वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 40, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १९ ( इत्युद्धतं परिक्रामति । ) सहदेवः—( तमेवानुगच्छन्नात्मगतम् । ) अये, कथमार्यः पाञ्चाल्याश्चतुः- शालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । ( इति स्थितः । ) भीमसेनः—(प्रतिनिवृत्यावलोक्य च । ) सहदेव, गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि । सहदेवः—आर्य नेदमायुधागारम् , पाञ्चाल्याश्चतुःशालकमिदम् । भीमसेनः—(सवितर्कम् । ) किं नाम नेदमायुधागारम्, पाञ्चाल्या- श्चतुःशालकमिदम् । ( विचिन्त्य, सहर्षम् । ) आमन्त्रयितव्यैव मया पाञ्चाली । ( सप्रणयं सहदेवं हस्ते गृहीत्वा । ) वत्स आगम्यताम् । यदार्यः कलापसूत्रेण निष्पन्नम् । एकं, दिवसम् = दिनम् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । गुरुः = ईश्वरः शासक इत्यर्थः । न, असि, अहं=भीमः, तव=युधिष्ठिरस्य, विधेयः = अनुशासनीयः, न । भवदाज्ञामनुरुध्य कौरवान् विनाशयिष्यामीति युधिष्ठिरम्प्रति सन्देश इति । अत्र कौरवविनाशरूपकार्यस्य, हेतोर्गण्डोल्लासस्य निन्दाप्राप्तिरूपाकार्यस्य हेतोर्ज्येष्ठभ्रातृशासनोल्लङ्घनस्य कथनात् परिकरनामकसन्धिः । तदुक्तं भरतेन—'कार्यकार्यार्थहेतूनामुक्तिः परिकरो मतः ॥' इति । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं द्वितीयश्लोके ॥ १२ ॥ पाञ्चाल्याः = द्रौपद्याः, चतुःशालम्=अन्योन्याभिमुखशालाचतुष्टयगृहम् । गुरुम् = युधिष्ठिरम्, अनुवर्तस्व = अनुसर । आयुधागारं = शस्त्रगृहम्, प्रविश्य= गत्वा, आयुधसहायः = गृहीतशस्त्रः । सवितर्कम् = सानुमानम् । मया, पाञ्चाली = द्रौपदी, आमन्त्रयितव्या=विचारयि- ( अहङ्कार के साथ घूमते हैं ) सहदेव—( भीम के पीछे जाते हुए मन ही मन ) अरे, क्यों, भार्य कृष्णा [ द्रौपदी ] के सदन में पहुँच गए, अच्छा, मैं यहीं ठहर जाता हूँ ( बैठ जाते हैं ) । भीमसेन—( लौटकर और देखकर ) सहदेव, जाओ बड़े भैया की आज्ञा का पालन करो । मैं भी शस्त्रागार में जाकर सहायतार्थ शस्त्र लेता हूँ । सहदेव—आर्य, यह शस्त्रागार नहीं, यह तो कृष्णा का आवास है । भीम—( भ्रमपूर्वक ) क्या यह शस्त्रागार नहीं ? क्या यह द्रौपदी का आवास है ? ( सोचकर हर्षपूर्वक ) कृष्णा से वार्तालाप करना ही है ( प्रेम के साथ सहदेव का हाथ पकड़- कर ) अनुज, आओ । भाई, महाराज कौरवों के साथ सन्धि की इच्छा करते हुए हमें जो जो