भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 39, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 39

[Page Header: १८ वेणीसंहारं नाटकं]

तत्सहदेव, निवर्तस्व। एवं चापि चिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम्। सहदेवः—आर्य, किमिति। भीमसेनः— युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि। क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥ तथाभूतपाञ्चालतयादर्शनरूपैककारणस्य सत्त्वेऽपि 'खले कपोत' न्यायाद्वने व्याघ्रैः सार्द्ध' मित्याद्यनेककारणान्तराणामुपादानात्समुच्चयालंकारः। शिखरिणीछन्दः ॥११॥ तत् = तस्मात् सहदेव ! निवर्तस्व = निवृत्तो भव। चिरप्रवृद्धामर्षोद्दीपितस्य = चिरात् प्रवृद्धो यः अमर्षः क्रोधः तेन उद्दीपितस्य प्रज्वलितस्य। अन्वयः—युष्मच्छासनलङ्घनांहसि, मग्नेन, मया, स्थितम्, नाम, स्थिति- मताम्, अनुजानाम्, मध्ये, विगर्हणा, प्राप्ता नाम, क्रोधोल्लासितशोणितारुणगदस्य, कौरवान्, उच्छिन्दतः, मम, अद्य, एकम्, दिवसम्, गुरुः, न असि, अहम्, तव, विधेयः, न ॥ १२ ॥ विज्ञापनीयमेवाह—युष्मच्छासनेति। युष्मच्छासनलङ्घनांहसि = भवदीयाज्ञोल्ल- ङ्घनपापे, मग्नेन = निमग्नेन, मया = भीमेन, स्थितम्, नामेति प्राकाश्ये, इदं प्रकाशयामीत्यर्थः । स्थितिमताम् = ज्येष्ठाज्ञापालनरूपमर्यादावतां, अनुजानाम् = कनिष्ठभ्रातॄणाम् अपि, मध्ये अन्तरे 'न्याय्यावलग्नयोर्मध्यमन्तरे चाधमे त्रिषु' इति विश्वः। विगर्हणा = निन्दा, प्राप्ता = समासादिता, नाम सम्भावयामि यद्विगर्हणा प्राप्तेति । क्रोधोल्लासितशोणितारुणगदस्य-क्रोधेन = कोपेन, उल्लासिता = उत्थापिता, शोणितेन = रुधिरेण, अरुणा = रक्ता गदा येन, सः तस्य, कौरवान् = धार्तराष्ट्रान्, उच्छिन्दतः = निःशेषयतः, मम = भीमस्य, अद्य = इदानीम्, 'इदानीमद्य' इति अतः सहदेव, लौट जाओ, और चिरकाल में सञ्चित क्रोध से उद्दीप्त भीम की ओर से राजा युधिष्ठिर से कहो। सहदेव—आर्य, क्या कहें ? भीमसेन—इस प्रकार सूचित करो—'आपके आज्ञोल्लङ्घनरुपी पाप जल में डूबता हुआ मैं सम्भावना करता हूँ कि आज्ञापालनारत भाइयों के बीच निन्दनीय समझा जाऊँ। क्रोध के साथ रुधिर-से लिप्त गदा को घुमाते हुए तथा कौरवों का संहार करते हुए आज एक दिन के लिए न तो आप मेरे ज्येष्ठ भ्राता हैं और न मैं आपका आज्ञाकारी कनिष्ठ भ्राता'।