वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 38, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७ भीमसेनः—किं नाम कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति । पश्य— तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालत नयां वने व्याधैः सार्द्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ११ ॥ अत्र, आदिपदग्राह्यज्येष्ठभ्रातरि गुरुशब्दः । खेदं=परिदेव्यम्, अपि जानाति, न जानातीत्यर्थः । अन्वयः—तथाभूताम् पाञ्चालत नयाम् नृपसदसि, दृष्ट्वा, वने, व्याधैः, सार्द्धम्, वल्कलधरैः, सुचिरम्, उषितम्, विराटस्य, आवासे, अनुचितारम्भनिभृतम्, स्थितम्, मयि, खिन्ने (सत्यपि), गुरुः, अद्यापि, कुरुषु, खेदम्, न भजति ॥ ११ ॥ खेदकारणे सत्यपि युधिष्ठिरस्य खेदाभावं दर्शयति—तथाभूतामिति । तथाभूतां = रजस्वलां, आकृष्टकेशवस्त्राञ्च रजस्वलादिपदस्य वचनानर्हत्वात् रजस्वलादिपदेन न निर्देशः कृतः । पाञ्चालत नयां=द्रौपदीम्, नृपसदसि=राजसभायां, दृष्ट्वा=विलोक्य, स्त्रीगतदुःखदर्शनेन नितरां खेदयोग्यता दर्शिता । आत्मनि, भ्रातरि च दुःखं दर्श- यति-वने इति । वने = अरण्ये, व्याधैः=मृगयुभिः, सार्द्धम्=सह, वल्कलधरैः= त्वग्धरैः, अस्माभिरित्यर्थः । सुचिरं = बहुकालम्, उषितम् = निवासः कृतः, विरा- टस्य = विराटनामकनृपस्य, आवासे = गृहे, अनुचितारम्भनिभृतं=अनुचितारम्भेण, द्यूतसाहाय्यराचकताद्यनुष्ठानेन निभृतं = गुप्तं यथा स्यादेवम्, स्थितम् = स्थितिः कृता, अत्रेव दृष्ट्वेत्यस्य सम्बन्धः । परे तु स्थितमिति भावक्तान्तद्वितीयान्तं स्वीकृत्य खेदक्रियया भजनक्रियया च समानकर्तृत्वं स्थापयन्ति । एवम्भूतेन खेदकारणेन, मयि = भीमे, खिन्ने = सखेदे, सत्यपीति शेषः । गुरुः = आर्यो युधि- ष्ठिरः, अद्यापि = साम्प्रतमपि, कुरुषु = धृतराष्ट्रपुत्रेषु, खेदं = तापं, न भजति = न करोति । एवञ्च खेदाभावदर्शनेन युधिष्ठिरस्य खेदाज्ञानं दर्शितम् । अत्र खेदं प्रति भीमसेन—(हँसते हुए) क्यों ! बड़े भैया क्षुभित होंगे ? (क्रोध प्रकट करते हुए) प्रिय, क्या बड़े भैया को क्षुभित होने आता है ? देखो :— जब ज्येष्ठ भ्राता राजसभा में द्रौपदी की [केशाकर्षणरूप] दुर्दशा को, वल्कल [भूर्जपत्र] वस्त्र धारण करते हुए वन में कोलभिल्लों के साथ अधिक समय के निवास को, तथा विराट के यहाँ हास्यास्पद कार्य में नियुक्त होकर लुक-छिपकर जीवन व्यतीत करने को देखकर मेरे खिन्न होने पर भी कौरवों के विषय में क्षुभित नहीं हुए तो आज मुझसे क्षुभित होंगे ॥ ११ ॥ २ वे०