस्मितम् ) मारिष, शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । पारिपार्श्विकः—न खलु न जाने ! किन्त्वमङ्गलाशंसयाऽस्य वा वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् । सूत्रधारः—मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयम्प्रतिपन्न- दौत्येन सन्धिकारिणा कंसारिणा । यथा हि— निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । 'शान्तं पापमनिर्देश्य' इति वचनात् । मारिष=आर्य !, 'आर्ये मारिषमार्षकौ' इति शब्दार्णवः । शरत्समयवर्णना- शंसया = शरत्कालकथनप्रसङ्गेन, 'हंसा धार्तराष्ट्रा' इति व्यपदिश्यन्ते=धार्तराष्ट्रपदेन हंसा गृह्यन्त इत्यर्थः । तदा कथमुच्यते शान्तं पापमिति । न खलु न जाने=जानाम्येव, नञ्द्वयेन ज्ञानमेव बोध्यते । खलुशब्दो वाक्या- लङ्कारे । वः = युष्माकम्, अस्य वचनस्य अमङ्गलाशंसया = अशुभकथनेन, अशि- वार्थप्रतिपादकत्वेनेत्यर्थः । यत्सत्यमित्यसम्भाव्यार्थसूचकम् तस्य च कम्पनक्रियाया- मन्वयः । तथा च असम्भाव्यरूपमनाश्रयमिव मम हृदयं जातमिति भावः । स्वयम्प्रतिपन्नदौत्येन = स्वयमेव प्रतिपन्नम् अङ्गीकृतं, दौत्यम् दूतता प्रपञ्चक्रिया येन तेन, सन्धिकारिणा = सन्धिकारकेण कंसारिणा = कृष्णेन, इदानीं, ननु=निश्चयं, सर्वमेव = निखिलमेव, अमङ्गलं प्रतिहतम् = विनाशितमित्यन्वयः । अन्वय - अरीणाम्, प्रशमात्, निर्वाणवैरदहनाः, 'पाण्डुतनयाः, माधवेन सह, नन्दन्तु, रक्तप्रसाधितभुवः, क्षतविग्रहाः, च, सभृत्याः, कुरुराजसुताः, स्वस्थाः, भवन्तु ॥ निर्वाणेति—निर्वाणवैरदहनाः = वैरं दहन इवेति वैरदहनः, निर्वाणः==अस्तं- गतः वैरदहनः येषां, तत्र हेतुः अरीणां प्रशमादिति तथा च शत्रूणां शान्तिप्रापणा- सूत्रधार—( लज्जित सा कुछ हँसता हुआ ) आर्य्य ! मैने शरद्वर्णन के प्रकरण में धार्तराष्ट्र का प्रयोग राजहंसों के लिये किया है फिर आप मुझे निषेध क्यों कर रहे है । पारिपार्श्विक—भाई ! ऐसा नहीं कि मैने समझा ही न हो किन्तु सम्भावना न होने पर भी अमङ्गलप्रतिपादक वाक्य की आशङ्का ही में मेरा हृदय दहल सा गया है । सूत्रधार—आर्य ! इस समय श्रीकृष्ण भगवान् ने सन्धि कराने के लिये दूतभाव स्वीकार कर सम्पूर्ण विघ्नों को शान्त कर दिया है क्योंकि :— सन्धि हो जाने के कारण शत्रुओं के साथ पाण्डुपुत्र, जिनका अग्निरूपी विद्वेष शान्त