वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
१० वेणीसंहारं नाटकं समयमाश्रित्य प्रवर्त्यतां संगीतकम् . तथा ह्यस्यां शरदि, सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ६ ॥ पारिपार्श्विकः—(ससम्भ्रमम् ।) भाव शान्तं पापम् । प्रतिहतममङ्गलम् । सप्तच्छदः = सप्तपर्णः, 'छतिवन' 'इति प्रसिद्धः । कुमुदम्=कैरवम्, "सिते कुमुदकैरवे' इत्यमरः । कोकनदं = रक्तोत्पलम्, काशकुंसुमम् = तृणविशेषपुष्पम्, एतेषां द्वन्द्वः तेषां परागः । चन्द्रातपनक्षत्रग्रहक्रौञ्चहंसाश्च सप्तच्छदकुमुदकोकनदकाशकुसुमपरागश्चेति पुनर्द्वन्द्वः । तैः धवलितम् दिङ्मण्डलम् दिशामण्डलम् यस्मिन् तम् । एतस्य शरद्स- मयेऽन्वयः। स्वादु=मधुरं जलं यस्मिन् असौ स्वादुजलः स जलाशयः यस्मिन् तं शरद्स- मयम्=शरदृतुकालम्, आश्रित्य=आधारं कृत्वा, प्रवर्त्यतां सङ्गीतकं=विधीयतां गीतम् । अन्वय-कालवशाद्, सत्पक्षाः, मधुरगिरः, प्रसाधिताशाः, मदोद्धतारम्भाः, धार्तराष्ट्राः, मेदिनीपृष्ठे, निपतन्ति ॥ ६ ॥ प्रबन्धप्रतिपाद्यस्य बीजं श्लेषेणाह=सत्पक्षा इति । कालवशात्=शरत्प्रभावाद् पक्षे मृत्युवशात्, 'कालो मृत्यो महाकाल' इति मेदिनी । सत्पक्षाः = उत्तमच्छदाः, पक्षे उत्तमसेनान्वन्तः, मधुरगिरः = मधुरशब्दाः, पक्षे उत्तमवाचः, प्रसाधिताशाः = भूषित- दिशाः पक्षे स्वायत्तीकृतदिङ्मण्डलाः, मदोद्धतारम्भाः=मदेनोत्कटव्यवसायाः पक्षे अहङ्कारेणोत्कटाचाराः, धार्तराष्ट्राः=हंसविशेषाः पक्षे दुर्योधनादयः, मेदिनीपृष्ठे = पृथ्वीतले, निपतन्ति = मानसस आगच्छन्ति पक्षे विनिपातं प्राप्नुवन्ति, मृत्युमुखं- प्रपद्यन्त इत्यर्थः । भारतसङ्ग्रामे दुर्योधनविनाशः स्यादिति भावः । अत्र शरद्वर्णनस्य प्राकरणिकत्वान्न श्लेपालङ्कारः, उभयार्थयोरवाच्यत्वात् दीपकं न चोपमाध्वनिः काव्यस्य वस्तुध्वनिपरकत्वादतः शब्दशक्तिमूलको वस्तुध्वनिः । आर्याच्छन्दः ॥ ६ ॥ ससम्भ्रमम्=सोद्वेगम् । भाव=विद्वन् । शान्तं पापमिति समुदायः अवक्तव्येऽर्थे । दिशायें सफेद हो गई हैं एवं नदी और तालाबों का जल मीठा हो गया है, सङ्गीत प्रारम्भ कीजिये क्योंकि इस शरत्काल में :- सुन्दर पक्ष-सम्पन्न, मधुरालापी तथा हर्ष के कारण शीघ्रगामी राजहंस दिशाओं को सुशोभित करते हुए समय पाकर भूतल पर उतर रहे हैं अथवा अच्छे-अच्छे प्रभावशाली राजाओं की सहायता से सम्पन्न, वाणीमात्र से मधुरभाषी (किन्तु हृदय तो हलाहल विष से भरा हुआ है) सम्पूर्ण दिशाओं पर अधिकार जमाने वाले तथा पागल की भाँति कार्य करने वाले अर्थात् उच्छृङ्खल स्वभाव के धृतराष्ट्र पुत्र (कौरव) मृत्यु के वश होकर पृथ्वी पर गिर रहे हैं ॥ ५ ॥ पारिपार्श्विक-(व्याकुल होकर) हैं ! यह क्या भाई ऐसा न कहो अमङ्गल का नाश हो ।
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११ सूत्रधारः—( सवैलक्ष्यस्मितम् ) मारिष, शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । पारिपार्श्विकः—न खलु न जाने ! किन्त्वमङ्गलाशंसयाऽस्य वा वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् । सूत्रधारः—मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयम्प्रतिपन्न- दौत्येन सन्धिकारिणा कंसारिणा । यथा हि— निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । 'शान्तं पापमनिर्देश्य' इति वचनात् । मारिष=आर्य !, 'आर्ये मारिषमार्षकौ' इति शब्दार्णवः । शरत्समयवर्णना- शंसया = शरत्कालकथनप्रसङ्गेन, 'हंसा धार्तराष्ट्रा' इति व्यपदिश्यन्ते=धार्तराष्ट्रपदेन हंसा गृह्यन्त इत्यर्थः । तदा कथमुच्यते शान्तं पापमिति । न खलु न जाने=जानाम्येव, नञ्द्वयेन ज्ञानमेव बोध्यते । खलुशब्दो वाक्या- लङ्कारे । वः = युष्माकम्, अस्य वचनस्य अमङ्गलाशंसया = अशुभकथनेन, अशि- वार्थप्रतिपादकत्वेनेत्यर्थः । यत्सत्यमित्यसम्भाव्यार्थसूचकम् तस्य च कम्पनक्रियाया- मन्वयः । तथा च असम्भाव्यरूपमनाश्रयमिव मम हृदयं जातमिति भावः । स्वयम्प्रतिपन्नदौत्येन = स्वयमेव प्रतिपन्नम् अङ्गीकृतं, दौत्यम् दूतता प्रपञ्चक्रिया येन तेन, सन्धिकारिणा = सन्धिकारकेण कंसारिणा = कृष्णेन, इदानीं, ननु=निश्चयं, सर्वमेव = निखिलमेव, अमङ्गलं प्रतिहतम् = विनाशितमित्यन्वयः । अन्वय - अरीणाम्, प्रशमात्, निर्वाणवैरदहनाः, 'पाण्डुतनयाः, माधवेन सह, नन्दन्तु, रक्तप्रसाधितभुवः, क्षतविग्रहाः, च, सभृत्याः, कुरुराजसुताः, स्वस्थाः, भवन्तु ॥ निर्वाणेति—निर्वाणवैरदहनाः = वैरं दहन इवेति वैरदहनः, निर्वाणः==अस्तं- गतः वैरदहनः येषां, तत्र हेतुः अरीणां प्रशमादिति तथा च शत्रूणां शान्तिप्रापणा- सूत्रधार—( लज्जित सा कुछ हँसता हुआ ) आर्य्य ! मैने शरद्वर्णन के प्रकरण में धार्तराष्ट्र का प्रयोग राजहंसों के लिये किया है फिर आप मुझे निषेध क्यों कर रहे है । पारिपार्श्विक—भाई ! ऐसा नहीं कि मैने समझा ही न हो किन्तु सम्भावना न होने पर भी अमङ्गलप्रतिपादक वाक्य की आशङ्का ही में मेरा हृदय दहल सा गया है । सूत्रधार—आर्य ! इस समय श्रीकृष्ण भगवान् ने सन्धि कराने के लिये दूतभाव स्वीकार कर सम्पूर्ण विघ्नों को शान्त कर दिया है क्योंकि :— सन्धि हो जाने के कारण शत्रुओं के साथ पाण्डुपुत्र, जिनका अग्निरूपी विद्वेष शान्त
१२ वेणीसंहारं नाटकं रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ७ ॥ ( नेपथ्ये । साक्षेपम् ) आः दुरात्मन् ! वृथामङ्गलपाठक ! शैलूषापसद ! — लाक्षागृहानलविषान्नसभाप्रवेशैः दित्यर्थः, पाण्डुतनयाः = पाण्डुपुत्राः युधिष्ठिरप्रभृतयः, माधवेन = कृष्णेन, सह=साकं, 'साकं सत्रा समं सहै'त्यमरः । नन्दन्तु = आनन्दं प्राप्नुवन्तु, रक्तप्रसाधितभुवः= रक्तेन अनुरागेण । भावे क्तः । प्रसाधिता अधीनीकृता, भूः पृथ्वी यैः ते रक्तप्रसाधि- तभुवः अत एव क्षतविग्रहाः = विनष्टकलहाः, अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । सभृत्याः = सदासाः, कुरुराजसुताः = दुर्योधनप्रभृतयः, स्वस्थाः=सुस्थिताः, भवन्तु । पक्षे, अरीणां प्रशमात् शत्रूणां विनाशात् निर्वाणवैरदहनाः, पाण्डुतनयाः माधवेन सह नन्दन्तु । रक्तप्रसाधितभुवः = रुधिरव्याप्तभूमयः, क्षतविग्रहाः = छिन्न- शरीराः. 'शरीरं वर्ष्म विग्रह' इत्यमरः कुरुराजसुताः, स्वस्थाः=मृताः, 'सुस्थिते च मृते स्वस्थ' इति विश्वः । भवन्तु = सन्तु । अत्र रक्तप्रसाधितविग्रहाद्यनेकश्लिष्टवचसः सत्त्वात् द्वितीयं पताकास्थानम् । तदुक्तं दर्पणे— वचः सातिशयं श्लिष्टं नानावन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ इति ॥ नाटके पताकास्थानकमवश्यं योज्यं तदुक्तं तत्रैव— पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥ इति ॥ केचित्तु —द्व्यर्थता यत्र वाक्यानां श्लेषेणार्थः प्रतीयते । शब्दभङ्ग्यानुपात्तोऽपि श्लेषगण्डः स उच्यते ॥ इति भरतवचनादत्र श्लेषगण्डाख्यं नाटकाङ्गममिति वदन्ति । अत्र वैरदहनेत्य- त्रोपमाऽलङ्कारः । रक्तप्रसाधितेत्यत्र वस्तुध्वनिः । वसन्ततिलका छन्दः । ज्ञेयं वसन्त- तिलकं तभजा जगो ग इति लक्षणात् ॥ ७ ॥ नेपथ्ये साक्षेपम् = रङ्गभूमौ सतिरस्कारम् । वृथामङ्गलपाठक ! = मुधामङ्गलवाचक ! शैलूषापसद !=नटाधम ! अन्वय – लाक्षागृहानलविषान्नसभाप्रवेशैः, नः प्राणेषु, वित्तनिचयेषु, च, प्रहृत्य, हो चुका है, श्रीकृष्ण भगवान् के साथ प्रसन्न रहें और विग्रह-विहीन कौरव, जिन्होंने प्रेम से समस्त भूमण्डल पर अधिकार कर लिया है, अपने कर्मचारियों के साथ स्वस्थ रहें ॥७॥ ( नेपथ्य में घबराते हुए ) अरे ! पापी दुष्ट ! व्यर्थ मङ्गलपाठकारी ! नटों में नीच
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १३ प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ८ ॥ ( सूत्रधारपाश्विकावाकर्णयतः ) पारिपार्श्विकः—भाव, कुत, एतत् । सूत्रधारः—( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसन्धान- ममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिवन्निव नः पाण्डववधूपरिधानकेशान्, आकृष्य, धार्तराष्ट्राः, मयि, जीवति, ( सति ) स्वस्थाः भवन्ति ॥ ८ ॥ यदुक्तं सूत्रधारेण कुरुराजसुताः स्वस्था भवन्त्विति तन्मयि जीवति न भवितु- मर्हतीत्याह—लाक्षागृहेति । लाक्षागृहानलविषान्नसभाप्रवेशैः = लाक्षानिर्मितं गृहं लाक्षागृहं । मध्यमपदलोपिसमासः । तस्मिन् यः अनलः अग्निरिति लाक्षागृहानलः, विषेण संमिश्रमन्नं विषान्नं, मध्यमपदलोपिसमासः । सभाप्रवेशः समितिप्रवेशः, द्यूताद्यर्थमिति भावः । एषां द्वन्द्वः तैः, नः = अस्मान्, वित्तनिचयेषु = धनसमूहेषु, प्राणेषु च = असुषु च, उभयत्र सप्तम्यर्थोऽवच्छेदकत्वम् तथाच धनसमूहावच्छेदेन प्राणावच्छेदेन च अस्मान् प्रहृत्येत्यर्थः । प्रहृत्य = निहत्य, जतुगृहाग्निविषसम्पृक्त- लड्डुकाभ्यां प्राणेषु प्रहारः, द्यूतार्थं सभाप्रवेशेन धनेषु प्रहार इति भावः । पाण्डव- वधूपरिधानकेशान् = पाण्डुपुत्रस्त्रीवस्त्रकचान्, आकृष्य, धार्तराष्ट्राः = धृतराष्ट्रपुत्राः, मयि = भीमे, जीवति = प्राणिति, प्राणान् धारयति सतीत्यर्थः । स्वस्थाः = सुस्थिताः, भवन्ति । न कथमपि दुर्योधनादयः स्वस्था भविष्यन्तीति भावः । वसन्ततिलकम् छन्दः ॥ ८ ॥ कुरुसन्धानममृष्यमाणः = कुरुभिः सन्धिमस्रहमानः, पृथुललाटतटघटितविकट- भ्रुकुटिना = पृथु महत् यल्ललाटं तस्य तटे घटिता रचिता विकटभ्रुकुटिः, येन, तेन । जिन धृतराष्ट्र के पुत्रों ने लाख निर्मित महल, विष मिश्रित आहार तथा द्यूतक्रीडार्थ सभा- गृह प्रवेशों के द्वारा हम लोगों के प्राण और धन के अपहरण की चेष्टा करके द्रौपदी के वस्त्र और केशों को खींचा है वे मेरे जीते रहते हुए स्वस्थ हों ? कदापि नहीं ? ( सूत्रधार और पारिपार्श्वक दोनों सुनते हैं ) पारि०—यह कहाँ से••••••? सूत्रधार—(पीछे की ओर देखकर) अरे ! यह क्या !! भगवान् श्रीकृष्ण के चले जाने पर कौरव-सन्धि को सहन न करके क्रुद्ध होकर विशाल ललाट तक भौंहें चढ़ाकर दृष्टि-
१४ वेणीसंहारं नाटकं सर्वान्सहदेवेनानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते। तन्न युक्तमस्य पुरतः स्थातुम्। तदित आवामन्यत्र गच्छावः। ( इति निष्क्रान्तौ । ) ( ततः प्रविशति सहदेवेनानुगम्यमानः क्रुद्धो भीमसेनः । ) भीमसेनः—'आः दुरात्मन् वृथामङ्गलपाठक शैलूषापसद' ( 'लाक्षा- गृहानल' )—( १।८ इत्यादि पुनः पठति । ) सहदेवः—( सानुनयम् । ) आर्य ! मर्षय मर्षय । अनुमतमेव नो भरत- इदं दृष्टिपातेनेत्यस्य विशेषणम् । 'पृथु बृहद्विशालं पृथुलं महदि'त्यमरः । दृष्टिपातेन= विलोकनेन, इत एव = इहैव, सार्वविभक्तिकस्तसिल् । प्रस्तावना = आमुखम्, यदुक्तम्— सूत्रधारेण सहिताः संलापं तत्र कुर्वते । नटी विदूषको वापि पारिपार्श्विक एव वा । आमुखं नाम तस्यैव सैव प्रस्तावना मता । इति । प्रस्तावना च पञ्चधा । तदुक्तं दर्पणे— उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा । प्रवर्त्तकावलगिते पञ्च प्रस्तावनाभिदाः ॥ इति ॥ अत्र 'निर्वाणवैरदहना' इति सूत्रधारोक्तवाक्यस्यार्थमादाय भीमस्य प्रवेशात्कथो- द्घातरूपा प्रस्तावना यदुक्तम्— सूत्रधारस्य वाक्यं वा समादायार्थमेव वा । भवेत् पात्रप्रवेशश्चेत् कथोद्घातः स उच्यते । पटाक्षेपेण पात्रप्रवेशोऽतः प्रविशतीत्युच्यते । आर्य = श्रेष्ठ ! मर्षय = क्षमस्व । अस्य, भरतपुत्रस्य = नटस्य, वचनम्-वाक्यम्, प्रक्षेप से हम लोगों को पान कर जाते हुए की भाँति, भीमसेन इधर ही आ रहे हैं पीछे- पीछे सहदेव भी हैं। अतः इनके सामने खड़ा रहना अच्छा नहीं। आओ, यहाँ से दूसरे स्थान पर चलें। ( यह कह कर दोनों चले जाते हैं ) इति प्रस्तावना । ( इसके अनन्तर क्रुद्ध भीमसेन और उनके पीछे सहदेव प्रवेश करते हैं ) भीमसेन —अरे दुष्ट ! दुराचारी !! व्यर्थपाठकारी, नटनीच ! ( 'लाक्षागृहानल' श्लोक पुनः पढ़ते हैं ) सहदेव —( विनीतभाव से आर्य ! क्षमा, क्षमा, इस नट का कथन हम लोगों के
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १५ पुत्रस्यास्य वचनम् । पश्य । ( ‘निर्वाणवैरदहनाः’ ( १।७ ) इति पठित्वान्यथा- भिनयति । ) भीमसेनः-( सोपालम्भम् ) न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । सन्धेयास्ते भ्रातरो युष्माकम् । सहदेवः-( सरोषम् । ) आर्य, धृतराष्ट्रस्य तनयान्कृतवैरान् पदे पदे । राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ ९ ॥ भीमसेनः-एवमिदम् । अतः एवाहमद्यप्रभृति भिन्नो भवद्ग्यः । पश्य । नः = अस्माकम् अनुमतमेवेत्यन्वयः । अनुमती हेतुश्च नटकर्तृकमरणसूचकाभिनयः । ते = दुर्योधनादयः, भ्रातरः, सन्धेयाः = संश्लेष्याः । अन्वय-राजा, चेत्, निषेद्धा, न स्यात् ( तदा ) तव, अनुजः पदे पदे, कृत- वैरान्, धृतराष्ट्रस्य तनयान्, कः, क्षमेत ॥ ९ ॥ युधिष्ठिरानुरोधादेव न किमपि करोमि सन्धित्सुस्तु नेत्याह-धृतराष्ट्रस्येति । राजा-युधिष्ठिरः, चेत्=यदि, निषेद्धा=निषेधकः, न स्यात् । तदा इत्यस्याध्या- हारः । तदा तव=भीमस्य, अनुजः = अवरजः, कः, धृतराष्ट्रस्य = कुरुराजस्य, तनयान् = पुत्रान्, पदे पदे=प्रतिस्थानम्, कृतवैरान्=कृतविद्वेषान्, "वैरं विरोधो विद्वेषः' इत्यमरः । क्षमेत = सहेत, न कोऽपीत्यर्थः । अत्र हेतोर्वाक्यार्थत्वेन काव्य- लिङ्गमलङ्कारः । पथ्यावक्त्रं छन्दः । 'युजोश्चतुर्थतोर्जेनं पथ्यावक्त्रं प्रकीर्तितम्' ॥६॥ अद्यप्रभृति = अद्यारभ्य, भवद्ग्यः = युधिष्ठिरादिभ्यः, भिन्नः = पृथक् भवदी- यवचनानि न कर्तव्यानि मयेत्यर्थः । अत्र भेदाख्यं नाट्याङ्गं तदुक्तम्-भेदः संहति- भेदनम् ।' इति । अनुकूल ही है । देखियेः-( 'निर्वाणवैरदहनाः' इस पद्य को पढ़कर दूसरे प्रकार का भावाभिनय करते हैं अर्थात् कौरव धराशायी हों इस भाव का अभिनय करते हैं ) । भीमसेन-( निन्दायुक्त वाक्य के साथ ) आपलोग कौरवों के अमङ्गल की कामना कदापि नहीं कर सकते आप लोगों के वे भाई तो सन्धि के पात्र हैं । सहदेव-( क्रोधपूर्वक ) आर्य्य ! धृतराष्ट्र के पुत्र पग-पग पर शत्रुता करते हैं । यदि बड़े भ्राता ( युधिष्ठिर ) निषेध न करें तो आपके कनिष्ठ भ्राताओं में से कौन सहन कर सकता है ? ॥ ९ ॥ भीमसेन-यह बात ! अतः आज से मैं भी आप लोगों से पृथक् हूँ । देखो-कौरवों के
१६ वेणीसंहारं नाटकं प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासन्धस्योरःस्थलमिव विरूढं पुनरपि क्रुधा सन्धिं भीमो विघटयति यूयं घटयत ॥ १० ॥ सहदेवः—(सानुनयम् ।) आर्य, एवमतिसम्भृतक्रोधेषु युष्मासु कदा- चित्खिद्यते गुरुः । अन्वयः —मम, शिशोः, एव, यत् कुरुभिः वैरम्, प्रवृद्धम्, तत्र, आर्यः, न, हेतुः, न भवति, किरीटी, न च युवाम्, जरासन्धस्य, विरूढम्, उरःस्थलम्, इव, भीमः, क्रुधा, पुनरपि, सन्धिम्, विघटयति, यूयम्, घटयत ॥ १० ॥ प्रवृद्धमिति । मम = भीमस्य, शिशोरेव = बालकस्यैव यत् कुरुभिः वैरम् = विरोधः, प्रवृद्धम् = अधिकं जातम्, तत्र = तस्मिन् आर्यः = युधिष्ठिरः, हेतुः = कारणम्, न भवति, किरीटी = अर्जुनः, न च युवाम् = नकुलसहदेवौ हेतु, जरा- सन्धस्य = एतन्नामकस्य राज्ञः, विरूढम् उरःस्थलमिव = भिन्नं वक्षःस्थलमिव, 'उरो वत्सं च वक्षश्चे'त्यमरः । जरासन्धः प्रसवकाले द्विधाभूत आसीत् जराना- मकराक्षस्या द्वयोः सन्धिः कृतो भीमश्च पुनः, युद्धे द्विधा कृतवान् तेन जरासन्धस्य मृत्युरिति भावः । भीमः = वृकोदरः, क्रुधा = क्रोधेन, पुनरपि = भूयोऽपि, सन्धि = संश्लेपम्, विघटयति = वियोजयति, यूयं = युधिष्ठिरादयः, घटयत = योजयत । मया सन्धिविघातः कार्य इति भावः । अत्रोपमालङ्कारः । शिखरिणीछन्दः । लक्षण मुक्तं प्रथमश्लोके ॥ १० ॥ सानुनयम् = ससान्त्वनम् । गुरुः = युधिष्ठिरः 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः ।' साथ मेरी शत्रुता, जो शैशवकाल से ही बढ़ रही है उसमें न तो ज्येष्ठ भ्राता, न अर्जुन और न तुम दोनों [ सहदेव और नकुल ] कारण हो । [ देखो ] * जरासन्ध के विशाल वक्षःस्थल की भाँति इस सन्धि को क्रोध के साथ यह भीम विच्छेद करता है । तुम लोग [ भले ही ] सन्धि करो ॥ १० ॥ सहदेव—( विनयपूर्वक ) आर्य ! कदाचित् आप के इस प्रकार अधिक क्रुद्ध होने से बड़े भ्राता को क्षोभ न हो ।
- जरासन्ध—जन्म के समय इसका शरीर दो भागों में विभक्त था । यह प्रकृतिविरुद्ध होने के कारण परित्यक्त कर दिया गया । इसके दोनों भागों को एकत्रित करके जरा राक्षसी ने सी दिया जिससे पुनः यह एकाकार हो गया । इसी से इसका नाम जरासन्ध पड़ गया । इसे भीमसेन ने भगवान् श्रीकृष्ण के संकेतमात्र से पुनः दो भागों में विभक्त कर दिया था जिससे इसकी मृत्यु हो गई ।
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७ भीमसेनः—किं नाम कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति । पश्य— तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालत नयां वने व्याधैः सार्द्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ११ ॥ अत्र, आदिपदग्राह्यज्येष्ठभ्रातरि गुरुशब्दः । खेदं=परिदेव्यम्, अपि जानाति, न जानातीत्यर्थः । अन्वयः—तथाभूताम् पाञ्चालत नयाम् नृपसदसि, दृष्ट्वा, वने, व्याधैः, सार्द्धम्, वल्कलधरैः, सुचिरम्, उषितम्, विराटस्य, आवासे, अनुचितारम्भनिभृतम्, स्थितम्, मयि, खिन्ने (सत्यपि), गुरुः, अद्यापि, कुरुषु, खेदम्, न भजति ॥ ११ ॥ खेदकारणे सत्यपि युधिष्ठिरस्य खेदाभावं दर्शयति—तथाभूतामिति । तथाभूतां = रजस्वलां, आकृष्टकेशवस्त्राञ्च रजस्वलादिपदस्य वचनानर्हत्वात् रजस्वलादिपदेन न निर्देशः कृतः । पाञ्चालत नयां=द्रौपदीम्, नृपसदसि=राजसभायां, दृष्ट्वा=विलोक्य, स्त्रीगतदुःखदर्शनेन नितरां खेदयोग्यता दर्शिता । आत्मनि, भ्रातरि च दुःखं दर्श- यति-वने इति । वने = अरण्ये, व्याधैः=मृगयुभिः, सार्द्धम्=सह, वल्कलधरैः= त्वग्धरैः, अस्माभिरित्यर्थः । सुचिरं = बहुकालम्, उषितम् = निवासः कृतः, विरा- टस्य = विराटनामकनृपस्य, आवासे = गृहे, अनुचितारम्भनिभृतं=अनुचितारम्भेण, द्यूतसाहाय्यराचकताद्यनुष्ठानेन निभृतं = गुप्तं यथा स्यादेवम्, स्थितम् = स्थितिः कृता, अत्रेव दृष्ट्वेत्यस्य सम्बन्धः । परे तु स्थितमिति भावक्तान्तद्वितीयान्तं स्वीकृत्य खेदक्रियया भजनक्रियया च समानकर्तृत्वं स्थापयन्ति । एवम्भूतेन खेदकारणेन, मयि = भीमे, खिन्ने = सखेदे, सत्यपीति शेषः । गुरुः = आर्यो युधि- ष्ठिरः, अद्यापि = साम्प्रतमपि, कुरुषु = धृतराष्ट्रपुत्रेषु, खेदं = तापं, न भजति = न करोति । एवञ्च खेदाभावदर्शनेन युधिष्ठिरस्य खेदाज्ञानं दर्शितम् । अत्र खेदं प्रति भीमसेन—(हँसते हुए) क्यों ! बड़े भैया क्षुभित होंगे ? (क्रोध प्रकट करते हुए) प्रिय, क्या बड़े भैया को क्षुभित होने आता है ? देखो :— जब ज्येष्ठ भ्राता राजसभा में द्रौपदी की [केशाकर्षणरूप] दुर्दशा को, वल्कल [भूर्जपत्र] वस्त्र धारण करते हुए वन में कोलभिल्लों के साथ अधिक समय के निवास को, तथा विराट के यहाँ हास्यास्पद कार्य में नियुक्त होकर लुक-छिपकर जीवन व्यतीत करने को देखकर मेरे खिन्न होने पर भी कौरवों के विषय में क्षुभित नहीं हुए तो आज मुझसे क्षुभित होंगे ॥ ११ ॥ २ वे०
[Page Header: १८ वेणीसंहारं नाटकं]
तत्सहदेव, निवर्तस्व। एवं चापि चिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम्। सहदेवः—आर्य, किमिति। भीमसेनः— युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि। क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥ तथाभूतपाञ्चालतयादर्शनरूपैककारणस्य सत्त्वेऽपि 'खले कपोत' न्यायाद्वने व्याघ्रैः सार्द्ध' मित्याद्यनेककारणान्तराणामुपादानात्समुच्चयालंकारः। शिखरिणीछन्दः ॥११॥ तत् = तस्मात् सहदेव ! निवर्तस्व = निवृत्तो भव। चिरप्रवृद्धामर्षोद्दीपितस्य = चिरात् प्रवृद्धो यः अमर्षः क्रोधः तेन उद्दीपितस्य प्रज्वलितस्य। अन्वयः—युष्मच्छासनलङ्घनांहसि, मग्नेन, मया, स्थितम्, नाम, स्थिति- मताम्, अनुजानाम्, मध्ये, विगर्हणा, प्राप्ता नाम, क्रोधोल्लासितशोणितारुणगदस्य, कौरवान्, उच्छिन्दतः, मम, अद्य, एकम्, दिवसम्, गुरुः, न असि, अहम्, तव, विधेयः, न ॥ १२ ॥ विज्ञापनीयमेवाह—युष्मच्छासनेति। युष्मच्छासनलङ्घनांहसि = भवदीयाज्ञोल्ल- ङ्घनपापे, मग्नेन = निमग्नेन, मया = भीमेन, स्थितम्, नामेति प्राकाश्ये, इदं प्रकाशयामीत्यर्थः । स्थितिमताम् = ज्येष्ठाज्ञापालनरूपमर्यादावतां, अनुजानाम् = कनिष्ठभ्रातॄणाम् अपि, मध्ये अन्तरे 'न्याय्यावलग्नयोर्मध्यमन्तरे चाधमे त्रिषु' इति विश्वः। विगर्हणा = निन्दा, प्राप्ता = समासादिता, नाम सम्भावयामि यद्विगर्हणा प्राप्तेति । क्रोधोल्लासितशोणितारुणगदस्य-क्रोधेन = कोपेन, उल्लासिता = उत्थापिता, शोणितेन = रुधिरेण, अरुणा = रक्ता गदा येन, सः तस्य, कौरवान् = धार्तराष्ट्रान्, उच्छिन्दतः = निःशेषयतः, मम = भीमस्य, अद्य = इदानीम्, 'इदानीमद्य' इति अतः सहदेव, लौट जाओ, और चिरकाल में सञ्चित क्रोध से उद्दीप्त भीम की ओर से राजा युधिष्ठिर से कहो। सहदेव—आर्य, क्या कहें ? भीमसेन—इस प्रकार सूचित करो—'आपके आज्ञोल्लङ्घनरुपी पाप जल में डूबता हुआ मैं सम्भावना करता हूँ कि आज्ञापालनारत भाइयों के बीच निन्दनीय समझा जाऊँ। क्रोध के साथ रुधिर-से लिप्त गदा को घुमाते हुए तथा कौरवों का संहार करते हुए आज एक दिन के लिए न तो आप मेरे ज्येष्ठ भ्राता हैं और न मैं आपका आज्ञाकारी कनिष्ठ भ्राता'।
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १९ ( इत्युद्धतं परिक्रामति । ) सहदेवः—( तमेवानुगच्छन्नात्मगतम् । ) अये, कथमार्यः पाञ्चाल्याश्चतुः- शालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । ( इति स्थितः । ) भीमसेनः—(प्रतिनिवृत्यावलोक्य च । ) सहदेव, गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि । सहदेवः—आर्य नेदमायुधागारम् , पाञ्चाल्याश्चतुःशालकमिदम् । भीमसेनः—(सवितर्कम् । ) किं नाम नेदमायुधागारम्, पाञ्चाल्या- श्चतुःशालकमिदम् । ( विचिन्त्य, सहर्षम् । ) आमन्त्रयितव्यैव मया पाञ्चाली । ( सप्रणयं सहदेवं हस्ते गृहीत्वा । ) वत्स आगम्यताम् । यदार्यः कलापसूत्रेण निष्पन्नम् । एकं, दिवसम् = दिनम् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । गुरुः = ईश्वरः शासक इत्यर्थः । न, असि, अहं=भीमः, तव=युधिष्ठिरस्य, विधेयः = अनुशासनीयः, न । भवदाज्ञामनुरुध्य कौरवान् विनाशयिष्यामीति युधिष्ठिरम्प्रति सन्देश इति । अत्र कौरवविनाशरूपकार्यस्य, हेतोर्गण्डोल्लासस्य निन्दाप्राप्तिरूपाकार्यस्य हेतोर्ज्येष्ठभ्रातृशासनोल्लङ्घनस्य कथनात् परिकरनामकसन्धिः । तदुक्तं भरतेन—'कार्यकार्यार्थहेतूनामुक्तिः परिकरो मतः ॥' इति । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं द्वितीयश्लोके ॥ १२ ॥ पाञ्चाल्याः = द्रौपद्याः, चतुःशालम्=अन्योन्याभिमुखशालाचतुष्टयगृहम् । गुरुम् = युधिष्ठिरम्, अनुवर्तस्व = अनुसर । आयुधागारं = शस्त्रगृहम्, प्रविश्य= गत्वा, आयुधसहायः = गृहीतशस्त्रः । सवितर्कम् = सानुमानम् । मया, पाञ्चाली = द्रौपदी, आमन्त्रयितव्या=विचारयि- ( अहङ्कार के साथ घूमते हैं ) सहदेव—( भीम के पीछे जाते हुए मन ही मन ) अरे, क्यों, भार्य कृष्णा [ द्रौपदी ] के सदन में पहुँच गए, अच्छा, मैं यहीं ठहर जाता हूँ ( बैठ जाते हैं ) । भीमसेन—( लौटकर और देखकर ) सहदेव, जाओ बड़े भैया की आज्ञा का पालन करो । मैं भी शस्त्रागार में जाकर सहायतार्थ शस्त्र लेता हूँ । सहदेव—आर्य, यह शस्त्रागार नहीं, यह तो कृष्णा का आवास है । भीम—( भ्रमपूर्वक ) क्या यह शस्त्रागार नहीं ? क्या यह द्रौपदी का आवास है ? ( सोचकर हर्षपूर्वक ) कृष्णा से वार्तालाप करना ही है ( प्रेम के साथ सहदेव का हाथ पकड़- कर ) अनुज, आओ । भाई, महाराज कौरवों के साथ सन्धि की इच्छा करते हुए हमें जो जो
२० .वेणीसंहारं नाटकं कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु । ( उभौ प्रवेशं नाटयतः । भीमसेनः सक्रोधं भूमावुपविशति । ) सहदेवः—( ससंभ्रमम् । ) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यो मुहूर्तं पालयतु कृष्णागमनम् । भीमसेनः—( उपविश्य स्मृत्वा ।) वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् अथ भगवान्कृष्णः केन पणेन सन्धिं कर्तुं सुयोधनं प्रति प्रहितः । सहदेवः—आर्य, पञ्चभिर्ग्रामैः । भीमसेनः—( कर्णौ पिधाय ) अहह, देवस्याजातशत्रोरप्ययमहीह- तव्या तया साकं विचारः कर्तव्य इत्यर्थः । कुरुभिः=धृतराष्ट्रपुत्रैः, सन्धानम्=सन्धिम् । ससम्भ्रमम् = सोद्वेगम् । आस्तीर्णम् = विस्तृतम्, मुहूर्तम् = द्वादशक्षणाः 'ते तु मुहूर्तो द्वादशस्त्रियाम्' इत्यमरः । किञ्चित् कालमित्यर्थः । कृष्णागमनम् = कृष्णायाः, द्रौपद्या आगमनम् । उपोद्घातेन = प्रकृतानुक्लचिन्तया, तदुक्तम्- चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः । इति । समानानुपूर्वीकपदप्रतिपाद्यतया कृष्णस्यागमनविषयकस्मरणेन तत्कर्तृकसन्धि स्थापनरूपकार्यस्मरणेन सन्धिविषयकप्रश्नः क्रियत इति भावः । भगवान्=ऐश्वर्या दिमान्, कृष्णः = माधवः, केन, पणेन = मूल्येन, सन्धि = सन्धानम्, कर्तुं = सम्पाद यितुम्, सुयोधनं प्रति = दुर्योधनाभिमुखम् प्रहितः = गतः, प्रहित इत्यस्य प्रेषित इत्यर्थंस्तु न युक्तः स्वयंप्रतिपन्नदौत्येनेत्यादिपूर्वग्रन्थविरोधात् नहि केनचित्प्रेषितः स्वयंदूतो भवितुमर्हति परप्रतिपन्नदौत्यात् । अहहेति खेदद्योतकः । देवस्य = भगवतः, अजातशत्रोः=अनुत्पन्नरिपोः, युधिष्ठिर- कष्ट दे रहे हैं उसे तुम भी देख लो । ( घूमकर गृह में प्रवेश करने का अभिनय करते हैं, भीमसेन क्रोधपूर्वक पृथ्वी पर बैठ जाते हैं ।) सहदेव-( अत्यन्त शीघ्रता से ) आर्य, वह आसन बिछा हुआ है, यहाँ बैठ कर आप कृष्णा के आगमन की प्रतीक्षा थोड़े समय तक कर लें । भीम-( बैठकर और स्मरण कर ) भाई, कृष्णागमन के प्रसङ्ग से यह स्मरण हो आया । भगवान् वासुदेव किस शर्त पर सन्धि व्यवस्थापित करने के लिये सुयोधन के समक्ष गये हैं ? सहदेव-आर्य, पाँच ग्राम के लिये । भीम-( कानों को बन्द कर ) कष्ट ! कष्ट !! अजातशत्रु महाराज युधिष्ठिर का तेज इस
स्तेजोऽपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । (परिवृत्य स्थित्वा ।) तद्वत्स, न त्वया कथितं न च मया भीमेन श्रुतम्— यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ १३ ॥ ( नेपथ्ये ) समस्ससदु समस्ससदु भट्टिणी । ( समाश्वसितु समाश्वसितु भट्टिनी । ) सहदेवः—(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये, कथं याज्ञसेनी मुहुरुपचीयमानवाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति । तत्कष्टतर- मापत्तितम् । स्येत्यर्थः । तेजोऽपकर्षः = प्रतापहानिः । यत्सत्यमिति समुदायः असम्भाव्यार्थद्योतकः, तस्य च कम्पनक्रियायामन्वयः, तथा च, असम्भाव्यकम्पनाश्रयमिदं मे हृदयम् । अन्वयः—अस्य, भूपतेः, यत्, तत्, ऊर्जितम्, अत्युग्रम् क्षात्रम्, तेजः, अक्षैः, दीव्यता, अनेन, तदा, नूनम्, तत्, अपि, हारितम् ॥ १३ ॥ यतः पञ्चभिर्ग्रामैः सन्धिं करोष्यतो जाने नास्य तेजोऽस्तीत्याह—यत्तदिति । अस्य भूपतेः = युधिष्ठिरस्य यत् तत् = प्रसिद्धम्, ऊर्जितम् = बलवत्, अत्युग्रम् = अतितीक्ष्णम्, क्षात्रं = क्षत्रियसम्बन्धि, तेजः = प्रतापः, अक्षैः = द्यूतैः, दीव्यता = क्रीडता, अनेन = युधिष्ठिरेण, तदा = तस्मिन् काले, नूनं = निश्चयम्, तत् = तेजः अपि हारितम् = विनाशितम् । पथ्यावक्त्रं छन्दः ॥ १३ ॥ भट्टिनी = यद्यपि कृताभिषेकातिरिक्तराजपत्नी, 'देवी कृताभिषेकायाम्, इतरासु तु भट्टिनी' इत्यमरात् भट्टिनीत्युच्यते तथापि लक्षण्या देव्यामपि भट्टिनीपदप्रयोगः । मुहुरुपचीयमानवाष्पपटलस्थगितनयना = पुनर्वर्द्धमानोष्माश्रुसमुदायाच्छन्ननेत्रा, प्रकार क्यों कर गौण हो गया है ? यदि सत्य है तो मेरा हृदय काँपने हुए के सदृश है ( पराङ्मुख होकर और स्थित होकर ) अच्छा वत्स, न तो तुमने कहा और न मैंने सुना [ अर्थात् सन्धि-बात की चर्चा न करो ] । महाराज का जो अत्यन्त उद्ग्र पराक्रमसम्पन्न क्षत्रियोचित तेज था यह निश्चय है कि द्यूत- क्रीडा करके उसे भी इन्होंने अपने हाथ से चले जाने दिया है ॥ १३ ॥ ( नेपथ्य में ) महारानी, धैर्य धारण करें, धैर्य्य धारण करें, कौरवों के सहजशत्रु कुमार भीमसेन आप -के क्रोध की शान्ति करेंगे । सहदेव—( नेपथ्य की ओर कान करके और देखकर मन ही मन ) अरे, क्यों, श्रीमती द्रौपदी आर्य के समीप चली आ रही हैं ! आँसुओं के अधिक भर जाने से नेत्र डबडबाये हैं । यह तो महान् कष्ट उपस्थित हुआ ।
२२ वेणीसंहारं नाटकं यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १४ ॥ (ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।) (द्रौपदी सास्त्रं निःश्वसिति ।) चेटी—समस्ससदु समस्ससदु भट्टिणी । अवणइस्यदि दे मण्णुं णिच्चाणु- बद्धकुरुबेरो कुमालो भीमसेणो । (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।) द्रौपदी—हञ्जे बुद्धिमदिए, होदि एदं जइ महाराओ पडिकूलो ण भवे । ता णाहं पेक्खिदुं तुवरदि मे हिअअं । आदेसेहि मे णाहस्स वासभवणं । (हञ्जे बुद्धिमत्तिके भवेदेतद्यदि महाराजः प्रतिकूलो न भवेत् । आर्यसमीपं = भीमसंविधे, उपसर्पति = गच्छति । अन्वयः—अद्य, क्रुद्धे, आर्ये, वैद्युतमिव, यत्, ज्योतिः, सम्भृतम्, इयम्, कृष्णा, नूनम्, तत्, प्रावृट्, इव, संवर्धयिष्यति ॥ १४ ॥ यद्वैद्युतमिति । अद्य = इदानीम्, क्रुद्धे = कुपिते, आर्ये = भीमे, वैद्युतमिव = तडिदुद्भवसदृशम्, यत्, ज्योतिः = तेजः, सम्भृतम् = उत्पन्नम्, इयं, कृष्णा = द्रौपदी, नूनम् = निश्चयम्, तत् = ज्योतिः, प्रावृट् = वर्षाकाल इव, संवर्धयिष्यति = एधयिष्यति । यथा प्रावृट्कालः, विद्युत्तेजः संवर्धयति तथैव द्रौपदी भीमक्रोधं संवर्धयिष्यतीत्यर्थः । अत्र पूर्णोपमाऽलङ्कारः पथ्यावक्त्रं छन्दः । लक्षणमुक्तं नवमश्लोके ॥ १४ ॥ अपनेष्यति = दूरीकरिष्यति, ते = तव, मन्युं = क्रोधं, नित्यानुबद्धकुरुवैरः = नित्यम् अनुबद्धः, सम्बद्धः कुरुवैरः धार्तराष्ट्रविद्वेषः यस्य सः । चेटीं प्रति 'हञ्जे' इत्युच्यते 'हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीम्प्रती'त्यमरः । आज आर्य भीमसेन के क्रुद्ध होने पर विद्युतप्रकाश के सदृश उनका तेज हो गया है, अब उसे वर्षा ऋतु की भाँति अवश्य यह महारानी [द्रौपदी] बढ़ायेंगी [अर्थात् क्रोधान्ध भीमसेन द्रौपदी के वचनों से और उत्तेजित हो उठेंगे ] ॥ १४ ॥ (द्रौपदी का चेटी के साथ प्रवेश ) (द्रौपदी डबडबाए हुए नेत्रों से ठण्डी श्वास लेती हैं) चेटी—धैर्य धरें, धैर्य धरें, महारानी, सहज कौरवशत्रु कुमार भीमसेन आप का क्रोध निवारण करेंगे। द्रौपदी—अरी, बुद्धिमत्तिके, ऐसा ही होता यदि महाराज विपरीत न होते । प्राणनाथ का
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३ तन्नाथं प्रेक्षितुं त्वरते मे हृदयम् । तदादेशय मे नाथस्य वासभवनम् ) ( इति परिक्रामतः ) चेटी—एदु एदु भट्टिणी एदं वासभवणं । एत्थ पविसदु भट्टिणी । (एत्वेतु भट्टिनी । एतद्वासभवनम् । अत्र प्रविशतु भट्टिनी ।) द्रौपदी—हञ्जे, कहेहि णाहस्स मह आगमणं । ( हञ्जे, कथय नाथस्य ममागमनम् । ) चेटी—जं देवी आणवेदि । ( इति परिक्रम्योपसृत्य च ) जयदु जयदु कुमालो । ( यद्देव्याज्ञापयति । जयतु जयतु कुमारः । ) ( भीमसेनोऽशृण्वन् 'यत्तदूर्जितम्' ( १।१३ ) इति पुनः पठति । ) चेटी—( परिवृत्य । ) भट्टिणि, पिअं दे णिवेदेमि । परिकुविदो विअ कुमालो लक्खीअदि ( भट्टिनि प्रियं ते निवेदयामि । परिकुपित इव कुमारो लक्ष्यते । ) यदि, महाराजः = युधिष्ठिरः, प्रतिकूलः = अननुकूलः, न भवेत्, तदा, एतद्भवति = क्रोधापनयनं भवेत् । तत् = तस्मात्, नाथं = स्वामिनम् भीममित्यर्थः । प्रेक्षितुं = द्रष्टुम्, त्वरते = शीघ्रतां करोति, मे = मम, हृदयम् = स्वान्तम् । एतु = आगच्छतु, द्विरुक्तिः शीघ्रताद्योतनार्था । भट्टिनी = राजयोषित् । एतद्वा- सभवनम् = इदं वासगृहम् । कथयेति—द्रौपदी आगतेति कथयेत्यर्थः । देवी = राजपत्नी, यत्, आज्ञापयति = आदिशति, जयतु = उत्कृष्टेन वर्तताम् । अशृण्वन् = अनाकर्णयन्, शतृप्रत्ययान्तोऽयम् । भट्टिनि = देवि, प्रियम् = इष्टम् ते = तव, निवेदयामि = कथयामि, कुमारः, परिकुपित इव = क्रुद्ध इव, लक्ष्यते = दृश्यते । दर्शन करनेके लिये मेरा हृदय चञ्चल हो रहा है अतः स्वामी के आवास का पथ प्रदर्शन कर । ( दोनों चली आती हैं ) चेटी—आइये, आइये स्वामिनी, द्रौपदी—अये, मेरा आगमन नाथ को कहो । चेटी—अच्छा, ऐसा ही करूँगी । युवराज की विजय हो, विजय हो । भीमसेन—( न सुनकर क्रोधपूर्वक 'यत्तदूर्जितम्' यह श्लोक फिर से पढ़ते हैं । ) चेटी—( द्रौपदी के समीप जाकर ) महारानी, एक कर्णसुखद संवाद सुनाती हूँ । युवराज क्रुद्ध से प्रतीत हो रहे हैं ।
२४ वेणीसंहारं नाटकं द्रौपदी—हञ्जे, जइ एवं ता अवहीरणावि एषा म आसासयदि। ता एअन्ते उवविट्ठा भविअ सुणुमो दाव णाहस्स ववसिदं। (हञ्जे, यद्येवं तद- वधीरणाप्येषा मामाश्वासयति। तदेकान्त उपविष्टा भूत्वा शृणुमस्तावन्नाथस्य व्यव- सितम्।) (उभे तथा कुरुतः) भीमसेनः—(सहदेवमधिकृत्य) किं नाम पञ्चभिर्ग्रामैः सन्धिः। मथ्नामि कौरवशतं समरे न कोपात्- दुःशासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेन ॥ १५ ॥ यदि, एवम् = क्रुद्धो भीमसेनः, तदा, अवधीरणा = तिरस्कारः, अपि एषा - भीमकृता, माम्, आश्वासयति = आश्वासनं करोति, सुखयतीत्यर्थः। तत् = तस्मात्, एकान्ते = रहसि, उपविष्टाः = उपवेशं कृतवत्यः, शृणुमः = आकर्णयामः, तावत् नाथस्य = पत्युः, व्यवसितम् = व्यवसायम्। अन्वयः—समरे, कोपात्, कौरवशतम्, न, मथ्नामि, दुःशासनस्य, उरस्तः, रुधिरम्, न, पिबामि, गदया, सुयोधनोरू, न, सञ्चूर्णयामि, भवताम्, नृपतिः, पणेन, सन्धिम् करोतु ॥ १५ ॥ राजा सन्धि करोतु अहन्तु कौरवान्विनाशयिष्याम्येवेत्याह—मथ्नामीति। समरे = सङ्ग्रामे, कोपात् = क्रोधात्, कौरवशतं = दुर्योधनादीन्, न मथ्नामि = न मथिष्यामि अत्र नञा काकोः प्रत्ययात्, मथिष्याम्येवेति व्यज्यते एवमग्रिमेऽपि क्रियासत्तामेव व्यनक्ति। दुःशासनस्य = दुर्योधनकनिष्ठभ्रातुः, उरस्तः = वक्षसः। पञ्चम्यास्तसिल्। रुधिरम् = रक्तम्, न पिबामि = न पास्यामि, सर्वत्र वर्तमानसा- मीप्ये लट्। गदया = शस्त्रविशेषेण, सुयोधनोरू = दुर्योधनस्य सक्थिनी, न सञ्चूर्णं- यामि = न मर्दयिष्यामि। भवतां = युष्माकं, नृपतिः = राजा, पणेन = ग्रामपञ्चक- द्रौपदी—अरी, यदि यह बात है तो यह तिरस्कार भी मुझे आश्वासन (धैर्य) देता है। अच्छा—एकान्त में बैठकर पहले प्रियतम को व्यवस्था (कार्यक्रम) को तो सुनें। (दोनों एकान्त में बैठकर सुनती हैं) भीम—(क्रोधपूर्वक सहदेव से) क्या पाँच ही ग्राम पर सन्धि ? क्या मैं संग्राम में क्रोध से सौ कौरवों का मर्दन न कर डालूँगा ? हृदय-प्रदेश से क्या दुःशासन का रक्तपान न करूँगा ? क्या मैं गदा से दुर्योधन की जाँघ का चूर्ण न बना डालूँगा ? तुम लोगों के राजा (युधिष्ठिर) इस नियम पर सन्धि करें (अर्थात् मैं तो सन्धि नहीं करता) ॥ १५ ॥
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५ द्रौपदी—( सहर्षम् । जनान्तिकम् । ) णाह, अस्सुदपुव्वं खु दे एदिसं वअणं । ता पुणो पुणो दाव भणाहि । (नाथ, अश्रुतपूर्वं खलु त ईदृशं वचनम् । तत्पुनः पुनस्तावद्ब्रूहि । ) ( भीमसेनोऽशृण्वन्नेव 'मथ्नामि कौरवशतम्' ( १।१५ ) इति पुनः पठति । ) सहदेवः—आर्य, किं महाराजस्य सन्देशोऽयमार्येणाव्युत्पन्न इव गृहीतः । भीमसेनः—कः पुनरत्र व्युत्पत्तिः । सहदेवः —आर्य ! एवं गुरुणा सन्दिष्टम् । भीमसेनः —कस्य । सहदेवः —सुयोधनस्य । रूपेण सन्धि = सन्धानम्, करोतु=सम्पादयतु । प्रतिमुखरूपः सन्धिेश्च, एतल्लक्षणं च— आनुषङ्गिककार्येण क्रियते यत्प्रकाशनम् । नष्टस्येवेह बीजस्य तद्धि प्रतिमुखं मतम् ॥ इति । वसन्ततिलकाछन्दः ॥ १५ ॥ सहर्षम् = सानन्दम् । जनान्तिकम् = रङ्गदर्शकसमीपे, अयोन्मन्त्रणम्, तदुक्तं दर्पणे —अन्योऽन्यामन्त्रणं यत्स्यात्तज्जनान्ते, जनान्तिकम् । इति । अश्रुतपूर्वं = न श्रुतम्, अश्रुतम् पूर्वम् अश्रुतम् इति अश्रुतपूर्वम् 'सुप्सुपे'ति समासः । ईदृशम् = पूर्वोक्तं 'मथ्नामी'त्यादि, ते = तव, वचनम् = वाणी, तत् = तस्मात् पुनः पुनः = भूयोभूयः, तावत्, भण = निगद । आर्य=श्रेष्ठ, महाराजस्य = युधिष्ठिरस्य, सन्देशः = वाचिकं 'सन्देशवाग्वाचिकं स्यादि'त्यमरः । आर्येण = भवता, अव्युत्पन्न इव = तात्पर्याविषय इव, किम्, किमिति प्रश्ने, गृहीतः = अवगतः । तत्तात्पर्यानभिज्ञो भवान्, इत्यर्थः । अत्र = युधिष्ठिरवाक्ये, व्युत्पत्तिः = तात्पर्यम् । किं तात्पर्यमित्यर्थः । द्रौपदी—( प्रसन्न होकर सबके समक्ष ) स्वामिन्, आपके वचन अपूर्व हैं ऐसा कभी भी श्रुतिगोचर नहीं हुआ था । अच्छा इसे फिर कहने की कृपा कीजिये । भीम—सहदेव, देखो ( मथ्नामि कौरवशतं ... श्लोक फिर पढ़ते हैं ) । सहदेव—क्या महाराज के सन्देश का रहस्य न समझकर आपने इसी प्रकार सुनकर मान लिया । भीम—वह सन्देश क्या है ? सहदेव—आर्य महाराज ने इस प्रकार सन्देश दिया है । भीम—किसे सन्देश दिया है । सहदेव—सुयोधन को ।
२६ वेणीसंहारं नाटकं भीमसेनः—किमिति । सहदेवः—इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । प्रयच्छ चतुरो ग्रामान्कञ्चिदेकं च पञ्चमम् ॥ १६ ॥ भीमसेनः—ततः किम् । सहदेवः—तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विष- भोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये । अन्वयः—इन्द्रप्रस्थम्, वृकप्रस्थम्, जयन्तम् वारणावतम्, चतुरः, ग्रामान्, प्रयच्छ, कञ्चित्, एकम्, पञ्चमम्, च, ( प्रयच्छ ) ॥ १६ ॥ युधिष्ठिरप्रेषितसन्देशमेवाह—इन्द्रप्रस्थमिति । इन्द्रप्रस्थं=खाण्डवप्रस्थम्, ‘हस्तिनापुरान्निर्वासितो युधिष्ठिरः स्वनिवासायेन्द्रप्रस्थनामकं नगरं रचयामास’ एतेन निर्वासनरूपोऽपकारः सूचितः । वृकप्रस्थम् = भीमस्य वृकोदरनामप्राप्ति-स्थानम् अत्रैव दुर्योधनादिभिः विषदानेन मदमत्तोऽकारि, एतेन विषदानरूपोऽपकारः सूचितः । जयन्तम् = द्यूतक्रीडास्थानम्, ‘अत्रैव द्यूतेन राज्यादीनपहृत्य वनवासो दत्तः, एतेन छलेन राज्याद्यपहरणरूपोऽपकारः सूचितः । वारणावतम्–लाक्षागृहदाहस्थानम् ‘लाक्षागृहे निवसति युधिष्ठिरे दुर्योधनाज्ञया पुरोचनेन वह्नौ प्रज्वालिते कष्टेन तस्मान्निर्गतो युधिष्ठिरः’ एतेन प्राणहरणोपायरूपोऽपकारः सूचितः । चतुरः=उक्तनाम- निर्दिष्टान् चतुःसंख्याकान्, ग्रामान् = संवसथान्, ‘सभो संवसथग्रामौ’ इत्यमरः । प्रयच्छ=देहि, कञ्चित्=नाम्नाऽनिर्दिष्टम् एकं, पञ्चमं, च । चतुरपकारसूचनानन्तरम्, नाम्नाऽनिर्दिष्टस्य ‘पञ्च’ पञ्चत्वं भावप्रधाननिर्देशः, माति दधाति पञ्चम इत्येवं निष्पन्नस्य पञ्चमस्य कथनात् मरणप्रापकयुद्धस्थानं सूचितम् । पथ्यावक्त्र- च्छन्दः ॥ १६ ॥ तात्पर्यानभिज्ञो भीमसेन आह—ततः किमिति । सहदेवस्तात्पर्यं स्पष्टतयाऽऽह—तदेवमिति । प्रतिनामग्रामप्रार्थनया = तत्तन्नाम- निर्देशपूर्वकग्रामयाचनेन, पञ्चमस्य च, अकीर्तनात् = नामाकथनात् । भीम—क्या ? सहदेव—इन्द्रप्रस्थ, वृकप्रस्थ, जयन्त और वारणावत इन चार ग्रामों को और पाचवाँ कोई एक जो इच्छा हो दीजिये ॥ १६ ॥ भीम—तो इससे क्या ? ( अर्थात् इसमें क्या रहस्य है ? ) । सहदेव—इस प्रकार चार ग्रामों का नाम लेकर तथा पाचवें का नाम न लेकर प्रार्थना करने से मुझे विदित होता है, ‘महाराज ने विषप्रदान, लाक्षानिर्मित भवन के भस्मीकरण और कपटपाश इत्यादि अपकारों की स्मृति कराई है’ ।
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७ भीमसेनः - ( साटोपम् । ) वत्स, एवं कृते किं भवति ? सहदेवः - आर्य, एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति, कुरुराजस्य तावदसन्धेयता तदैव प्रतिपादिता भवति । भीमसेनः - मूढ, सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसन्धेयता तदैव प्रतिपादिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । लोकेऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम् । अपि च रे मूर्ख, युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दाराणां सभायां केशकर्षणम् ॥ १७ ॥ द्रौपदी - (जनान्तिकम् । ) णाह, ण लज्जन्ति एदे । तुम वि दाव मा विसुमरेरि । ( नाथ, न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः । ) । स्वगोत्रक्षयाशङ्कि = निजवंशविनाशशङ्ककम्, आविष्कृतम् = प्रकटितम् । निधनम् = मरणम् । अन्वयः - क्रोधात्, शत्रुकुलक्षयः, लोके, युष्मान्, ह्रेपयति, सभायाम्, दारा- णाम्, केशकर्षणम्, न लज्जयति ॥ १७ ॥ युष्मानिति । क्रोधात् = क्रोधात्, शत्रुकुलक्षयः = रिपुवंशविनाशः, लोके = जगति, युष्मान् = भवतः, ह्रेपयति = त्रपयति, सभायां = सदसि, दाराणां = स्त्रीणाम्, केश- कर्षणम् = कचाकर्षणम्, न = नहि, लज्जयति = त्रपयति । सभायां द्रौपदीकेशकर्षणा- दधिकं न किमपि लज्जाकरमिति भावः । पथ्यावक्त्रं छन्दः ॥ १७ ॥ मा विस्मार्षीः = न विस्मर । माङि लुङ् , इति लुङ् प्रत्ययः ॥ भीम - ( आवेश में आकर ) ऐसा करने से क्या लाभ ? सहदेव - (आर्य, ऐसा करने से एक तो संसार के समक्ष स्पष्ट हो जायगा कि महाराज का हृदय अपने गोत्रवध से दुःखी होता है दूसरे उसके अपकारों को स्मरण कराकर उसके साथ सन्धि न करना ही दिखाया है । भीम - यह सब व्यर्थ की बात है । कौरवों के साथ सन्धि तो तभी स्थगित हो गई जब हम लोगों ने यहाँ से निर्वासित होकर वन में जाते समय कौरवों के वंशनाश की प्रतिज्ञा की थी । धृतराष्ट्र के कुल की समाप्ति की बात संसार जान गया है । क्या यह आप लोगों के लिये लज्जा की बात है ? अरे मूर्ख :- (क्रोध से) शत्रुवंश का नाश संसार में आप लोगों को लज्जित करता है परन्तु भरी सभा में स्त्री का केशापकर्षण आप लोगों को लज्जित नहीं करता ॥ १७॥ द्रौपदी - ( सबके समक्ष ) नाथ । इन्हें लज्जा नहीं है देखना आप भी भूल जाना ।
२८ वेणीसंहारं नाटकं भीमसेनः—वत्स, कथं चिरयति पाञ्चाली । सहदेवः—आर्य, का खलु वेलाऽत्रभवत्याः प्राप्तायाः । किन्तु रोषावेश- वशादार्याऽऽगताप्यार्येण नोपलक्षिता । भीमसेनः—(दृष्ट्वा सादरम् ) देवि, वर्धितामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि । द्रौपदी—णाह, उदासीणेसु तुम्हेसु मह मण्णु. ण उण कुविदेसु । (नाथ, उदासीनेषु युष्मासु मम मन्युः, न पुनः कुपितेषु । ) भीमसेनः—यद्येवमपगतपरिभवमात्मानं समर्थयस्व । ( हस्ते गृहीत्वा, पार्श्वे समुपवेश्य, मुखमवलोक्य । ) किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि। द्रौपदी—णाह, किं वि उव्वेअकालंणं तुम्हेसु सण्णिहिदेसु । ( नाथ, किमप्युद्वेगकारणं युष्मासु सन्निहितेषु । ) कथम् = कस्माद्धेतोः, पाञ्चाली = द्रौपदी, चिरयति = विलम्बं कुरुते । का खलु वेला = चिरकालः । वर्धितामर्षैः = उद्दीपितक्रोधैः । नोपलक्षिता = नावगता । मन्युं = क्रोधम्, 'मन्यु- दैन्ये क्रतौ क्रुधि' इत्यमरः । उदासीनेषु = विषयासक्तेषु ? अपगतपरिभवम् = समाप्ततिरस्कारम् । आत्मानं = स्वम्, समर्थयस्व = अव- गच्छ । उपलक्षयामि = जानामि । युष्मासु = वीरेषु, भवत्सु, सन्निहितेषु = समीपस्थेषु, नतु अन्यत्र गतेषु, किम- भीमसेन—( स्मरणपूर्वक ) प्रिय, क्यों द्रौपदी को विलम्ब हो रहा है युद्ध के लिये शीघ्रातिशीघ्र तय्यार हो जाने के लिए मेरा मन मुझे प्रेरित कर रहा है। सहदेव—आर्य ! श्रीमती जी के आये हुए बहुत विलम्ब हो गया क्रोध के आवेश में पड़ कर आपने इन्हें देखा ही नहीं । भीम—( देखकर आदरपूर्वक र ) देवि ! हम लोगों ने क्रोध के आवेश में होकर नहीं देखा यद्यपि आप सम्मुख खड़ी हैं अतः आप क्रोध न करें । द्रौपदी—नाथ, यदि आप लोग उपेक्षा करके बैठ जाते तो मैं क्रोध करती परन्तु आप लोगों को प्रतिशोध करने के लिए उद्यत देखती हूँ अतः क्रोध कैसा ? भीम—यदि ऐसी बात है तो समझ लीजिये कि आप के अपमान का प्रतिकार हो ही गया । ( हाथ पकड़कर बगल में बैठा लेते हैं और उनके मुख की ओर देखकर ) क्यों आप व्याकुल सी प्रतीत हो रही हैं ? द्रौपदी—स्वामिन्, आप लोगोंके समीप रहते हुए उद्विग्नताका क्या कारण हो सकता है !
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९ भीमसेनः—किमिति नावेदयसि । ( केशानवलोक्य । ) अथवा किमा- वेदितेन । जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च। पाञ्चालराजतनया वहते यदिमां दशाम् ॥ १८ ॥ द्रौपदी—हज्जे बुद्धिमदिए, कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ (हज्जे बुद्धिमत्तिके ! कथय नाथस्य कोऽन्यो मम परिभवेण खिद्यते । ) चेटी—जं देवो आणवेदि । ( भीममुपसृत्य । अञ्जलिं बद्ध्वा ) सुणादु- कुमालो । इदो वि अहिअदरं अज्ज उव्वेअकारणं आसी देवीए । ( यद्दे- व्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः । ) प्युद्वेगकारणं, न किमपीत्यर्थः । अन्वयः—पाण्डुपुत्रेषु, जीवत्सु, दूरम्, अप्रोषितेषु, च, पाञ्चालराजतनया, यत् इमाम्, दशाम्, वहते ॥ १८ ॥ अस्माकं सन्निधाने सति तादृशदशायोग्या द्रौपदी नेत्याह—जीवत्स्विति । पाण्डुपुत्रेषु = युधिष्ठिरादिषु, जीवत्सु=प्राणान् धारयत्सु, दूरम् = असमीपम्, क्रिया- विशेषणमिदम् । अप्रोषितेषु = परदेशेऽवसत्सु, च, पाञ्चालराजतनया = पाञ्चाल देशाधिपसुता, द्रौपदी, इत्यर्थः । राजतनयेत्यनेन दुःखसहनयोग्यता दर्शिता । यत्, इमाम् = अबद्धकेशां, दशां=स्थितिम्, वहते = प्राप्नोति । 'या दशा अस्वामिन्याः प्रोषितभर्तृकाया वा, सा दशा वीरपल्या द्रौपद्या वर्तते' इति भावः । अत्र विभावना- विशेषोक्त्योः, सन्देहसङ्करोऽलङ्कारः । पथ्यावक्त्रं छन्दः ॥ १८ ॥ नाथस्य कथय । उद्वेगकारणमिति शेषः । इतोऽपि = अस्मादपि, अधिकतरम् = उत्कृष्टम्, अद्य = अस्मिन्नहनि, द्वेगका- रणम् = उद्वेजनहेतुः । भीमसेन—क्यों नहीं कहती ? ( बालों को देखकर और उच्छ्वास लेकर ) अथवा कह कर ही क्या करेंगी ! ( क्योकि ) पाण्डुकुमार अभी जी रहे हैं और कहीं दूर भी नहीं चले गए हैं फिर पाञ्चालनरेश की पुत्री हैं और इस दशा को प्राप्त हो गई है ॥ १८ ॥ द्रौपदी—अरी बुद्धिमत्तिके, सम्पूर्ण घटना स्वामी से कह दो न, मेरे अपमानित होने पर इनके अतिरिक्त कौन दुःखी होगा ? चेटी—अच्छा महारानी की जो आज्ञा । ( भीमसेन के समीप जाकर हाथ जोड़कर ) सुनें । इससे भी बढ़कर आज महारानी की उद्विग्नता में कारण हुआ है ।