वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 37, कुल 355 में से
संदर्भ में पढ़ें१६ वेणीसंहारं नाटकं प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासन्धस्योरःस्थलमिव विरूढं पुनरपि क्रुधा सन्धिं भीमो विघटयति यूयं घटयत ॥ १० ॥ सहदेवः—(सानुनयम् ।) आर्य, एवमतिसम्भृतक्रोधेषु युष्मासु कदा- चित्खिद्यते गुरुः । अन्वयः —मम, शिशोः, एव, यत् कुरुभिः वैरम्, प्रवृद्धम्, तत्र, आर्यः, न, हेतुः, न भवति, किरीटी, न च युवाम्, जरासन्धस्य, विरूढम्, उरःस्थलम्, इव, भीमः, क्रुधा, पुनरपि, सन्धिम्, विघटयति, यूयम्, घटयत ॥ १० ॥ प्रवृद्धमिति । मम = भीमस्य, शिशोरेव = बालकस्यैव यत् कुरुभिः वैरम् = विरोधः, प्रवृद्धम् = अधिकं जातम्, तत्र = तस्मिन् आर्यः = युधिष्ठिरः, हेतुः = कारणम्, न भवति, किरीटी = अर्जुनः, न च युवाम् = नकुलसहदेवौ हेतु, जरा- सन्धस्य = एतन्नामकस्य राज्ञः, विरूढम् उरःस्थलमिव = भिन्नं वक्षःस्थलमिव, 'उरो वत्सं च वक्षश्चे'त्यमरः । जरासन्धः प्रसवकाले द्विधाभूत आसीत् जराना- मकराक्षस्या द्वयोः सन्धिः कृतो भीमश्च पुनः, युद्धे द्विधा कृतवान् तेन जरासन्धस्य मृत्युरिति भावः । भीमः = वृकोदरः, क्रुधा = क्रोधेन, पुनरपि = भूयोऽपि, सन्धि = संश्लेपम्, विघटयति = वियोजयति, यूयं = युधिष्ठिरादयः, घटयत = योजयत । मया सन्धिविघातः कार्य इति भावः । अत्रोपमालङ्कारः । शिखरिणीछन्दः । लक्षण मुक्तं प्रथमश्लोके ॥ १० ॥ सानुनयम् = ससान्त्वनम् । गुरुः = युधिष्ठिरः 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः ।' साथ मेरी शत्रुता, जो शैशवकाल से ही बढ़ रही है उसमें न तो ज्येष्ठ भ्राता, न अर्जुन और न तुम दोनों [ सहदेव और नकुल ] कारण हो । [ देखो ] * जरासन्ध के विशाल वक्षःस्थल की भाँति इस सन्धि को क्रोध के साथ यह भीम विच्छेद करता है । तुम लोग [ भले ही ] सन्धि करो ॥ १० ॥ सहदेव—( विनयपूर्वक ) आर्य ! कदाचित् आप के इस प्रकार अधिक क्रुद्ध होने से बड़े भ्राता को क्षोभ न हो ।
- जरासन्ध—जन्म के समय इसका शरीर दो भागों में विभक्त था । यह प्रकृतिविरुद्ध होने के कारण परित्यक्त कर दिया गया । इसके दोनों भागों को एकत्रित करके जरा राक्षसी ने सी दिया जिससे पुनः यह एकाकार हो गया । इसी से इसका नाम जरासन्ध पड़ गया । इसे भीमसेन ने भगवान् श्रीकृष्ण के संकेतमात्र से पुनः दो भागों में विभक्त कर दिया था जिससे इसकी मृत्यु हो गई ।