वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 53, कुल 355 में से
संदर्भ में पढ़ें३२ वेणीसंहारं नाटकं स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ २० ॥ भीमसेनः—बुद्धिमत्तिके ततो देव्या किमभिहितम् । चेटी—कुमाल, जइ पडिहीणं मम वयणं भवे तदो देवी भणादि । ( कुमार, यदि परिहीनं मम वचनं भवेत्तदा देवी भणति । ) भीमसेनः—किं पुनरभिहितं भवत्या । चेटी—तदा मए परिकुव्विअ भणिअ । अइ भाणुमदि तुम्हाणं अमुक्केसु केसहत्थेसु कध अम्हाणं देवाए केसा संजमीअन्ति।त्ति । ( ततो मया परिकुप्य भणितम् । अयि भानुमति, युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति । ) अन्वयः—साहचर्यात्, स्त्रीणाम्, चेतांसि, भर्तृसदृशानि, भवन्ति, हि, विषविट- पिसमाश्रिता, मधुरा, अपि वल्ली, मूर्च्छयते, ( जनम् ) ॥ २० ॥ पूर्वोक्तेऽर्थे प्रमाणमाह—स्त्रीणामिति । साहचर्यात् = सहवासात्, स्त्रीणां = नारीणाम्, चेतांसि = चित्तानि, भर्तृसदृशानि = पतितुल्यानि, भवन्ति । हि = अवधारणे । 'हि हेताववधारणे' इत्यमरः । हि = यतः, विषविटपिसमाश्रिता = विष वृक्षाश्रिता, मधुरा = मधुररसा, अपि, वल्ली = लता, 'वल्ली तु व्रततिर्लता' इत्यमरः मूर्च्छयते = मोहयति, जनमिति शेषः । आर्याच्छन्दः ॥ २० ॥ ॰ बुद्धिमत्तिके = बुद्धिमत्तिका नाम्नी चेटी तत्सम्बोधने । अभिहितम् = उक्तम् । ॰ परिहीनं = विनष्टम्, मम् मुखादनिःसृतमित्यर्थः । देवी = द्रौपदी, भणति = गदति, गदेदित्यर्थः । परिकुप्य = परिक्रुध्य, भणितम् = उक्तम् । अमुक्तेषु = बद्धेषु, केशहस्तेषु = केशव्रा- तेषु 'हस्तः करे करिकरे सप्रकाष्ठकरेष्वपि च । ऋक्षे केशात्परा व्राते' इत्यमरः । कथ=केन प्रकारेण, सयम्बन्ते = बध्यन्ते । पति के साथमें रहने के कारण स्त्रियोंका स्वभाव भी पतिदेव के सदृश ही होता है क्योंकि विष-वृक्ष में उलझी हुई लता मीठी होती हुई भी मूर्च्छाकारी गुणों से युक्त हो जाती है ॥२०॥ भीमसेन—बुद्धिमत्तिके ! पुनः देवी ने क्या समाधान किया ? चेटी—कुमार, यदि मैं नहीं बोलती तो महारानी अवश्य उत्तर देतीं ( अर्थात् मेरे साथ रहते हुए महारानी को समाधान देने की कोई आवश्यकता नहीं ) । भीमसेन—तुमने फिर क्या कहा ? चेटी—कुमार मैंने इस प्रकार कहा, ऐ भानुमती, तुम लोगों के केश तो अभी बँधे हुए हैं तो फिर मेरी महारानी के केश कैसे बँध सकेंगे ?