वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 31, कुल 355 में से
संदर्भ में पढ़ें१० वेणीसंहारं नाटकं समयमाश्रित्य प्रवर्त्यतां संगीतकम् . तथा ह्यस्यां शरदि, सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ६ ॥ पारिपार्श्विकः—(ससम्भ्रमम् ।) भाव शान्तं पापम् । प्रतिहतममङ्गलम् । सप्तच्छदः = सप्तपर्णः, 'छतिवन' 'इति प्रसिद्धः । कुमुदम्=कैरवम्, "सिते कुमुदकैरवे' इत्यमरः । कोकनदं = रक्तोत्पलम्, काशकुंसुमम् = तृणविशेषपुष्पम्, एतेषां द्वन्द्वः तेषां परागः । चन्द्रातपनक्षत्रग्रहक्रौञ्चहंसाश्च सप्तच्छदकुमुदकोकनदकाशकुसुमपरागश्चेति पुनर्द्वन्द्वः । तैः धवलितम् दिङ्मण्डलम् दिशामण्डलम् यस्मिन् तम् । एतस्य शरद्स- मयेऽन्वयः। स्वादु=मधुरं जलं यस्मिन् असौ स्वादुजलः स जलाशयः यस्मिन् तं शरद्स- मयम्=शरदृतुकालम्, आश्रित्य=आधारं कृत्वा, प्रवर्त्यतां सङ्गीतकं=विधीयतां गीतम् । अन्वय-कालवशाद्, सत्पक्षाः, मधुरगिरः, प्रसाधिताशाः, मदोद्धतारम्भाः, धार्तराष्ट्राः, मेदिनीपृष्ठे, निपतन्ति ॥ ६ ॥ प्रबन्धप्रतिपाद्यस्य बीजं श्लेषेणाह=सत्पक्षा इति । कालवशात्=शरत्प्रभावाद् पक्षे मृत्युवशात्, 'कालो मृत्यो महाकाल' इति मेदिनी । सत्पक्षाः = उत्तमच्छदाः, पक्षे उत्तमसेनान्वन्तः, मधुरगिरः = मधुरशब्दाः, पक्षे उत्तमवाचः, प्रसाधिताशाः = भूषित- दिशाः पक्षे स्वायत्तीकृतदिङ्मण्डलाः, मदोद्धतारम्भाः=मदेनोत्कटव्यवसायाः पक्षे अहङ्कारेणोत्कटाचाराः, धार्तराष्ट्राः=हंसविशेषाः पक्षे दुर्योधनादयः, मेदिनीपृष्ठे = पृथ्वीतले, निपतन्ति = मानसस आगच्छन्ति पक्षे विनिपातं प्राप्नुवन्ति, मृत्युमुखं- प्रपद्यन्त इत्यर्थः । भारतसङ्ग्रामे दुर्योधनविनाशः स्यादिति भावः । अत्र शरद्वर्णनस्य प्राकरणिकत्वान्न श्लेपालङ्कारः, उभयार्थयोरवाच्यत्वात् दीपकं न चोपमाध्वनिः काव्यस्य वस्तुध्वनिपरकत्वादतः शब्दशक्तिमूलको वस्तुध्वनिः । आर्याच्छन्दः ॥ ६ ॥ ससम्भ्रमम्=सोद्वेगम् । भाव=विद्वन् । शान्तं पापमिति समुदायः अवक्तव्येऽर्थे । दिशायें सफेद हो गई हैं एवं नदी और तालाबों का जल मीठा हो गया है, सङ्गीत प्रारम्भ कीजिये क्योंकि इस शरत्काल में :- सुन्दर पक्ष-सम्पन्न, मधुरालापी तथा हर्ष के कारण शीघ्रगामी राजहंस दिशाओं को सुशोभित करते हुए समय पाकर भूतल पर उतर रहे हैं अथवा अच्छे-अच्छे प्रभावशाली राजाओं की सहायता से सम्पन्न, वाणीमात्र से मधुरभाषी (किन्तु हृदय तो हलाहल विष से भरा हुआ है) सम्पूर्ण दिशाओं पर अधिकार जमाने वाले तथा पागल की भाँति कार्य करने वाले अर्थात् उच्छृङ्खल स्वभाव के धृतराष्ट्र पुत्र (कौरव) मृत्यु के वश होकर पृथ्वी पर गिर रहे हैं ॥ ५ ॥ पारिपार्श्विक-(व्याकुल होकर) हैं ! यह क्या भाई ऐसा न कहो अमङ्गल का नाश हो ।