भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

१६ वेणीसंहारं नाटकं प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् । जरासन्धस्योरःस्थलमिव विरूढं पुनरपि क्रुधा सन्धिं भीमो विघटयति यूयं घटयत ॥ १० ॥ सहदेवः—(सानुनयम् ।) आर्य, एवमतिसम्भृतक्रोधेषु युष्मासु कदा- चित्खिद्यते गुरुः । अन्वयः —मम, शिशोः, एव, यत् कुरुभिः वैरम्, प्रवृद्धम्, तत्र, आर्यः, न, हेतुः, न भवति, किरीटी, न च युवाम्, जरासन्धस्य, विरूढम्, उरःस्थलम्, इव, भीमः, क्रुधा, पुनरपि, सन्धिम्, विघटयति, यूयम्, घटयत ॥ १० ॥ प्रवृद्धमिति । मम = भीमस्य, शिशोरेव = बालकस्यैव यत् कुरुभिः वैरम् = विरोधः, प्रवृद्धम् = अधिकं जातम्, तत्र = तस्मिन् आर्यः = युधिष्ठिरः, हेतुः = कारणम्, न भवति, किरीटी = अर्जुनः, न च युवाम् = नकुलसहदेवौ हेतु, जरा- सन्धस्य = एतन्नामकस्य राज्ञः, विरूढम् उरःस्थलमिव = भिन्नं वक्षःस्थलमिव, 'उरो वत्सं च वक्षश्चे'त्यमरः । जरासन्धः प्रसवकाले द्विधाभूत आसीत् जराना- मकराक्षस्या द्वयोः सन्धिः कृतो भीमश्च पुनः, युद्धे द्विधा कृतवान् तेन जरासन्धस्य मृत्युरिति भावः । भीमः = वृकोदरः, क्रुधा = क्रोधेन, पुनरपि = भूयोऽपि, सन्धि = संश्लेपम्, विघटयति = वियोजयति, यूयं = युधिष्ठिरादयः, घटयत = योजयत । मया सन्धिविघातः कार्य इति भावः । अत्रोपमालङ्कारः । शिखरिणीछन्दः । लक्षण मुक्तं प्रथमश्लोके ॥ १० ॥ सानुनयम् = ससान्त्वनम् । गुरुः = युधिष्ठिरः 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः ।' साथ मेरी शत्रुता, जो शैशवकाल से ही बढ़ रही है उसमें न तो ज्येष्ठ भ्राता, न अर्जुन और न तुम दोनों [ सहदेव और नकुल ] कारण हो । [ देखो ] * जरासन्ध के विशाल वक्षःस्थल की भाँति इस सन्धि को क्रोध के साथ यह भीम विच्छेद करता है । तुम लोग [ भले ही ] सन्धि करो ॥ १० ॥ सहदेव—( विनयपूर्वक ) आर्य ! कदाचित् आप के इस प्रकार अधिक क्रुद्ध होने से बड़े भ्राता को क्षोभ न हो ।

  • जरासन्ध—जन्म के समय इसका शरीर दो भागों में विभक्त था । यह प्रकृतिविरुद्ध होने के कारण परित्यक्त कर दिया गया । इसके दोनों भागों को एकत्रित करके जरा राक्षसी ने सी दिया जिससे पुनः यह एकाकार हो गया । इसी से इसका नाम जरासन्ध पड़ गया । इसे भीमसेन ने भगवान् श्रीकृष्ण के संकेतमात्र से पुनः दो भागों में विभक्त कर दिया था जिससे इसकी मृत्यु हो गई ।

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १७ भीमसेनः—किं नाम कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति । पश्य— तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालत नयां वने व्याधैः सार्द्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ११ ॥ अत्र, आदिपदग्राह्यज्येष्ठभ्रातरि गुरुशब्दः । खेदं=परिदेव्यम्, अपि जानाति, न जानातीत्यर्थः । अन्वयः—तथाभूताम् पाञ्चालत नयाम् नृपसदसि, दृष्ट्वा, वने, व्याधैः, सार्द्धम्, वल्कलधरैः, सुचिरम्, उषितम्, विराटस्य, आवासे, अनुचितारम्भनिभृतम्, स्थितम्, मयि, खिन्ने (सत्यपि), गुरुः, अद्यापि, कुरुषु, खेदम्, न भजति ॥ ११ ॥ खेदकारणे सत्यपि युधिष्ठिरस्य खेदाभावं दर्शयति—तथाभूतामिति । तथाभूतां = रजस्वलां, आकृष्टकेशवस्त्राञ्च रजस्वलादिपदस्य वचनानर्हत्वात् रजस्वलादिपदेन न निर्देशः कृतः । पाञ्चालत नयां=द्रौपदीम्, नृपसदसि=राजसभायां, दृष्ट्वा=विलोक्य, स्त्रीगतदुःखदर्शनेन नितरां खेदयोग्यता दर्शिता । आत्मनि, भ्रातरि च दुःखं दर्श- यति-वने इति । वने = अरण्ये, व्याधैः=मृगयुभिः, सार्द्धम्=सह, वल्कलधरैः= त्वग्धरैः, अस्माभिरित्यर्थः । सुचिरं = बहुकालम्, उषितम् = निवासः कृतः, विरा- टस्य = विराटनामकनृपस्य, आवासे = गृहे, अनुचितारम्भनिभृतं=अनुचितारम्भेण, द्यूतसाहाय्यराचकताद्यनुष्ठानेन निभृतं = गुप्तं यथा स्यादेवम्, स्थितम् = स्थितिः कृता, अत्रेव दृष्ट्वेत्यस्य सम्बन्धः । परे तु स्थितमिति भावक्तान्तद्वितीयान्तं स्वीकृत्य खेदक्रियया भजनक्रियया च समानकर्तृत्वं स्थापयन्ति । एवम्भूतेन खेदकारणेन, मयि = भीमे, खिन्ने = सखेदे, सत्यपीति शेषः । गुरुः = आर्यो युधि- ष्ठिरः, अद्यापि = साम्प्रतमपि, कुरुषु = धृतराष्ट्रपुत्रेषु, खेदं = तापं, न भजति = न करोति । एवञ्च खेदाभावदर्शनेन युधिष्ठिरस्य खेदाज्ञानं दर्शितम् । अत्र खेदं प्रति भीमसेन—(हँसते हुए) क्यों ! बड़े भैया क्षुभित होंगे ? (क्रोध प्रकट करते हुए) प्रिय, क्या बड़े भैया को क्षुभित होने आता है ? देखो :— जब ज्येष्ठ भ्राता राजसभा में द्रौपदी की [केशाकर्षणरूप] दुर्दशा को, वल्कल [भूर्जपत्र] वस्त्र धारण करते हुए वन में कोलभिल्लों के साथ अधिक समय के निवास को, तथा विराट के यहाँ हास्यास्पद कार्य में नियुक्त होकर लुक-छिपकर जीवन व्यतीत करने को देखकर मेरे खिन्न होने पर भी कौरवों के विषय में क्षुभित नहीं हुए तो आज मुझसे क्षुभित होंगे ॥ ११ ॥ २ वे०

[Page Header: १८ वेणीसंहारं नाटकं]

तत्सहदेव, निवर्तस्व। एवं चापि चिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम्। सहदेवः—आर्य, किमिति। भीमसेनः— युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि। क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥ तथाभूतपाञ्चालतयादर्शनरूपैककारणस्य सत्त्वेऽपि 'खले कपोत' न्यायाद्वने व्याघ्रैः सार्द्ध' मित्याद्यनेककारणान्तराणामुपादानात्समुच्चयालंकारः। शिखरिणीछन्दः ॥११॥ तत् = तस्मात् सहदेव ! निवर्तस्व = निवृत्तो भव। चिरप्रवृद्धामर्षोद्दीपितस्य = चिरात् प्रवृद्धो यः अमर्षः क्रोधः तेन उद्दीपितस्य प्रज्वलितस्य। अन्वयः—युष्मच्छासनलङ्घनांहसि, मग्नेन, मया, स्थितम्, नाम, स्थिति- मताम्, अनुजानाम्, मध्ये, विगर्हणा, प्राप्ता नाम, क्रोधोल्लासितशोणितारुणगदस्य, कौरवान्, उच्छिन्दतः, मम, अद्य, एकम्, दिवसम्, गुरुः, न असि, अहम्, तव, विधेयः, न ॥ १२ ॥ विज्ञापनीयमेवाह—युष्मच्छासनेति। युष्मच्छासनलङ्घनांहसि = भवदीयाज्ञोल्ल- ङ्घनपापे, मग्नेन = निमग्नेन, मया = भीमेन, स्थितम्, नामेति प्राकाश्ये, इदं प्रकाशयामीत्यर्थः । स्थितिमताम् = ज्येष्ठाज्ञापालनरूपमर्यादावतां, अनुजानाम् = कनिष्ठभ्रातॄणाम् अपि, मध्ये अन्तरे 'न्याय्यावलग्नयोर्मध्यमन्तरे चाधमे त्रिषु' इति विश्वः। विगर्हणा = निन्दा, प्राप्ता = समासादिता, नाम सम्भावयामि यद्विगर्हणा प्राप्तेति । क्रोधोल्लासितशोणितारुणगदस्य-क्रोधेन = कोपेन, उल्लासिता = उत्थापिता, शोणितेन = रुधिरेण, अरुणा = रक्ता गदा येन, सः तस्य, कौरवान् = धार्तराष्ट्रान्, उच्छिन्दतः = निःशेषयतः, मम = भीमस्य, अद्य = इदानीम्, 'इदानीमद्य' इति अतः सहदेव, लौट जाओ, और चिरकाल में सञ्चित क्रोध से उद्दीप्त भीम की ओर से राजा युधिष्ठिर से कहो। सहदेव—आर्य, क्या कहें ? भीमसेन—इस प्रकार सूचित करो—'आपके आज्ञोल्लङ्घनरुपी पाप जल में डूबता हुआ मैं सम्भावना करता हूँ कि आज्ञापालनारत भाइयों के बीच निन्दनीय समझा जाऊँ। क्रोध के साथ रुधिर-से लिप्त गदा को घुमाते हुए तथा कौरवों का संहार करते हुए आज एक दिन के लिए न तो आप मेरे ज्येष्ठ भ्राता हैं और न मैं आपका आज्ञाकारी कनिष्ठ भ्राता'।

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १९ ( इत्युद्धतं परिक्रामति । ) सहदेवः—( तमेवानुगच्छन्नात्मगतम् । ) अये, कथमार्यः पाञ्चाल्याश्चतुः- शालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । ( इति स्थितः । ) भीमसेनः—(प्रतिनिवृत्यावलोक्य च । ) सहदेव, गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि । सहदेवः—आर्य नेदमायुधागारम् , पाञ्चाल्याश्चतुःशालकमिदम् । भीमसेनः—(सवितर्कम् । ) किं नाम नेदमायुधागारम्, पाञ्चाल्या- श्चतुःशालकमिदम् । ( विचिन्त्य, सहर्षम् । ) आमन्त्रयितव्यैव मया पाञ्चाली । ( सप्रणयं सहदेवं हस्ते गृहीत्वा । ) वत्स आगम्यताम् । यदार्यः कलापसूत्रेण निष्पन्नम् । एकं, दिवसम् = दिनम् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । गुरुः = ईश्वरः शासक इत्यर्थः । न, असि, अहं=भीमः, तव=युधिष्ठिरस्य, विधेयः = अनुशासनीयः, न । भवदाज्ञामनुरुध्य कौरवान् विनाशयिष्यामीति युधिष्ठिरम्प्रति सन्देश इति । अत्र कौरवविनाशरूपकार्यस्य, हेतोर्गण्डोल्लासस्य निन्दाप्राप्तिरूपाकार्यस्य हेतोर्ज्येष्ठभ्रातृशासनोल्लङ्घनस्य कथनात् परिकरनामकसन्धिः । तदुक्तं भरतेन—'कार्यकार्यार्थहेतूनामुक्तिः परिकरो मतः ॥' इति । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं द्वितीयश्लोके ॥ १२ ॥ पाञ्चाल्याः = द्रौपद्याः, चतुःशालम्=अन्योन्याभिमुखशालाचतुष्टयगृहम् । गुरुम् = युधिष्ठिरम्, अनुवर्तस्व = अनुसर । आयुधागारं = शस्त्रगृहम्, प्रविश्य= गत्वा, आयुधसहायः = गृहीतशस्त्रः । सवितर्कम् = सानुमानम् । मया, पाञ्चाली = द्रौपदी, आमन्त्रयितव्या=विचारयि- ( अहङ्कार के साथ घूमते हैं ) सहदेव—( भीम के पीछे जाते हुए मन ही मन ) अरे, क्यों, भार्य कृष्णा [ द्रौपदी ] के सदन में पहुँच गए, अच्छा, मैं यहीं ठहर जाता हूँ ( बैठ जाते हैं ) । भीमसेन—( लौटकर और देखकर ) सहदेव, जाओ बड़े भैया की आज्ञा का पालन करो । मैं भी शस्त्रागार में जाकर सहायतार्थ शस्त्र लेता हूँ । सहदेव—आर्य, यह शस्त्रागार नहीं, यह तो कृष्णा का आवास है । भीम—( भ्रमपूर्वक ) क्या यह शस्त्रागार नहीं ? क्या यह द्रौपदी का आवास है ? ( सोचकर हर्षपूर्वक ) कृष्णा से वार्तालाप करना ही है ( प्रेम के साथ सहदेव का हाथ पकड़- कर ) अनुज, आओ । भाई, महाराज कौरवों के साथ सन्धि की इच्छा करते हुए हमें जो जो

२० .वेणीसंहारं नाटकं कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु । ( उभौ प्रवेशं नाटयतः । भीमसेनः सक्रोधं भूमावुपविशति । ) सहदेवः—( ससंभ्रमम् । ) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यो मुहूर्तं पालयतु कृष्णागमनम् । भीमसेनः—( उपविश्य स्मृत्वा ।) वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् अथ भगवान्कृष्णः केन पणेन सन्धिं कर्तुं सुयोधनं प्रति प्रहितः । सहदेवः—आर्य, पञ्चभिर्ग्रामैः । भीमसेनः—( कर्णौ पिधाय ) अहह, देवस्याजातशत्रोरप्ययमहीह- तव्या तया साकं विचारः कर्तव्य इत्यर्थः । कुरुभिः=धृतराष्ट्रपुत्रैः, सन्धानम्=सन्धिम् । ससम्भ्रमम् = सोद्वेगम् । आस्तीर्णम् = विस्तृतम्, मुहूर्तम् = द्वादशक्षणाः 'ते तु मुहूर्तो द्वादशस्त्रियाम्' इत्यमरः । किञ्चित् कालमित्यर्थः । कृष्णागमनम् = कृष्णायाः, द्रौपद्या आगमनम् । उपोद्घातेन = प्रकृतानुक्लचिन्तया, तदुक्तम्- चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः । इति । समानानुपूर्वीकपदप्रतिपाद्यतया कृष्णस्यागमनविषयकस्मरणेन तत्कर्तृकसन्धि स्थापनरूपकार्यस्मरणेन सन्धिविषयकप्रश्नः क्रियत इति भावः । भगवान्=ऐश्वर्या दिमान्, कृष्णः = माधवः, केन, पणेन = मूल्येन, सन्धि = सन्धानम्, कर्तुं = सम्पाद यितुम्, सुयोधनं प्रति = दुर्योधनाभिमुखम् प्रहितः = गतः, प्रहित इत्यस्य प्रेषित इत्यर्थंस्तु न युक्तः स्वयंप्रतिपन्नदौत्येनेत्यादिपूर्वग्रन्थविरोधात् नहि केनचित्प्रेषितः स्वयंदूतो भवितुमर्हति परप्रतिपन्नदौत्यात् । अहहेति खेदद्योतकः । देवस्य = भगवतः, अजातशत्रोः=अनुत्पन्नरिपोः, युधिष्ठिर- कष्ट दे रहे हैं उसे तुम भी देख लो । ( घूमकर गृह में प्रवेश करने का अभिनय करते हैं, भीमसेन क्रोधपूर्वक पृथ्वी पर बैठ जाते हैं ।) सहदेव-( अत्यन्त शीघ्रता से ) आर्य, वह आसन बिछा हुआ है, यहाँ बैठ कर आप कृष्णा के आगमन की प्रतीक्षा थोड़े समय तक कर लें । भीम-( बैठकर और स्मरण कर ) भाई, कृष्णागमन के प्रसङ्ग से यह स्मरण हो आया । भगवान् वासुदेव किस शर्त पर सन्धि व्यवस्थापित करने के लिये सुयोधन के समक्ष गये हैं ? सहदेव-आर्य, पाँच ग्राम के लिये । भीम-( कानों को बन्द कर ) कष्ट ! कष्ट !! अजातशत्रु महाराज युधिष्ठिर का तेज इस

स्तेजोऽपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । (परिवृत्य स्थित्वा ।) तद्वत्स, न त्वया कथितं न च मया भीमेन श्रुतम्— यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ १३ ॥ ( नेपथ्ये ) समस्ससदु समस्ससदु भट्टिणी । ( समाश्वसितु समाश्वसितु भट्टिनी । ) सहदेवः—(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये, कथं याज्ञसेनी मुहुरुपचीयमानवाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति । तत्कष्टतर- मापत्तितम् । स्येत्यर्थः । तेजोऽपकर्षः = प्रतापहानिः । यत्सत्यमिति समुदायः असम्भाव्यार्थद्योतकः, तस्य च कम्पनक्रियायामन्वयः, तथा च, असम्भाव्यकम्पनाश्रयमिदं मे हृदयम् । अन्वयः—अस्य, भूपतेः, यत्, तत्, ऊर्जितम्, अत्युग्रम् क्षात्रम्, तेजः, अक्षैः, दीव्यता, अनेन, तदा, नूनम्, तत्, अपि, हारितम् ॥ १३ ॥ यतः पञ्चभिर्ग्रामैः सन्धिं करोष्यतो जाने नास्य तेजोऽस्तीत्याह—यत्तदिति । अस्य भूपतेः = युधिष्ठिरस्य यत् तत् = प्रसिद्धम्, ऊर्जितम् = बलवत्, अत्युग्रम् = अतितीक्ष्णम्, क्षात्रं = क्षत्रियसम्बन्धि, तेजः = प्रतापः, अक्षैः = द्यूतैः, दीव्यता = क्रीडता, अनेन = युधिष्ठिरेण, तदा = तस्मिन् काले, नूनं = निश्चयम्, तत् = तेजः अपि हारितम् = विनाशितम् । पथ्यावक्त्रं छन्दः ॥ १३ ॥ भट्टिनी = यद्यपि कृताभिषेकातिरिक्तराजपत्नी, 'देवी कृताभिषेकायाम्, इतरासु तु भट्टिनी' इत्यमरात् भट्टिनीत्युच्यते तथापि लक्षण्या देव्यामपि भट्टिनीपदप्रयोगः । मुहुरुपचीयमानवाष्पपटलस्थगितनयना = पुनर्वर्द्धमानोष्माश्रुसमुदायाच्छन्ननेत्रा, प्रकार क्यों कर गौण हो गया है ? यदि सत्य है तो मेरा हृदय काँपने हुए के सदृश है ( पराङ्मुख होकर और स्थित होकर ) अच्छा वत्स, न तो तुमने कहा और न मैंने सुना [ अर्थात् सन्धि-बात की चर्चा न करो ] । महाराज का जो अत्यन्त उद्ग्र पराक्रमसम्पन्न क्षत्रियोचित तेज था यह निश्चय है कि द्यूत- क्रीडा करके उसे भी इन्होंने अपने हाथ से चले जाने दिया है ॥ १३ ॥ ( नेपथ्य में ) महारानी, धैर्य धारण करें, धैर्य्य धारण करें, कौरवों के सहजशत्रु कुमार भीमसेन आप -के क्रोध की शान्ति करेंगे । सहदेव—( नेपथ्य की ओर कान करके और देखकर मन ही मन ) अरे, क्यों, श्रीमती द्रौपदी आर्य के समीप चली आ रही हैं ! आँसुओं के अधिक भर जाने से नेत्र डबडबाये हैं । यह तो महान् कष्ट उपस्थित हुआ ।

२२ वेणीसंहारं नाटकं यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् । तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १४ ॥ (ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।) (द्रौपदी सास्त्रं निःश्वसिति ।) चेटी—समस्ससदु समस्ससदु भट्टिणी । अवणइस्यदि दे मण्णुं णिच्चाणु- बद्धकुरुबेरो कुमालो भीमसेणो । (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।) द्रौपदी—हञ्जे बुद्धिमदिए, होदि एदं जइ महाराओ पडिकूलो ण भवे । ता णाहं पेक्खिदुं तुवरदि मे हिअअं । आदेसेहि मे णाहस्स वासभवणं । (हञ्जे बुद्धिमत्तिके भवेदेतद्यदि महाराजः प्रतिकूलो न भवेत् । आर्यसमीपं = भीमसंविधे, उपसर्पति = गच्छति । अन्वयः—अद्य, क्रुद्धे, आर्ये, वैद्युतमिव, यत्, ज्योतिः, सम्भृतम्, इयम्, कृष्णा, नूनम्, तत्, प्रावृट्, इव, संवर्धयिष्यति ॥ १४ ॥ यद्वैद्युतमिति । अद्य = इदानीम्, क्रुद्धे = कुपिते, आर्ये = भीमे, वैद्युतमिव = तडिदुद्भवसदृशम्, यत्, ज्योतिः = तेजः, सम्भृतम् = उत्पन्नम्, इयं, कृष्णा = द्रौपदी, नूनम् = निश्चयम्, तत् = ज्योतिः, प्रावृट् = वर्षाकाल इव, संवर्धयिष्यति = एधयिष्यति । यथा प्रावृट्कालः, विद्युत्तेजः संवर्धयति तथैव द्रौपदी भीमक्रोधं संवर्धयिष्यतीत्यर्थः । अत्र पूर्णोपमाऽलङ्कारः पथ्यावक्त्रं छन्दः । लक्षणमुक्तं नवमश्लोके ॥ १४ ॥ अपनेष्यति = दूरीकरिष्यति, ते = तव, मन्युं = क्रोधं, नित्यानुबद्धकुरुवैरः = नित्यम् अनुबद्धः, सम्बद्धः कुरुवैरः धार्तराष्ट्रविद्वेषः यस्य सः । चेटीं प्रति 'हञ्जे' इत्युच्यते 'हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीम्प्रती'त्यमरः । आज आर्य भीमसेन के क्रुद्ध होने पर विद्युतप्रकाश के सदृश उनका तेज हो गया है, अब उसे वर्षा ऋतु की भाँति अवश्य यह महारानी [द्रौपदी] बढ़ायेंगी [अर्थात् क्रोधान्ध भीमसेन द्रौपदी के वचनों से और उत्तेजित हो उठेंगे ] ॥ १४ ॥ (द्रौपदी का चेटी के साथ प्रवेश ) (द्रौपदी डबडबाए हुए नेत्रों से ठण्डी श्वास लेती हैं) चेटी—धैर्य धरें, धैर्य धरें, महारानी, सहज कौरवशत्रु कुमार भीमसेन आप का क्रोध निवारण करेंगे। द्रौपदी—अरी, बुद्धिमत्तिके, ऐसा ही होता यदि महाराज विपरीत न होते । प्राणनाथ का

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३ तन्नाथं प्रेक्षितुं त्वरते मे हृदयम् । तदादेशय मे नाथस्य वासभवनम् ) ( इति परिक्रामतः ) चेटी—एदु एदु भट्टिणी एदं वासभवणं । एत्थ पविसदु भट्टिणी । (एत्वेतु भट्टिनी । एतद्वासभवनम् । अत्र प्रविशतु भट्टिनी ।) द्रौपदी—हञ्जे, कहेहि णाहस्स मह आगमणं । ( हञ्जे, कथय नाथस्य ममागमनम् । ) चेटी—जं देवी आणवेदि । ( इति परिक्रम्योपसृत्य च ) जयदु जयदु कुमालो । ( यद्देव्याज्ञापयति । जयतु जयतु कुमारः । ) ( भीमसेनोऽशृण्वन् 'यत्तदूर्जितम्' ( १।१३ ) इति पुनः पठति । ) चेटी—( परिवृत्य । ) भट्टिणि, पिअं दे णिवेदेमि । परिकुविदो विअ कुमालो लक्खीअदि ( भट्टिनि प्रियं ते निवेदयामि । परिकुपित इव कुमारो लक्ष्यते । ) यदि, महाराजः = युधिष्ठिरः, प्रतिकूलः = अननुकूलः, न भवेत्, तदा, एतद्भवति = क्रोधापनयनं भवेत् । तत् = तस्मात्, नाथं = स्वामिनम् भीममित्यर्थः । प्रेक्षितुं = द्रष्टुम्, त्वरते = शीघ्रतां करोति, मे = मम, हृदयम् = स्वान्तम् । एतु = आगच्छतु, द्विरुक्तिः शीघ्रताद्योतनार्था । भट्टिनी = राजयोषित् । एतद्वा- सभवनम् = इदं वासगृहम् । कथयेति—द्रौपदी आगतेति कथयेत्यर्थः । देवी = राजपत्नी, यत्, आज्ञापयति = आदिशति, जयतु = उत्कृष्टेन वर्तताम् । अशृण्वन् = अनाकर्णयन्, शतृप्रत्ययान्तोऽयम् । भट्टिनि = देवि, प्रियम् = इष्टम् ते = तव, निवेदयामि = कथयामि, कुमारः, परिकुपित इव = क्रुद्ध इव, लक्ष्यते = दृश्यते । दर्शन करनेके लिये मेरा हृदय चञ्चल हो रहा है अतः स्वामी के आवास का पथ प्रदर्शन कर । ( दोनों चली आती हैं ) चेटी—आइये, आइये स्वामिनी, द्रौपदी—अये, मेरा आगमन नाथ को कहो । चेटी—अच्छा, ऐसा ही करूँगी । युवराज की विजय हो, विजय हो । भीमसेन—( न सुनकर क्रोधपूर्वक 'यत्तदूर्जितम्' यह श्लोक फिर से पढ़ते हैं । ) चेटी—( द्रौपदी के समीप जाकर ) महारानी, एक कर्णसुखद संवाद सुनाती हूँ । युवराज क्रुद्ध से प्रतीत हो रहे हैं ।

२४ वेणीसंहारं नाटकं द्रौपदी—हञ्जे, जइ एवं ता अवहीरणावि एषा म आसासयदि। ता एअन्ते उवविट्ठा भविअ सुणुमो दाव णाहस्स ववसिदं। (हञ्जे, यद्येवं तद- वधीरणाप्येषा मामाश्वासयति। तदेकान्त उपविष्टा भूत्वा शृणुमस्तावन्नाथस्य व्यव- सितम्।) (उभे तथा कुरुतः) भीमसेनः—(सहदेवमधिकृत्य) किं नाम पञ्चभिर्ग्रामैः सन्धिः। मथ्नामि कौरवशतं समरे न कोपात्- दुःशासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेन ॥ १५ ॥ यदि, एवम् = क्रुद्धो भीमसेनः, तदा, अवधीरणा = तिरस्कारः, अपि एषा - भीमकृता, माम्, आश्वासयति = आश्वासनं करोति, सुखयतीत्यर्थः। तत् = तस्मात्, एकान्ते = रहसि, उपविष्टाः = उपवेशं कृतवत्यः, शृणुमः = आकर्णयामः, तावत् नाथस्य = पत्युः, व्यवसितम् = व्यवसायम्। अन्वयः—समरे, कोपात्, कौरवशतम्, न, मथ्नामि, दुःशासनस्य, उरस्तः, रुधिरम्, न, पिबामि, गदया, सुयोधनोरू, न, सञ्चूर्णयामि, भवताम्, नृपतिः, पणेन, सन्धिम् करोतु ॥ १५ ॥ राजा सन्धि करोतु अहन्तु कौरवान्विनाशयिष्याम्येवेत्याह—मथ्नामीति। समरे = सङ्ग्रामे, कोपात् = क्रोधात्, कौरवशतं = दुर्योधनादीन्, न मथ्नामि = न मथिष्यामि अत्र नञा काकोः प्रत्ययात्, मथिष्याम्येवेति व्यज्यते एवमग्रिमेऽपि क्रियासत्तामेव व्यनक्ति। दुःशासनस्य = दुर्योधनकनिष्ठभ्रातुः, उरस्तः = वक्षसः। पञ्चम्यास्तसिल्। रुधिरम् = रक्तम्, न पिबामि = न पास्यामि, सर्वत्र वर्तमानसा- मीप्ये लट्। गदया = शस्त्रविशेषेण, सुयोधनोरू = दुर्योधनस्य सक्थिनी, न सञ्चूर्णं- यामि = न मर्दयिष्यामि। भवतां = युष्माकं, नृपतिः = राजा, पणेन = ग्रामपञ्चक- द्रौपदी—अरी, यदि यह बात है तो यह तिरस्कार भी मुझे आश्वासन (धैर्य) देता है। अच्छा—एकान्त में बैठकर पहले प्रियतम को व्यवस्था (कार्यक्रम) को तो सुनें। (दोनों एकान्त में बैठकर सुनती हैं) भीम—(क्रोधपूर्वक सहदेव से) क्या पाँच ही ग्राम पर सन्धि ? क्या मैं संग्राम में क्रोध से सौ कौरवों का मर्दन न कर डालूँगा ? हृदय-प्रदेश से क्या दुःशासन का रक्तपान न करूँगा ? क्या मैं गदा से दुर्योधन की जाँघ का चूर्ण न बना डालूँगा ? तुम लोगों के राजा (युधिष्ठिर) इस नियम पर सन्धि करें (अर्थात् मैं तो सन्धि नहीं करता) ॥ १५ ॥

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५ द्रौपदी—( सहर्षम् । जनान्तिकम् । ) णाह, अस्सुदपुव्वं खु दे एदिसं वअणं । ता पुणो पुणो दाव भणाहि । (नाथ, अश्रुतपूर्वं खलु त ईदृशं वचनम् । तत्पुनः पुनस्तावद्ब्रूहि । ) ( भीमसेनोऽशृण्वन्नेव 'मथ्नामि कौरवशतम्' ( १।१५ ) इति पुनः पठति । ) सहदेवः—आर्य, किं महाराजस्य सन्देशोऽयमार्येणाव्युत्पन्न इव गृहीतः । भीमसेनः—कः पुनरत्र व्युत्पत्तिः । सहदेवः —आर्य ! एवं गुरुणा सन्दिष्टम् । भीमसेनः —कस्य । सहदेवः —सुयोधनस्य । रूपेण सन्धि = सन्धानम्, करोतु=सम्पादयतु । प्रतिमुखरूपः सन्धिेश्च, एतल्लक्षणं च— आनुषङ्गिककार्येण क्रियते यत्प्रकाशनम् । नष्टस्येवेह बीजस्य तद्धि प्रतिमुखं मतम् ॥ इति । वसन्ततिलकाछन्दः ॥ १५ ॥ सहर्षम् = सानन्दम् । जनान्तिकम् = रङ्गदर्शकसमीपे, अयोन्मन्त्रणम्, तदुक्तं दर्पणे —अन्योऽन्यामन्त्रणं यत्स्यात्तज्जनान्ते, जनान्तिकम् । इति । अश्रुतपूर्वं = न श्रुतम्, अश्रुतम् पूर्वम् अश्रुतम् इति अश्रुतपूर्वम् 'सुप्सुपे'ति समासः । ईदृशम् = पूर्वोक्तं 'मथ्नामी'त्यादि, ते = तव, वचनम् = वाणी, तत् = तस्मात् पुनः पुनः = भूयोभूयः, तावत्, भण = निगद । आर्य=श्रेष्ठ, महाराजस्य = युधिष्ठिरस्य, सन्देशः = वाचिकं 'सन्देशवाग्वाचिकं स्यादि'त्यमरः । आर्येण = भवता, अव्युत्पन्न इव = तात्पर्याविषय इव, किम्, किमिति प्रश्ने, गृहीतः = अवगतः । तत्तात्पर्यानभिज्ञो भवान्, इत्यर्थः । अत्र = युधिष्ठिरवाक्ये, व्युत्पत्तिः = तात्पर्यम् । किं तात्पर्यमित्यर्थः । द्रौपदी—( प्रसन्न होकर सबके समक्ष ) स्वामिन्, आपके वचन अपूर्व हैं ऐसा कभी भी श्रुतिगोचर नहीं हुआ था । अच्छा इसे फिर कहने की कृपा कीजिये । भीम—सहदेव, देखो ( मथ्नामि कौरवशतं ... श्लोक फिर पढ़ते हैं ) । सहदेव—क्या महाराज के सन्देश का रहस्य न समझकर आपने इसी प्रकार सुनकर मान लिया । भीम—वह सन्देश क्या है ? सहदेव—आर्य महाराज ने इस प्रकार सन्देश दिया है । भीम—किसे सन्देश दिया है । सहदेव—सुयोधन को ।

२६ वेणीसंहारं नाटकं भीमसेनः—किमिति । सहदेवः—इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । प्रयच्छ चतुरो ग्रामान्कञ्चिदेकं च पञ्चमम् ॥ १६ ॥ भीमसेनः—ततः किम् । सहदेवः—तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विष- भोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये । अन्वयः—इन्द्रप्रस्थम्, वृकप्रस्थम्, जयन्तम् वारणावतम्, चतुरः, ग्रामान्, प्रयच्छ, कञ्चित्, एकम्, पञ्चमम्, च, ( प्रयच्छ ) ॥ १६ ॥ युधिष्ठिरप्रेषितसन्देशमेवाह—इन्द्रप्रस्थमिति । इन्द्रप्रस्थं=खाण्डवप्रस्थम्, ‘हस्तिनापुरान्निर्वासितो युधिष्ठिरः स्वनिवासायेन्द्रप्रस्थनामकं नगरं रचयामास’ एतेन निर्वासनरूपोऽपकारः सूचितः । वृकप्रस्थम् = भीमस्य वृकोदरनामप्राप्ति-स्थानम् अत्रैव दुर्योधनादिभिः विषदानेन मदमत्तोऽकारि, एतेन विषदानरूपोऽपकारः सूचितः । जयन्तम् = द्यूतक्रीडास्थानम्, ‘अत्रैव द्यूतेन राज्यादीनपहृत्य वनवासो दत्तः, एतेन छलेन राज्याद्यपहरणरूपोऽपकारः सूचितः । वारणावतम्–लाक्षागृहदाहस्थानम् ‘लाक्षागृहे निवसति युधिष्ठिरे दुर्योधनाज्ञया पुरोचनेन वह्नौ प्रज्वालिते कष्टेन तस्मान्निर्गतो युधिष्ठिरः’ एतेन प्राणहरणोपायरूपोऽपकारः सूचितः । चतुरः=उक्तनाम- निर्दिष्टान् चतुःसंख्याकान्, ग्रामान् = संवसथान्, ‘सभो संवसथग्रामौ’ इत्यमरः । प्रयच्छ=देहि, कञ्चित्=नाम्नाऽनिर्दिष्टम् एकं, पञ्चमं, च । चतुरपकारसूचनानन्तरम्, नाम्नाऽनिर्दिष्टस्य ‘पञ्च’ पञ्चत्वं भावप्रधाननिर्देशः, माति दधाति पञ्चम इत्येवं निष्पन्नस्य पञ्चमस्य कथनात् मरणप्रापकयुद्धस्थानं सूचितम् । पथ्यावक्त्र- च्छन्दः ॥ १६ ॥ तात्पर्यानभिज्ञो भीमसेन आह—ततः किमिति । सहदेवस्तात्पर्यं स्पष्टतयाऽऽह—तदेवमिति । प्रतिनामग्रामप्रार्थनया = तत्तन्नाम- निर्देशपूर्वकग्रामयाचनेन, पञ्चमस्य च, अकीर्तनात् = नामाकथनात् । भीम—क्या ? सहदेव—इन्द्रप्रस्थ, वृकप्रस्थ, जयन्त और वारणावत इन चार ग्रामों को और पाचवाँ कोई एक जो इच्छा हो दीजिये ॥ १६ ॥ भीम—तो इससे क्या ? ( अर्थात् इसमें क्या रहस्य है ? ) । सहदेव—इस प्रकार चार ग्रामों का नाम लेकर तथा पाचवें का नाम न लेकर प्रार्थना करने से मुझे विदित होता है, ‘महाराज ने विषप्रदान, लाक्षानिर्मित भवन के भस्मीकरण और कपटपाश इत्यादि अपकारों की स्मृति कराई है’ ।

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २७ भीमसेनः - ( साटोपम् । ) वत्स, एवं कृते किं भवति ? सहदेवः - आर्य, एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति, कुरुराजस्य तावदसन्धेयता तदैव प्रतिपादिता भवति । भीमसेनः - मूढ, सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसन्धेयता तदैव प्रतिपादिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । लोकेऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम् । अपि च रे मूर्ख, युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दाराणां सभायां केशकर्षणम् ॥ १७ ॥ द्रौपदी - (जनान्तिकम् । ) णाह, ण लज्जन्ति एदे । तुम वि दाव मा विसुमरेरि । ( नाथ, न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः । ) । स्वगोत्रक्षयाशङ्कि = निजवंशविनाशशङ्ककम्, आविष्कृतम् = प्रकटितम् । निधनम् = मरणम् । अन्वयः - क्रोधात्, शत्रुकुलक्षयः, लोके, युष्मान्, ह्रेपयति, सभायाम्, दारा- णाम्, केशकर्षणम्, न लज्जयति ॥ १७ ॥ युष्मानिति । क्रोधात् = क्रोधात्, शत्रुकुलक्षयः = रिपुवंशविनाशः, लोके = जगति, युष्मान् = भवतः, ह्रेपयति = त्रपयति, सभायां = सदसि, दाराणां = स्त्रीणाम्, केश- कर्षणम् = कचाकर्षणम्, न = नहि, लज्जयति = त्रपयति । सभायां द्रौपदीकेशकर्षणा- दधिकं न किमपि लज्जाकरमिति भावः । पथ्यावक्त्रं छन्दः ॥ १७ ॥ मा विस्मार्षीः = न विस्मर । माङि लुङ् , इति लुङ् प्रत्ययः ॥ भीम - ( आवेश में आकर ) ऐसा करने से क्या लाभ ? सहदेव - (आर्य, ऐसा करने से एक तो संसार के समक्ष स्पष्ट हो जायगा कि महाराज का हृदय अपने गोत्रवध से दुःखी होता है दूसरे उसके अपकारों को स्मरण कराकर उसके साथ सन्धि न करना ही दिखाया है । भीम - यह सब व्यर्थ की बात है । कौरवों के साथ सन्धि तो तभी स्थगित हो गई जब हम लोगों ने यहाँ से निर्वासित होकर वन में जाते समय कौरवों के वंशनाश की प्रतिज्ञा की थी । धृतराष्ट्र के कुल की समाप्ति की बात संसार जान गया है । क्या यह आप लोगों के लिये लज्जा की बात है ? अरे मूर्ख :- (क्रोध से) शत्रुवंश का नाश संसार में आप लोगों को लज्जित करता है परन्तु भरी सभा में स्त्री का केशापकर्षण आप लोगों को लज्जित नहीं करता ॥ १७॥ द्रौपदी - ( सबके समक्ष ) नाथ । इन्हें लज्जा नहीं है देखना आप भी भूल जाना ।

२८ वेणीसंहारं नाटकं भीमसेनः—वत्स, कथं चिरयति पाञ्चाली । सहदेवः—आर्य, का खलु वेलाऽत्रभवत्याः प्राप्तायाः । किन्तु रोषावेश- वशादार्याऽऽगताप्यार्येण नोपलक्षिता । भीमसेनः—(दृष्ट्वा सादरम् ) देवि, वर्धितामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि । द्रौपदी—णाह, उदासीणेसु तुम्हेसु मह मण्णु. ण उण कुविदेसु । (नाथ, उदासीनेषु युष्मासु मम मन्युः, न पुनः कुपितेषु । ) भीमसेनः—यद्येवमपगतपरिभवमात्मानं समर्थयस्व । ( हस्ते गृहीत्वा, पार्श्वे समुपवेश्य, मुखमवलोक्य । ) किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि। द्रौपदी—णाह, किं वि उव्वेअकालंणं तुम्हेसु सण्णिहिदेसु । ( नाथ, किमप्युद्वेगकारणं युष्मासु सन्निहितेषु । ) कथम् = कस्माद्धेतोः, पाञ्चाली = द्रौपदी, चिरयति = विलम्बं कुरुते । का खलु वेला = चिरकालः । वर्धितामर्षैः = उद्दीपितक्रोधैः । नोपलक्षिता = नावगता । मन्युं = क्रोधम्, 'मन्यु- दैन्ये क्रतौ क्रुधि' इत्यमरः । उदासीनेषु = विषयासक्तेषु ? अपगतपरिभवम् = समाप्ततिरस्कारम् । आत्मानं = स्वम्, समर्थयस्व = अव- गच्छ । उपलक्षयामि = जानामि । युष्मासु = वीरेषु, भवत्सु, सन्निहितेषु = समीपस्थेषु, नतु अन्यत्र गतेषु, किम- भीमसेन—( स्मरणपूर्वक ) प्रिय, क्यों द्रौपदी को विलम्ब हो रहा है युद्ध के लिये शीघ्रातिशीघ्र तय्यार हो जाने के लिए मेरा मन मुझे प्रेरित कर रहा है। सहदेव—आर्य ! श्रीमती जी के आये हुए बहुत विलम्ब हो गया क्रोध के आवेश में पड़ कर आपने इन्हें देखा ही नहीं । भीम—( देखकर आदरपूर्वक र ) देवि ! हम लोगों ने क्रोध के आवेश में होकर नहीं देखा यद्यपि आप सम्मुख खड़ी हैं अतः आप क्रोध न करें । द्रौपदी—नाथ, यदि आप लोग उपेक्षा करके बैठ जाते तो मैं क्रोध करती परन्तु आप लोगों को प्रतिशोध करने के लिए उद्यत देखती हूँ अतः क्रोध कैसा ? भीम—यदि ऐसी बात है तो समझ लीजिये कि आप के अपमान का प्रतिकार हो ही गया । ( हाथ पकड़कर बगल में बैठा लेते हैं और उनके मुख की ओर देखकर ) क्यों आप व्याकुल सी प्रतीत हो रही हैं ? द्रौपदी—स्वामिन्, आप लोगोंके समीप रहते हुए उद्विग्नताका क्या कारण हो सकता है !

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९ भीमसेनः—किमिति नावेदयसि । ( केशानवलोक्य । ) अथवा किमा- वेदितेन । जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च। पाञ्चालराजतनया वहते यदिमां दशाम् ॥ १८ ॥ द्रौपदी—हज्जे बुद्धिमदिए, कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ (हज्जे बुद्धिमत्तिके ! कथय नाथस्य कोऽन्यो मम परिभवेण खिद्यते । ) चेटी—जं देवो आणवेदि । ( भीममुपसृत्य । अञ्जलिं बद्ध्वा ) सुणादु- कुमालो । इदो वि अहिअदरं अज्ज उव्वेअकारणं आसी देवीए । ( यद्दे- व्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः । ) प्युद्वेगकारणं, न किमपीत्यर्थः । अन्वयः—पाण्डुपुत्रेषु, जीवत्सु, दूरम्, अप्रोषितेषु, च, पाञ्चालराजतनया, यत् इमाम्, दशाम्, वहते ॥ १८ ॥ अस्माकं सन्निधाने सति तादृशदशायोग्या द्रौपदी नेत्याह—जीवत्स्विति । पाण्डुपुत्रेषु = युधिष्ठिरादिषु, जीवत्सु=प्राणान् धारयत्सु, दूरम् = असमीपम्, क्रिया- विशेषणमिदम् । अप्रोषितेषु = परदेशेऽवसत्सु, च, पाञ्चालराजतनया = पाञ्चाल देशाधिपसुता, द्रौपदी, इत्यर्थः । राजतनयेत्यनेन दुःखसहनयोग्यता दर्शिता । यत्, इमाम् = अबद्धकेशां, दशां=स्थितिम्, वहते = प्राप्नोति । 'या दशा अस्वामिन्याः प्रोषितभर्तृकाया वा, सा दशा वीरपल्या द्रौपद्या वर्तते' इति भावः । अत्र विभावना- विशेषोक्त्योः, सन्देहसङ्करोऽलङ्कारः । पथ्यावक्त्रं छन्दः ॥ १८ ॥ नाथस्य कथय । उद्वेगकारणमिति शेषः । इतोऽपि = अस्मादपि, अधिकतरम् = उत्कृष्टम्, अद्य = अस्मिन्नहनि, द्वेगका- रणम् = उद्वेजनहेतुः । भीमसेन—क्यों नहीं कहती ? ( बालों को देखकर और उच्छ्वास लेकर ) अथवा कह कर ही क्या करेंगी ! ( क्योकि ) पाण्डुकुमार अभी जी रहे हैं और कहीं दूर भी नहीं चले गए हैं फिर पाञ्चालनरेश की पुत्री हैं और इस दशा को प्राप्त हो गई है ॥ १८ ॥ द्रौपदी—अरी बुद्धिमत्तिके, सम्पूर्ण घटना स्वामी से कह दो न, मेरे अपमानित होने पर इनके अतिरिक्त कौन दुःखी होगा ? चेटी—अच्छा महारानी की जो आज्ञा । ( भीमसेन के समीप जाकर हाथ जोड़कर ) सुनें । इससे भी बढ़कर आज महारानी की उद्विग्नता में कारण हुआ है ।

३० वेणीसंहारं नाटकं भीमसेनः—कि नामास्मादप्यधिकतरम् । बुद्धिमत्तिके, कथय । कौरव्यवंशदावेऽस्मिन्क एव शलभायते । मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १९ ॥ चेटीः—सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्व- मुहेण सवत्तिवग्गेण परिवुदा अज्जाए गन्धारीए पादवन्दणं कादुं गदा। ( शृणोतु कुमारः। अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेन सपत्नीवर्गेण परिवृता आर्याया गान्धार्याः पादवन्दनं कर्तुं गता । ) भीमसेनः—युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः । अन्वयः —कौरव्यवंशदावे, अस्मिन्, ( कृष्णां ) धूमशिखाम्, इव, बद्धवेणीम्, एनाम्, कृष्णाम्, स्पृशन्, कः, एषः, शलभायते ॥ १९ ॥ कौरव्येति । कौरव्यवंशदावे = कौरव्यः वंश इव । उपमितसमासः । मानसराज हंसवद्, वंशस्य श्लेषेण निर्देशः, एकस्य कुलमर्थः । अन्यस्य वेणुः । तस्मिन् यो दावः दवाग्निः, तस्मिन् कौरव्यवंशदावे, अस्मिन् = मयि, भीमे, कृष्णां नीलाम्, कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि इत्यमरः । धूमशिखाम् = धूमकेतुम्, इव, मुक्तवेणीम् =अबद्धकेशवेशाम्, एनाम्=उपस्थिताम्, कृष्णाम्=द्रौपदीम्, स्पृशन्=छुपन् एषः, शलभायते = पतङ्गायते, पतङ्ग इवाचरतीत्यर्थः । कौरव्यवंशेत्यत्र लुप्तोपमा कौरव्यवंशदावेत्यत्र रूपकं व्यङ्ग्योपमा, एतेषामङ्गाङ्गिभावात् सङ्करः । पध्यावक्त्रं छन्दः ॥ १६ ॥ सुभद्राप्रमुखेन = कृष्णस्वसृप्रधानेन, सपत्नीवर्गेण = समानः पतिर्यस्याः सा सपत्नी, तस्याः वर्गेण समुदायेन, परिवृता = युक्ता, अम्बासहिता =कुन्तीसंयुक्ता, देवी, आर्यायाः, गान्धार्याः=धृतराष्ट्रपत्न्याः पादवन्दनम्=चरणवन्दनां, कर्तुम्, अद्य, खलु, गता, इत्यन्वयः । खल्विति वाक्यालङ्कारे । ततस्ततः = तदनन्तरम् । भीमसेन—क्यों ! बुद्धिमत्तिके, इससे भी बढ़कर ! तो कहो, कहो । बांस वृक्ष के सदृश कुरुवंश के इस दावाग्नि में धूमशिखा के सदृश बद्धकेश-पाशा पाञ्चाली से विरोध कर कौन व्यक्ति फतिंगे की भाँति जल भुनकर विनष्ट होना चाहता है ॥ १९ ॥ चेटी—कुमार सुनें । आज महारानी माता के साथ सुभद्रादि सपत्नियों को लेकर पूज्या गान्धारी ( माता ) के चरणों में नमस्कारार्थ गई थीं । भीमसेन—यह तो उचित ही है, बड़े लोग अभिवन्द्य हैं ही—तो फिर !

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१ चेटी—तदो पडिणिवुत्तमाणा भाणुमदीए देवी दिट्ठा । (ततः प्रतिनिवर्त- माना भानुमत्या देवी दृष्टा ।) भीमसेनः—(सक्रोधम् ) आः, शत्रोर्भार्यया दृष्टा । हन्त, स्थानं क्रोधस्य देव्याः । ततस्ततः । चेटी—तदो ताए देवी पेक्खिअ सहोजणदिण्णदिट्ठिए सगव्वं ईसि विहसिअ भणिअं । अइ जण्णसेणि, कसि तुम्हाणं अज्जवि केसा ण संजमीअन्ति । (ततस्तया देवीं प्रेक्ष्य सखीजनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् । अयि याज्ञसेनि, कस्माद्युष्माकमद्यापि केशा न संयम्यन्ते ।) भीमसेनः—सहदेव, श्रुतम् । सहदेवः—आर्य, उचितमेवैतत्तस्याः । दुर्योधनकलत्रं हि सा पश्य । प्रतिनिवर्तमाना = प्रत्यागच्छन्ती, भानुमत्या = दुर्योधनपत्न्या । हन्त, इति विषादे । विषादोऽयमित्यर्थः 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषाद योरित्यमरः । सखीजनदत्तदृष्ट्या = सखीजने, आलिजने दत्ता दृष्टिः यया, तया । सगर्वम् = साहङ्कारम् । भणितम् = निगदितम् । याज्ञसेनि = द्रौपदि । अद्यापि = इदानीमपि । संयम्यन्ते = बध्यन्ते । एतत् = पूर्वोक्तवचनम्, उचितमेव = युक्तमेव, एवेत्यवधारणे । तस्याः = भानु- मत्याः, इत्यन्वयः । हि = यतः, सा = भानुमती, दुर्योधनकलत्रम् = दुर्योधनस्य स्त्री । दुर्योधनकलत्रमित्यनेन यथा दुर्योधनो धृष्टस्तथा तस्य भार्यापीति सूचितम् । चेटी—उसी समय लौटती हुई महारानी को भानुमती ने देखा । भीमसेन—(क्रोधावेश में होकर ) अरे ! शत्रु की स्त्री ने देखा ! दुःख ! तब तो देवी का क्रोध अवसरोचित है । अच्छा फिर क्या हुआ ? चेटी—इसके अनन्तर उसने (भानुमती ने) महारानी की ओर देखकर सखियों को संकेत किया और फिर वह थोड़ी मुसकराती हुई अभिमान से ऐंठकर बोली । अये ! महारानी द्रौपदी, (सुना जाता है पाँच गाँव लेकर सन्धि की बातचीत की गई है) अब भी आपने अपने केशपाशों का संयमन (बाँधना) नहीं किया है । भीमसेन—सहदेव, सुना । सहदेव—आर्य, यह तो उसके लिये उचित ही है अन्ततोगत्वा दुर्योधन ही की स्त्री है न, देखिये ।

३२ वेणीसंहारं नाटकं स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ २० ॥ भीमसेनः—बुद्धिमत्तिके ततो देव्या किमभिहितम् । चेटी—कुमाल, जइ पडिहीणं मम वयणं भवे तदो देवी भणादि । ( कुमार, यदि परिहीनं मम वचनं भवेत्तदा देवी भणति । ) भीमसेनः—किं पुनरभिहितं भवत्या । चेटी—तदा मए परिकुव्विअ भणिअ । अइ भाणुमदि तुम्हाणं अमुक्केसु केसहत्थेसु कध अम्हाणं देवाए केसा संजमीअन्ति।त्ति । ( ततो मया परिकुप्य भणितम् । अयि भानुमति, युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति । ) अन्वयः—साहचर्यात्, स्त्रीणाम्, चेतांसि, भर्तृसदृशानि, भवन्ति, हि, विषविट- पिसमाश्रिता, मधुरा, अपि वल्ली, मूर्च्छयते, ( जनम् ) ॥ २० ॥ पूर्वोक्तेऽर्थे प्रमाणमाह—स्त्रीणामिति । साहचर्यात् = सहवासात्, स्त्रीणां = नारीणाम्, चेतांसि = चित्तानि, भर्तृसदृशानि = पतितुल्यानि, भवन्ति । हि = अवधारणे । 'हि हेताववधारणे' इत्यमरः । हि = यतः, विषविटपिसमाश्रिता = विष वृक्षाश्रिता, मधुरा = मधुररसा, अपि, वल्ली = लता, 'वल्ली तु व्रततिर्लता' इत्यमरः मूर्च्छयते = मोहयति, जनमिति शेषः । आर्याच्छन्दः ॥ २० ॥ ॰ बुद्धिमत्तिके = बुद्धिमत्तिका नाम्नी चेटी तत्सम्बोधने । अभिहितम् = उक्तम् । ॰ परिहीनं = विनष्टम्, मम् मुखादनिःसृतमित्यर्थः । देवी = द्रौपदी, भणति = गदति, गदेदित्यर्थः । परिकुप्य = परिक्रुध्य, भणितम् = उक्तम् । अमुक्तेषु = बद्धेषु, केशहस्तेषु = केशव्रा- तेषु 'हस्तः करे करिकरे सप्रकाष्ठकरेष्वपि च । ऋक्षे केशात्परा व्राते' इत्यमरः । कथ=केन प्रकारेण, सयम्बन्ते = बध्यन्ते । पति के साथमें रहने के कारण स्त्रियोंका स्वभाव भी पतिदेव के सदृश ही होता है क्योंकि विष-वृक्ष में उलझी हुई लता मीठी होती हुई भी मूर्च्छाकारी गुणों से युक्त हो जाती है ॥२०॥ भीमसेन—बुद्धिमत्तिके ! पुनः देवी ने क्या समाधान किया ? चेटी—कुमार, यदि मैं नहीं बोलती तो महारानी अवश्य उत्तर देतीं ( अर्थात् मेरे साथ रहते हुए महारानी को समाधान देने की कोई आवश्यकता नहीं ) । भीमसेन—तुमने फिर क्या कहा ? चेटी—कुमार मैंने इस प्रकार कहा, ऐ भानुमती, तुम लोगों के केश तो अभी बँधे हुए हैं तो फिर मेरी महारानी के केश कैसे बँध सकेंगे ?

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३३ भीमसेनः—( सपरितोषम् । ) साधु बुद्धिमत्तिके, साधु। तदभिहितं यद- स्मत्परिजनोचितम् । ( सधीरमासनादुत्तिष्ठन् ) भवति पाञ्चालराजतनये, श्रूयताम्। अचिरेणैव कालेन— चञ्चद्भुजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानापविद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ २१ ॥ द्रौपदी—किं णाह, दुक्करं तुए परिकुविदेण । सव्वहा अणुगेण्हन्तु अस्मत्परिजनोचितम् = आस्माकजनसमुचितम् । अचिरेण = शीघ्रेण । अन्वयः—( हे ) देवि, चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य, सुयोधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः, भीमः, तव, कचान्, उत्तंस- यिष्यति ॥ २१ ॥ शीघ्रमेव शत्रून् विजित्य तव कचान् भन्त्स्यामीत्याह—चञ्चदिति । ( हे ) देवि = महिषि द्रौपदि । चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य = चञ्च- द्भ्यां चलद्भ्यां भुजाभ्यां दोर्भ्यां, भ्रमिता या चण्डगदा भयावहशस्त्रविशेषः, तस्या अभिघातेन हननेन, सञ्चूर्णितम्, ऊरुयुगलम् सक्थिद्वयम्, यस्य, तस्य । सुयोधनस्य = दुर्योधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः = स्त्यानं क्लिन्नम् , अपविद्धम्, आविद्धम्, घनं निबिडं यच्छोणितं रुधिरं, तेन शोणः रक्तः, पाणिः हस्तः यस्य सः । भीमः = अहं, तव, कचान् = केशान् , उत्तंसयिष्यति = अवमूर्षयिष्यति, तसु भूषाया- मिति निष्पन्नः । अत्र दुर्योधनोरुसञ्चूर्णनात्मकयुद्धवृत्तान्तरूपकाव्यार्थस्य निश्चयेनोप- स्थितेः परिन्यासाख्यं मुखाङ्गम् । तदुक्तं दर्पणे—‘तन्निष्पत्तिः परिन्यासः' इति । निष्पत्तिः निश्चयेनोपस्थितिः । अत्र चञ्चद्भुजभ्रमितचण्डेत्यत्र वृत्त्यनुप्रासः शोणित- शोणेत्यत्र छेकानुप्रासोऽलङ्कारः । वसन्ततिलका छन्दः ॥ २१ ॥ भीम—( सन्तुष्ट होकर ) ठीक बुद्धिमत्तिके ठीक, तुमने वही कहा जो हम लोगों के भृत्यों को कहना चाहिये। (व्याकुलाहट के साथ उठते हुए) ऐ पाञ्चालपुत्रि, विषादसे कोई लाभ नहीं। अधिक मैं क्या कहूँ बहुत शीघ्र जो करूँगा उसे सुनिये । हे देवि ! ( यह ) भीम अपने चपल भुजदण्डों से घुमाये हुए भीषण गदा के प्रहार से सुयोधन के जंघों को रौंदकर निकाले गये खूब गाढ़े रक्त से निश्चल हाथों को रँगता हुआ तुम्हारे केशकलापों को सँवारेगा ॥ २१ ॥ द्रौपदी—स्वामिन् आपके क्रुद्ध हो जाने पर कौन कार्य दुष्कर है । (अर्थात् जिसे ३ वे०

३४ वेणीसंहारं नाटकं एदं ववसिदं भादरो । (किं नाथ, दुष्करं त्वया परिकुपितेन । सर्वथाऽनुगृह्ण- न्त्वेतद्व्यवसितं ते भ्रातरः । ) सहदेवः—अनुगृहीतमेतदस्माभिः । ( नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति । ) भीमसेनः— मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । परिकुपितेन, त्वया किं, दुष्करम्—दुःसाध्यम्, न किमपीत्यर्थः । ते, भ्रातरः, एतद्व्यवसितम् = इमं व्यवसायम्, अनुगृह्णन्तु = अनुमन्यन्ताम् । कलकलः = आकस्मिकोऽव्यक्तशब्दः । अन्वयः—मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः, कोणाघातेषु, ( सत्सु ) गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः, कृष्णाक्रोधाग्रदूतः, कुरुकुलनिधनोत्पात- निर्घातवातः, अस्मत्सिंहनादप्रतिरसितसखः, अयम् , दुन्दुभिः, केन ताडितः ॥ मन्थाव्यस्तेति । मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः = मन्थः, मन्थनदण्डविशेषः, तेन आयस्तं चालितम् अर्णवाम्भः समुद्रजलं तेन प्लुतं, संलग्नं, कुहरं, मध्यं यस्य, तस्य चलतः, मन्दरस्य मन्दरनामकशैलस्य यः ध्वनिः, शब्दः तद्वद्धीरः, गम्भीरः । अस्य दुन्दुभिरित्यत्रान्वयः । एवमग्रिमस्यापि प्रथमा- न्तस्य । कोणाघातेषु = ‘ढक्काशतसहस्राणि भेरीशतशतानि च । एकदा यत्र हन्यन्ते आप न कर सकें ) ईश्वर करे आपके इस विचार से आपका भ्रातृवर्ग सहमत हो जाय । सहदेव—हम लोग सहमत हैं । भीम—मन्थन-दण्ड (मंदराचल) से प्रक्षिप्त समुद्र जल से पूर्ण कन्दरासहित चलते हुए मन्दराचल की तरह गम्भीर घोषकारी, कोणाघात होने पर ( सौ हजार डमरू और दस हजार नगाड़े एक साथ बजते हैं तो उसे कोणाघात कहते हैं ) प्रलयकाल के गर्जते हुए मेघों की घटाओं के परस्पर टक्कर खाने से भीषण शब्दकारी द्रौपदी के अथवा प्रलय रात्रि के अग्रदूत के समान कौरवाधिनाथ [ सुयोधन ] के नाशसूचक उत्पातसे उपस्थित झंझावात की भाँति हम लोगों के सिंहनाद के सदृश इस नगाड़े को किसने ठोंका है । ( अथवा ) अरे इस नक्कारे को किसने बजाया ? इसकी ध्वनि समुद्र-मंथन के समय मन्थन-दण्ड से प्रक्षिप्त जल से परिपूरित कन्दरायुक्त मन्दराचल के भ्रमण-कालीन गम्भीर ध्वनि की तरह है, प्रलय काल के गर्जते हुए मेघ-मालाओं के परस्पर संघट्टित होने पर

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३५ कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥ २२ ॥ ( प्रविश्य सम्भ्रान्तः । ) कञ्चुकी-- कुमार, एष खलु भगवान्वासुदेवः । ( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति । ) भीमसेनः- ( ससम्भ्रमम् । ) क्वासौ भगवान् । कञ्चुकी-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयमितुमारब्धः । ( सर्वे सम्भ्रमं नाटयन्ति । ) कोणाघातः स उच्यते ॥' इति लक्षणलक्षितेषु सत्सु, गर्जत्प्रलयघनघटान्योऽन्यसंघट्ट- चण्डः = गर्जन्तो ये प्रलयकालिकघनाः, तेषां घटा समुदायः, तस्या अन्योन्यसङ्घट्टः, परस्परसङ्घर्षः, तस्माच्चण्डः विकटः, कृष्णाक्रोधाग्रदूतः = द्रोपदीकोपप्रयमकथकः, कुरुकुलनिधनोत्पातनिर्घातवातः = कुरुवंशविनाशाशुभसूचकप्रचण्डवायुः, अस्मत्सिंहना- दप्रतिरसितसखः-अस्माकं यः सिंहनादः, केशरिंशब्दतुल्यशब्दः तस्य तत् , प्रतिरसितं प्रतिरवः, तस्य सखा 'राजाहुःसखिभ्यष्टच्' इति टच् प्रत्ययः । अयं, दुन्दुभिः = भेरी, 'भेरी स्त्री दुन्दुभिः पुमान्' इति विश्वः । केन कर्त्रा, ताडितः = आहतः, अत्र दूत इत्यत्र वात इत्यत्र चोत्प्रेक्षे । स्रग्धरा छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ २२ ॥ कञ्चुकी--शौविदल्लः, राज्ञां स्त्र्यगारे बहिरक्षाधिकारीत्यर्थः । पाण्डवपक्षपातामर्षितेन = पाण्डुपुत्रपक्षग्रहणक्रुद्धेन, संयमितुं = बद्धुम् । स्वार्थे- णिच् , ततस्तुमुन्प्रत्ययः । निकलने वाले भीषण निर्घोष को भी जीत लेती है। यह ( नक्कारा ) द्रौपदी के अथवा प्रलयकाल की रात्रि के क्रोध का सूचक है इतना ही नहीं, किन्तु सुयोधन के नाश के लिए उत्पातकालीन झञ्झावात की तरह है और हम लोगों के सिंहनाद की भाँति इसमें से ध्वनि निकलती है ॥ २२ ॥ ( प्रवेश कर घबड़ाया हुआ ) कञ्चुकी-कुमार, ये भगवान वासुदेव...... ( सब लोग हाथ जो कर खड़े हो जाते हैं ) भीमसेन - अत्यन्त आतुर होकर कहाँ, कहाँ हैं भगवान् वासुदेव ? कञ्चुकी-पाण्डवों के पक्षपात से क्रुद्ध होकर सुयोधन भगवान् वासुदेव को पकड़ने के लिये उद्यत हुआ है । ( सब व्याकुल हो जाते हैं )