वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 54, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३३ भीमसेनः—( सपरितोषम् । ) साधु बुद्धिमत्तिके, साधु। तदभिहितं यद- स्मत्परिजनोचितम् । ( सधीरमासनादुत्तिष्ठन् ) भवति पाञ्चालराजतनये, श्रूयताम्। अचिरेणैव कालेन— चञ्चद्भुजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानापविद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ २१ ॥ द्रौपदी—किं णाह, दुक्करं तुए परिकुविदेण । सव्वहा अणुगेण्हन्तु अस्मत्परिजनोचितम् = आस्माकजनसमुचितम् । अचिरेण = शीघ्रेण । अन्वयः—( हे ) देवि, चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य, सुयोधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः, भीमः, तव, कचान्, उत्तंस- यिष्यति ॥ २१ ॥ शीघ्रमेव शत्रून् विजित्य तव कचान् भन्त्स्यामीत्याह—चञ्चदिति । ( हे ) देवि = महिषि द्रौपदि । चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य = चञ्च- द्भ्यां चलद्भ्यां भुजाभ्यां दोर्भ्यां, भ्रमिता या चण्डगदा भयावहशस्त्रविशेषः, तस्या अभिघातेन हननेन, सञ्चूर्णितम्, ऊरुयुगलम् सक्थिद्वयम्, यस्य, तस्य । सुयोधनस्य = दुर्योधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः = स्त्यानं क्लिन्नम् , अपविद्धम्, आविद्धम्, घनं निबिडं यच्छोणितं रुधिरं, तेन शोणः रक्तः, पाणिः हस्तः यस्य सः । भीमः = अहं, तव, कचान् = केशान् , उत्तंसयिष्यति = अवमूर्षयिष्यति, तसु भूषाया- मिति निष्पन्नः । अत्र दुर्योधनोरुसञ्चूर्णनात्मकयुद्धवृत्तान्तरूपकाव्यार्थस्य निश्चयेनोप- स्थितेः परिन्यासाख्यं मुखाङ्गम् । तदुक्तं दर्पणे—‘तन्निष्पत्तिः परिन्यासः' इति । निष्पत्तिः निश्चयेनोपस्थितिः । अत्र चञ्चद्भुजभ्रमितचण्डेत्यत्र वृत्त्यनुप्रासः शोणित- शोणेत्यत्र छेकानुप्रासोऽलङ्कारः । वसन्ततिलका छन्दः ॥ २१ ॥ भीम—( सन्तुष्ट होकर ) ठीक बुद्धिमत्तिके ठीक, तुमने वही कहा जो हम लोगों के भृत्यों को कहना चाहिये। (व्याकुलाहट के साथ उठते हुए) ऐ पाञ्चालपुत्रि, विषादसे कोई लाभ नहीं। अधिक मैं क्या कहूँ बहुत शीघ्र जो करूँगा उसे सुनिये । हे देवि ! ( यह ) भीम अपने चपल भुजदण्डों से घुमाये हुए भीषण गदा के प्रहार से सुयोधन के जंघों को रौंदकर निकाले गये खूब गाढ़े रक्त से निश्चल हाथों को रँगता हुआ तुम्हारे केशकलापों को सँवारेगा ॥ २१ ॥ द्रौपदी—स्वामिन् आपके क्रुद्ध हो जाने पर कौन कार्य दुष्कर है । (अर्थात् जिसे ३ वे०